पृष्ठम्:न्यायमकरन्दः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादनिरास• । मृ०-अनुपपत्तिर्हि न तावद् रजतावभासस्य, स खल्वव भासमानमेवालम्बनमन्तरेणानुपपन्नो न पुनरनवभासमा नाप्यसतख्यात्यनुपपत्तिरन्यत्र सत्ता बोधिका, तत्सन्नि नापि वाधावबोधस्यान्तरेणान्यत्रसत्तामनुपपातः, स खलु प्रसक्तप्रतिषेधतया प्राप्तिमेव रजतस्यात्राक्षिपेद् असतश्च तद्नुपपत्तौ सत्तामप्यत्रैव न पुनरन्यदेशादौ तत्रानुपयोगाद् । ट०-किं रजतावभासानुपपति. किं वाऽसत्तूख्यात्यनुपपत्तिरुत वाधा नुपपत्तिरिति त्रेधानुपपत्तिपक्षे विकल्प्याद्य दूषयति “अनुपप त्तिर्” इति, । अनुपपत्ति दूषयति “स खलु” इति, । द्वितीयं दूषयति * नाप्यसद्' इति, । रजतस्य पुरोवर्तेि निष्टत्वमसदेव यथा प्रतीयते रजतमप्यसदेव तथावभासनादिति नान्यत्र सत्वसिद्धिरित्यर्थ., । तृतीयं दूषयति “नापि वाध” इति, । असतः प्राप्य नुपपले"सत्तापि कल्पनायेत्यत आह “असतश्च' इति, ॥

  • तत्सन्निधिवद् = रजतनिष्ठपुरोवर्तित्ववदू,