सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
196
शङ्करविजये

जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं
यत्रास्ते सा शारदा वागधीशा ॥ ३० ॥

द्वारैर्युक्तं मण्डपैस्सञ्च​तुर्भि-
र्देव्या गेहं यत्र सर्व​ज्ञपीठम् ।
यत्रारोहस्सर्व1विद्वज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥ ३१ ॥

प्राच्याः प्राचीं पश्चिमाः पश्चिमान्तां
ते चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दक्षा नोऽद्धा नो तदुद्घाठको वा ॥ ३२ ॥

वार्तामुपश्रुत्य स दाक्षिणात्यो
मानं तदीयं परिपातुमिच्छन् ।
काश्मीरदेशाय ज​गाम हृष्टः
श्रीशङ्करो द्वारमपावरीतुम् ॥ ३३ ॥

द्वारं पिनद्धं किल दाक्षिणात्या
न सन्ति विद्वांस इतीह दक्षाः ।
तो किंवदन्ती विफलां विधातुं
जगाम देवीनिलयाय हृष्यन् ॥ ३४ ॥

वादिव्रातगजेन्द्रदुर्मदधठादुर्गर्वसर्वङ्कष-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाते सर्वार्थवित् ।
दूरं गच्छत वादिदुश्च2र​गजास्सन्यासदंष्ट्रायुधो
वेदान्तोपवनाश्रयस्तदपरं द्वैतं वनं भक्ष्यति ॥ ३५ ॥


1अ. वित्सज्जनानां । 2अ. दुःशठ ।