पृष्ठम्:न्यायमकरन्दः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ न्यायमकरन्दे । मू०-नियमेन प्रवृत्तिविषयत्वाद् यदित्थं तत्तथा यथो भयवाद्यविवादास्पदं रजतम्) नेदमिति च वाधोदयसमनन्तरसमुपजातम् (एता वन्तं कालं रजतमित्यभाद्) इति प्रत्यभिज्ञानमप्यमुमे वार्थमञ्जसा वेदयतीति । तदपि न चातुरीं धत्ते, यत्तावद् (अत्यन्तासतः प्रतिभासासम्भवाद् वाधीविरोधाच यथावभासत्ता नुपपत्तौ शुक्तिरेवार्थान्तररजताकारेणावभासत) इति, तंत्र यद्यसतो न प्रतिभासः कथन्तर्हदंकारास्पदस्य रजतात्मता प्रतिभासेत, नहि तस्य स्वरूपसतोऽपि तदात्म ना सत्ता तात्विकी येनैतदित्थमनुभवगोचरतामापद्येत, टी७-*अञ्जसा'इति । वाधात्पूर्वमिदमो रजतत्वेनाप्रतिभासे रजतमिदमभादिति वाधानन्तर प्रत्यभिज्ञा न भवेदित्यर्थः । असत्ख्यातिभयादन्यथाख्यात्यभ्युपगमः, तदभ्युपगमपि तद्भयं तदवधस्थमिति दूषयति -“तत्र यदि इति । रजतस्य स्वरूपेण सत्वात्कथमसत्ख्यातिप्रसङ्ग इत्यत आह-* नहि' इति । स्वरू पभावेपि तदूरूपेणासत्वादसत्ख्यातिरेवेत्यर्थ. । नन्विदमंशस्य रज तस्य तत्तादात्म्यस्यच यथार्थस्थले भावातू कथमसत्तूख्यातिरित्यक्ष