वर्षाण्यतीयुर्भगवन्नमुष्य
पञ्चाष्ट जातस्य विनावबोधम् ।
नाध्यैष्ट वेदानलिखच्च नार्णान्
1अकारयं चोपनयं कथंचित् ॥ १८ ॥
क्रीडापरः क्रोशति बालवत्स2
स्तथापि न क्रीडितुमेष 3धावति ।
4बालं हठान्मुग्धामिमं निरीक्ष्य
सन्ताडयन्तोऽपि न रोषमेति ॥ १९ ॥
भुङ्क्ते कदाचिन्न च जातु भुङ्क्ते
स्वेच्छाविचारी न करोति चोक्तम् ।
तथापि रुष्टे न तु ताड्यतेऽयं
स्वकर्मणा वर्धित एव नित्यम् ॥ २० ॥
इतीरयित्वोपरते च विप्रे
पप्रच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत्प्रवृत्ति-
स्स चाब्रवीद्वालवपुर्महात्मा ॥ २१ ॥
नाहं जडः किन्तु जडः प्रवर्तते
मत्सन्निधाने न विसन्दिहे गुरो ।
षडूर्मिषड्भावबिकारवर्जितं
सुखैकतानं परमस्ति तत्पदम् ॥ २२ ॥
ममेव भूयादनुभूतिरेषा
मुमुक्षुवर्गस्य 5निरूप्य विद्वान् ।
पद्यैर्वरैर्द्वादशभिर्बभाषे
चिदात्मतत्त्वं विधुत 6प्रपञ्चः ॥ २३ ॥
1अ. अचीकरं । 2अ. वर्ग: ।
3अ. याति । 4अ. बालाश्शठा ।
5का. निरूपणीया । 6अ. प्रपञ्चम् ।