पृष्ठम्:शङ्करविजयः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
193
द्वादशस्सर्गः

न वक्ति किञ्चिन्न शृणोति किञ्चित्
ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेण मारो महसा विवस्वान्
मुखेन चन्द्रः क्षमया महीसमः ॥ १२ ॥

ग्रहग्रहात्किं जडुवद्विचेष्टते
किं वा स्वभाव दुत पूर्वकर्मणः ।
सञ्चिन्तयंस्तिष्ठति तत्पितानिशं
1समाधिमान् प्रष्टुमना वहुश्रुतान् ॥ १३ ॥

शिष्यैः प्रशिष्यैर्वहु2पुण्यभारै-
स्समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा
निनाय सूनुं निकटं स तस्य ॥ १४ ॥

न शून्यहस्तो नृपभिष्टदेवं
गुरुञ्च यायादिति शास्त्रवित्स्व​यम् ।
सोपायनः प्राप गुरुं व्यशिश्रणत्
फलं ननामास्य च पादपङ्कजे ॥ १५ ॥

अनी3नमत्तञ्च तदीयपादयो-
र्जडाकृतिं भस्मनिगूढवह्निवत् ।
स नोदतिष्ठत्पतितः पदाम्बुजे
प्रायस्स4 जाड्यं प्रकटं विधित्सति ॥ १६ ॥

उपात्तहस्तश्शनकैरवाङ्मुखं
तं देशिकेन्द्रः कृपयोद​तिष्ठिपत् ।
उत्थापिते स्वे तनये पिताब्रवी-
द्व​द प्रभो जोड्यममुष्य किंकृतम् ॥ १७ ॥


1अ. समागतान् । 2अ. पुस्त ।

3का. अनीनयत् । 4अ. स्व ।