पृष्ठम्:न्यायमकरन्दः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म० पलम्भेपि भागान्तरपरिवर्तिनादानुपलम्भस्तथा प्रयत्नोपलम्भाऽनुपलम्भव्यवस्थितिरपि परिकल्पितपुरुष प्रदेशविशेषवशादेव किन्नाश्रीयते । तत्सिद्वभेतत्र प्रतिक्षेत्रं क्षेत्रज्ञभेदः प्रमाणपदवीम ध्यास्त इति । विपर्यये तु श्रुतिस्मृतीतिहासपुराणवाक्यान्यनेकानि प्रमाणभावं भजन्ते तान्यपि दर्शितान्येव लेशतः । तथाचानुमानमपि-विवादपद्मानि शरीराणि उभयवाद्य विवादास्पदेनैवात्मनाधिष्ठितानि जीवच्छरीरत्वाद् यदु क्तसाधनं तदुक्तसाध्यं यथेोभयवाद्यविवादास्पदं शरीरं तथा चेमानि तस्मादुक्तसाध्यानि इति । यः पुनः परमेश्वरस्याप्यखिलकाय्र्यकारणाधिण्ठातृ क्षेत्रज्ञभेदनिरासः । टी०-विपय्र्ययेतु=आत्मैकत्वे तु । यद्यप्यात्मैकत्वमागमैकगम्यमेवेति रहस्यं तथापि कस्यचित्तू तर्ककर्कशधियो नानुमानै विना मन: प्रीणातीति तत्प्रीणनायाऽनुमान मारचयति “तथा चानुमानम्' इति । प्रतिवादिशरीरातिरि क्तानि सर्वाण्येव जीवच्छरीराणिा विवादपदान्युच्यन्ते । दृष्टान्तदाष्टन्तिकभावकृतभेदप्रतीतिवाधपरिहाराय ‘एवकारः । ईश्वराङ्गीकारपक्षे प्रतिवादिशरीरस्य जीवेश्वराभ्यामधिष्टि तत्वेन साध्यविकलो दृष्टान्त इत्याशङ्क्य प्रयोगान्तरमाह “यः पुनर्' इति ।