पृष्ठम्:न्यायमकरन्दः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरास मू०-मस्माद् भिन्न इत्यभिधानविशेषस्मरणानुपपत्तेराश्री यते तत्पूर्वता सविकल्पिकायाः संविदः,निर्विकल्पिकायास्तु न तत्पूर्वतायां निबन्धनं किञ्चिदुत्पश्याम इति । तदप्यविमृश्यमानसुन्दरं, तथाहि-यत्तावद् भेदभे दिनोभेदे मृलक्षयाभावान्नानवस्थादोष इति, तदप्यपय्र्या लोचिवताभिधानं, स्तम्भाद्धि कुम्भो भिन्न इति वा कु म्भस्य भेद् इति वा विशेषणभावेन विशेष्यभावेन वा भेदावभासे दण्डयादिवद् भेदेनावभासमन्तरेण विशेषण विशेष्यभावानुपपत्तावादित एव भेदान्तरग्रहणस्यावश्या श्रयणीयत्वात्तत्तद्भेदान्तरस्य च समानन्यायतया भेदा रासिद्धापेक्षत्वात्पर्वपूर्वासिद्धरावत्तरोत्तरासिद्धेर्न मौलिक स्यापि भेदस्य सिद्धिरिति मूलक्षयकरीत्वाद् भवत्येव दृषणमनवस्था । टी०संभिन्नत्वाद्वाच्यार्थज्ञानमन्तरेण च तदनुपपत्तेरस्ति तत्र तत्पूर्वक त्वमित्यर्थः । प्रकृते तु नैवमित्याह-“निर्विकल्पिकायास्तु” इति, युगपदनन्तभेदप्रसङ्गेनानवस्थाया मूलक्षयकरीत्वमाह-“स्तम्भा डेि’ इति । भवतु विशेषणविशेष्यभावेन भेदावभासस्तथापि कथमनवस्थेत्यत आह-“दण्डयादिवद्’ इति, अत्र च निर्वाहको भेदः पूर्व , निर्वाह्यश्चोत्तर, सर्वोत्तरश्च प्रथमो घटपटयोर्भेदः, सर्व निर्वाह्यत्वाद्, एवं च सति चतुर्थादेरसिद्धेस्तृतीयाद्वितीययोरासिद्धया प्रथमस्यासिद्धिरिति मूलक्षय इत्यर्थे. । “ निर्विकल्पिकापि प्र