ኛቕረ सिद्धान्तशिरोमणौ ग्रहगणिते । अक्षांशैः खुलु संस्कृतो म्र्सलवेन्र्ास्याथ ते संस्कृताः पाताढ्याकभुजांशका यदि नगो ७नाः स्युस्तदार्कग्रहः ॥ ४ ॥ रूपं १ वियत्०पूर्णकृतान् ४०सपादान् १५ क्षिप्त्वासपाते प्रतिमासमकें। तत्सम्भवं प्रागवलोक्य धीमान् ग्रहान् ग्रहार्थं विदधीत तत्र ।। ५ ।। वा० भा० - अत्रोक्तवद्यः सपातसूर्यो ज्ञातः ॥ असौ पञ्चदशभिः १५ भागैरधिक: कार्यः ॥ यदि सूर्यग्रहणसम्भवो ज्ञातव्यः । ततस्तस्य भुजांशा यदि सपातः सूर्य उत्तरगोले तदोत्तरा यदि दक्षिणे तदा दक्षिणाः । तद्दिष्कृचिह्निता अनष्टाः स्थाप्याः । अथ रविसंक्रमात् सूर्यो ज्ञेयः । रविसंक्रमाद्यावन्तो दिवसा गतास्तावन्तो भागाः कल्प्याः ॥ गतसंक्रान्तिर् ल्या राशयश्च । ततोऽमावास्यान्तकालस्य स्थूलस्य नतघटिकाः कार्याः । तासां चतुभि – ४ भीगे हृते यल्लभ्यते तद्राश्यादिक फल ग्राह्मम् । तेन राश्यादिना फलेन पूर्वाह रविरून: कार्योऽपराह्मे युतस्तस्य सायनांशस्य क्रान्तिः साध्या ।। क्रान्त्यक्षांशानां च तुल्यदिशां योगोऽन्यदिशामन्तरमेवं ते नताँशा भवन्ति ॥ तेषां रसांशेन ६ तेऽनष्टस्थापिता भागाः संस्कृताः कार्याः । समदिशां योगो भिन्नदिशामन्तरमित्यर्थः । एवं ते भागा यदि ससभ्य७ ऊना भवन्ति तदा सूर्यग्रहणसंभवो वेदितव्यः । । अथ सपातसूर्यस्य प्रतिमासक्षेपः । यदि तस्मिन् मासे नार्कग्रहस्तदा सपातसूर्ये राशिस्थाने रूपम्। १ । भागस्थाने पूर्णम् ० । सपादाश्चत्वारिशत् कलाश्च ४० । १५ । प्रतिमासं प्रक्षिप्य संभवो ज्ञेयः । ज्ञाते संभवे स्फुटार्थं तत्र ग्रहाः कार्याः । अत्रोपपत्ति:---ये सपातसूर्यस्य भुजांशास्ते शरार्थं पृथक् स्थापिताः । अथञ्च सूर्यग्रहे शरो नत्या संस्कृतः कार्यः .॥ तदर्थं दशन्ते या नतघटिकास्ता लम्बनेनाधिकाः कार्याः । नतघटीनां चतुर्थाशः स्थूलं लम्बनम् । पञ्चभिः पञ्चभिर्घटिकाभिरेकैकः किल राशिः ॥ याः किल नतघटिकास्ताश्चतुर्थाशेन लम्बनेनाधिकाः ॥ ततः पञ्चभिर्भाज्याः । एवं कृते पूर्वघटिकाश्चतुभिभंक्ता भवन्ति । अतस्तेन राश्यादिनोनो रविः पूर्वाहें वित्रिभासन्नो भवति । पश्चिमकपाले तु युतः सन् । यतस्तत्राकदिग्रतो वित्रिभं वर्तते ॥ , एवं वित्रिभलग्नस्य क्रान्तिरक्षांशैः संस्कृता नतांशा जाताः ॥ ते यदा नतांशाः पञ्चचत्वारिंशद् ४५ भवन्ति तदा यदि त्रिज्यया परमावनति४८ ॥ ४६ लभ्यते तदा पञ्चचत्वारिंशदंशानां ज्यया २४३१ किमिति । फलं नतिः साधर्गश्चतुस्त्रिशत् कलाः ३४ ॥ ३० । एतावांश्छरो यैर्भुजभागैरुत्पद्यते ते ज्ञेयाः ॥ यदि ससत्या कलानां पञ्चदश १५ भागा लभ्यन्ते तदाभिर्नतिकलाभिः ३४ ॥ ३० किमिति लब्धा अंशाः सस चतुविंशतिःकलाश्च । एते तु नतलवानां षडंशेनोत्पद्यन्ते । अत उत्त रसलवेनास्याथ ते संस्कृता इत्युपपन्नम् । - - प्रतिमासक्षेपे तु वासना सुगमा । २३-५ । । - इति श्रीभास्करीये सिद्धान्तशिरोमणिवासनाभाष्ये पर्वसंभवाधिकारः । । वा० वा०-सूर्यग्रहे साद्धदशतुल्यं मानैक्यखण्डम् । ससांशानामङ्गुलात्मकः शरस्तन्मानैक्यखण्डतुल्यः । अत्र नतिसंस्कृतशरोऽपेक्षित इति ‘गृहार्द्धयुक्तस्ये सपात
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/273
दिखावट