पृष्ठम्:न्यायमकरन्दः.djvu/३२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मू०-इति वचनमकिंवित्करं, नहि परायतनस्वामि न्येवमनुमानमुदेतुमलं यथा मम शरीरे मदीयप्रयत्न पूर्विका चेष्टा तथा परशरीरेपि मत्प्रयत्ननिबन्धनैवेतेि. प्रत्यक्षविरोधात-प्रत्यक्षेण हि स्वात्मनि समवयन् प्रयत्र उपलभ्यते, न हि परशरीरे चेष्टानुगुणः प्रयलः स्वा त्मनि पुरुषाणां प्रत्यक्षो भवती,ति पर एव प्रयतिता परशरीरेऽनुमीयत इति । तदप्यसमीक्षिताभिधानं-काल्पनिकपुरुषप्रदेशभेदादेव ग्राह्यग्राहकभावव्यवस्थितिवत प्रयत्नोपलम्भानुपलम्भ योरुपपत्तौ वास्तवपुरुषभेदपरिकल्पनस्याप्रामाणिकत्वाद् । यथा खलु स्वकर्णपुटपरिच्छिन्ननभोभागसमवायिशब्दो टी०–त्यत आह “नहिपरायतनस्वामिनि ?' इति । प्रयतत्वा देवेतरप्रयतोपि प्रत्यक्षः किन्न स्यादित्यत आह “नहेि परशरीरे'ति, दूषयति “तदपि' इति । काल्पनिकपुरुषप्रदेशव्रशादेव यथा ग्राह्यग्राहकभावव्यवस्थितिस्तथाप्रयलोपलम्भानुपलम्भयोर प्युपपत्तिः, ग्राहकनिष्ठप्रपलस्य प्रत्यक्षेणोपलम्भो प्राह्यनिष्ठप्रयल स्यानुमानतः, एवं तयोरुपपत्तौ वास्तवपुरुषभेदो न कल्पनीय प्रदेशभेदवशादुपलम्भानुपलम्भयोरुपपत्तावुदाहरणमाह“यथा खलु' इति ॥

  • समवयन् = समवायसम्बन्धेन् वर्तमानः ।