प्रादात्स भीष्मकसुतः खलु कुण्डिनेश-
स्तीर्थापदेशमठतेऽन्वपरीक्षिताय ।
किं केन सङ्गतमिदं सति मा विचारी-
र्यो वैदिकीं सरणिमप्रहतां प्रयत्नात् ॥ ३५ ॥
प्रातिष्ठिपत्सुगदुर्जयनिर्जयेन
शिष्यं यमेनमशिषत्स च भट्टपादः ।
किं वर्ण्यते सुदति यो भविता वरो 1नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ॥ ३६ ॥
याऽन्वेति सन्ततमनन्तदिगन्तभाजो
यां 2राजचोरवनिता न च हर्तुमीशाः ।
संक्षीयते न तु सदा प्रतिपादने या
वध्वार्जनावनपरिव्ययगानि तानि ॥ ३७ ॥
वित्तानि चित्तमनिशं परिखेदयन्ति
चोरान्नृपात्खजनतश्च भयं धनानाम् ।
शर्मेति जातु न गुणः खलु बालिशस्य
केचिद्धनं निदधते भुवि नोपभोगम् ॥ ३८ ॥
कुर्वन्ति लोभवशगा न विदन्ति केचि-
दन्येन गोपितमुतान्यजना हरन्ति ।
तच्चेन्नदीपरिसरे जलमेव हर्तु
सर्वात्मना दुहितरो न गृहे विधेयाः ॥ ३९ ॥
ताश्चेत्पुरा परिणयाद्रज उद्गतं स्वं
पश्येयुरात्मपितरौ बत पातयन्ति ।
दुःखेषु 3घोरनिरयेष्विति धर्मशास्त्रं
मा भूदयं मम सुताकलहः कुमारीम् ॥ ४० ॥
1अ. नौ । 2 अ. गणिका ।
3अ. घोरनरकेष्विति ।
Sankara-5