अधश्छेदश्च : : ॥ छेदत्र्यंशेन १७८ १ ११०० ००० छेदेऽपवर्तिते जातं द्वयम् २ । शेषार्धेन शेषे २१०८२०४८०ऽपर्वातते जातं द्वयम् २ । पूर्वच्छेदस्य त्र्यंशे च शेषार्धेनापर्वातंते जाता अङ्कनुपाः १६९ । अतो द्विगुणान्मासगणात् स्वाङ्कनृपा १६९ शाधिकात् त्रिभिर्विभक्तात् फलं भागादि मासिगणतुल्या राशयश्च तत्र क्षेप्याः ॥ एवं सपातसूर्यो भवतीत्युपपन्नम् । यदुक्तं त्रिपूर्णबाणा ५०३ धिका इति । अयं कलियुगादौ पातस्य क्षेपस्तया सपातसूर्यमासार्धक्षेपश्चात्र योजित:१ । तथात्र मध्यमः सूर्यः सपात अगच्छति ॥ तेन स्फुटेन भवितव्यम् । स्फुटमध्ययोरन्तरं स्थूल किल भागद्वयम् २ । अत उक्त मनून का इति। अन्यथा द्वादशभिरेव भुजभागैर्मानैक्यार्ध तुल्यः शर उत्पद्यते । तथा गूढक्रियया फलमानीय सपातसूर्य इति नामनिर्देश: कृतः। तेन तयोबजकर्म सूचितम्। तदप्यत्र सपाता के कार्यम्। १-२३॥
वा० वा०-अथ पर्वानयनम् । 'कलेर्गताब्दा' इति। अत्र कल्पसौरमासतुल्ये हरे कल्पाधिमासाः गुणस्तदा पञ्चषष्टितुल्ये किमिति लब्धो गुणः ॥१॥२९॥५५॥५९ द्वयं गुणे गृहीत्वा द्विगुणा इति उक्तम् । यावदधिकं गृहीतं तच्छोध्यमिति । ‘तन्ना गाङ्कगजैः सर्वाणतमिति सुगमम् 2 ।।
मासा इति सपातसूर्यं अानीयते । तत्रैकस्मिन् मासे सपातः ॥१॥०॥४०॥१५ राशिस्थाने रूपमिति ॥ · मासतुल्या राशयः ॥ कलास्थाने ४० इदं त्रिभिः सर्वाणतं जातमंशस्थाने द्वयम् । द्विगुणास्त्रिभक्ता इति । विकलास्थाने इदम् १५ अङ्कनृपैः सर्वाणतं जातं कलास्थाने ४० अंशद्वयस्य तृतीयोंऽशोऽयम् । मासाः द्विगुणाः स्वाङ्कनृपांशयुक्तास्त्रिभिविभक्ता .. इति । राश्यादि रवेः शून्यत्वेन कल्पादिपातक्षेप एव मासगणजनितसपाते योज्यः स दशन्ते स्यात् । पूणिमान्तेऽपेक्षित इति कल्पादिपात एव पञ्चदशांशान् संयोज्य सपातसूर्याशाः १६८* ॥३३॥८ ध्रुवत्वेन कल्पिताः । अयं ध्रुवोऽत्र योजनीयस्तत्राचार्येणायं विलोम- गणितेन द्विगुणमासेषु योजित इति त्रिपूर्णबाणाधिका इत्युक्तम्। चन्द्रग्रहे मानयोग दलाङ्गुलान्येकविंशतितुल्यान् ि। सपातभुजांशानां चतुर्दशांशानां शराङ्गुलान्ये तन्मितान्येव । मानैक्यखण्डादल्पे शरे ग्राससम्भव इति मनूनका इत्युक्तम्। १-२३ ।
अथ सूर्यग्रहार्थ विशेषः--
शेयोऽकों रविसंक्रमाद्गतदिनैदशन्तनाडीनता |
१• कलियुगादौ पातस्य क्षेपः ५ । ३ ।। १३ सपातसूर्यमासार्धक्षेपः ० ।। १५ । २० अनयोर्योगः ५ । १८ ।। ३३ अस्माद्विलोमविधिना द्विगुणमासयोगाहस्त्रिपूर्णबाणतुल्यः क्षेपः कृतः । ९. सुरामिति कखग पु० । ३. २६८ ग पु० ॥