सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
203
द्वादशस्सर्गः

वात्स्यायनीयमधिगत्य रहस्यमर्थं
त्यक्त्वा तनुं नरपतेः स्वकमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्रः
संज्ञामवाप च पुरेव समुत्थिताेऽभूत् ॥ ७२ ॥

योऽपालयत्परशरीरनिवेशकाले
गात्रं स्वकीयतनुवद्दिनसप्तकं तत् ।
जाग्रद्दिवानिशमतन्द्रित एव भक्त्या
तं सच्चकार व​सनाशनभोगजातैः ॥ ७३ ॥

राजा जनानां हितकारिचेष्टो
जगाम कालं पुनरामयेन ।
पुरेव वार्तेति ससार लोके
शुशोच तीव्रं महिषीगणोऽस्य ॥ ७४ ॥

अभिषिषेचुरथात्मजमीश्वरं
प्रकृतयः पुनरेत्य विचक्षणाः ।
तमधिग​म्य जनो मुमुदे भृशं
से ववृधे मतिमान् जितशात्रयः ॥ ७५ ॥

घस्त्रेऽष्टमे 1जवानिकां विनिबध्य दातुं
प्रश्नोत्तर स भगवान्निषसाद चाग्रे ।
देव्यास्समस्तजनसंसदि निर्विशङ्कं
प्रारब्धवेदितुमनाः प्रतिवाचनीशाः ॥ ७६ ॥

संख्यां कलानां मकरध्वजस्य
स्वरूपभेदं वपुष स्थितानाम् ।
स्त्रीपुंसयोः स्थानविभागमाख्य-
द्देशं स शुक्लेतरपक्षयोश्च ॥ ७७ ॥


1अ.यवनिकां ।