सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
123
अष्टमस्सर्गः

पूर्वं तथा त्रिपुरवासिजनेन बाधा
लोकत्रये कतिचिदेव दवापरीताः ।
एकेषुणा त्रिभुवनं परिपालयेथा
दग्ध्वा पुरं किमु वदामि पराक्रमं ते ॥ १३५ ॥

ॐ कर्णिकास​नजुषे मुदिताय​ नित्यं
स्वात्मप्रभाय​ सकलाधिपरिच्युताय​ ।
ईशानमूर्तिवपुषे भवेत​ नमोऽस्तु
स्वच्छन्दचाररसिकाय​ नमश्शिवाय​ ॥ १३६ ॥

त्वामुच्चिरवांसुरहम​स्मि न मादृशोऽन्यो
विद्येत मूढघिषणास्त्रिषु विष्टपेषु ।
त्वत्पादपङ्कजरजः –णभूषितानां
तत्तद्विधेयविघिषूद्भवतीह शक्तिः ॥ १३७ ॥

इत्थं हरः स्तुतिपदैः परितोषितात्मा
प्रत्यक्षतामुपगत​1श्शरणागतस्य​ ।
आनायि लिङ्गमिह यत्तदमुष्य देव
कर्तु मनः स्पृहयतीश​ पुनः प्रतिष्ठाम् ॥ १३८ ॥

2अन्तःसालस्योत्तरस्यां दिशि स्वं
लिङ्गश्चैतत्स्थापय त्वं यथेष्टम् ।
दृष्त्वा भूयस्सज्जना मां नमन्तु
संपूर्णन्ते तत्फलं संलभन्तां ॥ १३९ ॥

(नो चेत्तेषां दर्शनं निष्फलं स्यात्
3इत्युक्त्वान्तर्धान​मागात्तदानीम् ।)


1अ. शरणं । 2अ. अन्तश्शालस्यो ।

3अ. इत्येवमक्तान्तरधाच्छिवस्सः (?)