सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादनिरासः । मू०-अपरथा वाधाधया नरालम्बनतापातात, प्राचवश्व प्रत्ययस्य प्रतिभासमानार्थसद्भावात्प्रामाण्यं, पराचस्तु तद् भावादप्रामाण्यमिति च भ्रान्तिवाधविपय्यपाताद् । अथेदंकारास्पदस्य रजतात्मताया अप्यन्यत्र सत्तायां सम्भवत्येवोपलम्भगोचरभावो न पुनरत्यन्ता सन्तायामाकाशन्नालन्नायमानस्य रजताद्रवभाससम्भव इत्यसत्ख्यात्यनङ्गीकरणम् । अथासौ रजतात्मतेदंकारास्पदस्यान्यत्रैव सतीति किमत्रापि, यद्याद्यः कल्पः कथं नात्यन्तासतः प्रति भासः, न हेि रूपान्तरसत्ता व्यवच्छिन्नति रूपान्तरस्या त्यन्तिकीमसत्ताम्, मा भून्नलिनसत्तामात्रान्नभोनलिनम प्यसद्विलक्षणम्, उत्तरस्मिन्नपि कथं न प्राचीनदोषानु षङ्गः । य टी०-आह-* अप्रथा ' इति, दूषणान्तरमाह-*प्राचश्च' तादात्म्यस्यासत्त्वेप्यन्यत्र सत्त्वान्नास त्ख्यातिप्रसङ्गो, गगनकुसुमादे. पुनरनेवभूतत्वाद्वैषम्यमिति शङ्कते

  • अथेदम्' इति ।

तदेतद्विकल्प्य दूषयति –“अथासौ ” इति । अपि-शब्दाद् ? न्यत्रापि, स्वरूपेण सत्वात्कथमत्यन्तासदिति तत्राह-* नहि ?? इति । प्राचीनदोष:=वाधधियो निरालम्बनत्वं, म्रान्तिवाधविपटर्य

  • इत् रजतमितिभ्रान्तिरूपप्राच्च प्रत्ययस्याप्रामाण्य , नद् रजतमिसिवाधरूपपरा

चश्च प्रामाण्यमिति सिद्धान्त , रजतसत्ताङ्गीकार त्वनयो प्रत्यययेवैपरीत्यमापते ति भाव ' ॥