पृष्ठम्:न्यायमकरन्दः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । मू०-किञ्च-इदंकारास्पदाभिमुखी रजतार्थिन प्रवृत्तिस्तदिच्छानिबन्धना युक्ता, अन्यथाऽन्यदिच्छत्य न्यत्र व्यवहरतीति व्याघातात—तथाच न चेदिदं कारा स्पदं रजतावभासगोचरः कथं रजतार्थी तदिच्छेद् । अथारजतताऽग्रहणादित्यभिधीयेत हन्त रजतता ऽग्रहणात्कस्माद्यं नोपेक्षेते,ति सोयमुपादानोपेक्षाभ्यां पु रतः पृष्टतश्राकृष्यमाणः पुरुषा न रजतसमारोपमन्तरे णोपादान एव व्यवस्थास्यत इत्यकामैरप्यसावाश्रयणीयः तथा च भेदागूह्वादिदंकारास्पदे रूप्यमारोप्य तद्विधस्योप कारहेतुभावमनुस्मृत्य तज्जातीयभावेनास्यापि * तमनुमा य तदर्थी प्रवर्तत इति युक्तम् । टी०-पुरोवर्तिनि रजतार्थिप्रवृत्तेस्तदूगोचरजतज्ञानपूर्वकत्वं सिसाधयिषुः प्रथमं रजतेच्छानिबन्धनत्वं साधयति -* किञ्च” इति, तदिच्छानिबन्धना=पुरोवत्तच्छानिबन्धना, । ततः किमित्यतः आह—* तथाच' इति, पुरोवर्तिनि रजतेच्छानिबन्धनप्रवृत्ते दित्यर्थ तथाभूतज्ञानाजन्यत्वेपि प्रवृत्तिरुपपद्यत इतिशङ्कते-* अथ' इति, समारोपाङ्गीकारे कथमुपादान एव व्यवस्थास्यत इति तत्राह

  • तथाच' इति, नन्वख्यातिपक्षेपि रजतस्मरणमस्तीत्याशङ्कय

तस्य पुरोवर्त्तिविषयत्वाभावेन व्यधिकरणत्वादू मैवमित्याह

  • तम् = उपवकारहतुत्वम् ॥