उपविष्टस्योर्ध्वस्थस्य च दृष्टद्युच्छ्रायौ तावेव कोटी भवतः । प्रतिबिम्बितं वंशाग्रदृष्टजनस्य स्वस्यान्तरं भुजद्वयम् । ‘निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्यविश्लेष' इति सूत्रेणात्मवंशान्तरं वंशौच्यज्ञानं च सुगमम् ॥ ४८ ।।
किंवा यष्टयेत्यस्योदाहरणम्-
षडङ्करमरस्तुल्यान्यङ्गुलान्यथवा क्रमात् । |
वा० भा०-ऊध्वंस्थस्य जलान्तरम् s६ । उपविष्टस्य जलान्तरम् ३३ । दृष्टयुच्छ्यौ ७२ ।। २४ । लब्धं तदेव भूमानं हस्ताः ८८ । वंशौच्च्यं हस्ताः ६३ । इति धीयन्त्रम् ।
वा० वा०-अत्रोदाहरणमाह-षडङ्करिति ॥ ४९ ॥
अथ स्वयंवहमाह-
लघुदारुजसमचक्रेसमसुषिराराः समान्तरा नेम्याम्। |
वा० भा०-ग्रन्थिकीलरहिते लघुदारुमये भ्रमसिद्ध चक्र आराः । किविशिष्टाः । .. समप्रमाणाः समसुषिराः समतौल्याः समान्तरा । नेम्यां योज्याः । ताश्च नद्यावर्तवदेकत एव सर्वाः किचिद्वका योज्याः । ततस्तासामाराणा सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेव पूर्णं भवति । ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाणवद्द्वयाधारस्थं स्वयं भ्रमति । अत्र युक्ति:। यन्त्रैकभागे रसो ह्यारामूल प्रविशति। अन्यभागे त्वाराग्र धावति । तेनाकृष्ट तत् भ्रमतीति ॥ ५०-५० ॥
अथान्यदा-
उत्कीर्य नेमिमथवा परितो मदनेन संलग्नम् ॥ ५१ ॥ |
वा० भा०-यन्त्रनेमि भ्रमयन्त्रेण समन्तादुत्कीर्य द्वयङ्गुलमात्रं सुषिरस्य वेधो विस्तारश्च यथा भवति ततस्तस्य सुषिरस्योपरि तालपत्रादिकं मदनादिना संलग्नं कार्यम् । तदपि चक्रतं द्वघाधाराक्षस्थितं कृत्वोपरि नेम्यां तालदलं विद्ध्वा सुषिरे रसस्तावत् क्षेप्यो यावत् सुषिरस्याधोभागो रसेन मुद्रितः । पुनरेकपाश्र्वे जलं प्रक्षिपेत् । तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतः सारयितुं न शक्यते । अतो मुद्रितच्छिद्रं तच्चक्रं जलेनाकृष्टं स्वयं भ्रम तीति||