पृष्ठम्:शङ्करविजयः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
197
द्वादशस्सर्गः

संश्रावयन्नध्वनि देशिकेन्द्र
श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्घाट्य निवेष्टुकामं
ससंभ्रमं वादिजनो न्यरौत्सीत् ॥ ३६ ॥

अथाब्रवीद्वादिगणस्स देशिकं
किमर्थमेवं बहुसंभ्रमक्रिया ।
यदत्र कार्यं तदुदीर्यतां शनै-
र्न​ संभ्रमं कर्तुमलं तदीप्सितम् ॥ ३७ ॥

यःकश्चिदेतीति परीक्ष्यते चेत्
वेदाखिलं 1नोऽविदितं ममाण्वपि ।
इत्थं भवान्वक्तिं समुन्नतेच्छया
दत्वा परीक्षां व्रज देवतालंयम् ॥ ३८ ॥

षड्भाववादी कणभुङ्मतश्रित्
पप्रच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाजः परमाणुयुग्मात्
जातञ्च सूक्ष्मं द्व्य​णुकं मतं नः ॥ ३९ ॥

यस्मादणुत्वं तदपाश्रितं त-
ज्जायेत कस्माद्व​द सर्वविञ्चेत् ।
नो चेत्प्रभुत्वं तव वक्तुमेतत्
सर्वज्ञभाषा विहिता कथं ते ॥ ४० ॥

या द्वित्वसंख्या परमाणुनिष्ठा
सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य
स्वयं 2ह्यवर्धिष्ट कणादलक्षी ॥ ४१ ॥


1अ. नाविदितं । 2का. न्यवर्तिष्ट ।