सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
त्रिप्रश्नाधिकारः

 सर्वत्रेदमूह्य तेन न क्वापि दोषः । अत एव पाटीगणितबीजगणितयोरस्य ग्रहगणिते

महानुपयोग इति ‘खगुणश्चिन्त्यश्च' शेषविधावित्यत्राभिहितम् । वासनाभाष्येऽपि

‘चक्रांशकाडू क्षितिजाख्यवृत्ते'९ इत्यत्र वक्ष्यते ।


 एवं यदा क्रान्तिज्या पूर्णं भवति तदा ‘खगुणश्चिन्त्यश्च शेषविधावित्यादि'

गणितोक्त्या शून्यपरिभाषया अग्रासमशङ्क्वादीनि साधितान्यन्येषामनुपातार्थं

क्वचिन्न दुष्यतीति । अष्राप्तेऽपि सुमाख्यमुण्ड़लमिते यः शुङ्कुरुत्पद्यते, नूनं सोऽपि

परानुपातविधये नैवं क्वचिद् दुष्यतीत्यभानेऽपि समशङ्क्वादिर्परानुपातार्थं साधनी

यमित्युक्तम् ।

 अत्र तु समशङ्क्वादीनामसत्वेऽपि साधनं परानुपातार्थं शून्यपरिभाषोत्त

रीत्येति सर्व शोभनम् ।


 यत्तूक्तं ध्वंसस्य कारणत्वं न क्वापि दृष्टं तदभ्युपगमेऽपूर्वकल्पनमन्तरेणापि

यागध्वंसादेव स्वर्गः स्यादिति । तत्रोच्यते । अस्ति महद्वैषम्यम्, अाशुतरविनाशीयागः

कालान्तरभाविफलम् । अत्र क्रान्तिज्याभावकाले दिनार्द्धशङ्क्वादि साध्यत इति न

कोऽपिदोषः । क्रान्तिज्याभावेऽपि कालविशेषोपलक्षकः । ‘खगुणश्चिन्त्यः' इत्यनेन

प्रकारेण शून्यक्रान्तिज्यातः साधितं दिनार्द्धशङ्क्वादि प्रत्यक्षतः संवदत्येवातः

प्रत्यक्षदृष्ट किमनुपपन्न नाम ।


 ‘द्विविधगणितमुक्तंॐ व्यक्तमव्यक्तसंज्ञं तदवगमननिष्ठ':

 इत्यनेनापठितपाटीबीजगणितस्य ग्रहगणितपठनानाधिकारादेव ।

‘त्रिभज्यकोन्मण्डलशङ्कुघाताच्चरज्ययाप्तं* खलु यष्टिसंज्ञम्' इति ।

 गणितं बालो न जानाति । न होतावता गणितमिदं क्रान्तिज्याभावे दुष्टम्।

न ह्ययं स्थाणोरपराधो यदेनमन्धो न पश्यति । एतेन तत्सर्वं विषुवद्दिने व्यभिचरत्य

स्मान्मया नोदितमिति ज्ञानाधिराजोत्तमुपेक्षणीयम् ।


 ज्ञानाधिराजस्तु गोलानभिज्ञतया शिरोमणिवासना भाष्यानभिज्ञतया च

यत्किञ्चिदेव वदति ।

 स्पष्टगतिवासनाभाष्येऽभिहितं भोग्यखण्डस्पष्टीकरणफल प्रदश्र्यते। भोग्यखण्ड

स्पष्टीकरण विना

 ’कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते मध्यैव गतिः स्पष्टा न भवतीति’ ।

 'सा हताशुफलकार्मुकागमे ज्यान्तरेण विहृताद्यजीवया ।

कणहृत्त्रिभगुणा हतेति'।

१. ली० शून्यपरिकर्मणि १ सूत्रम् ।  २. शि० सि० ग्र० ग० ५४ श्लो० । ।

३. गोलाध्याये गोलप्रशंसायां ७ श्लो० ।  ४. सि० शि० ग्र० ग त्रि० ३३ श्लो० ।

५ सि० सु० स्प० २८ श्लो० ।