अस्य चिह्नस्य द्युरात्रवृत्तवद्बद्धवृत्तस्य सम्पातेऽभीप्सितं पुरं कल्प्यम् ॥ अस्मात्पुरचिह्नादपसारयोजनकोटिज्यातुल्य एव लम्बः । स एव शङ्कः । द्युरात्रवृत्तबद्धवृत्तक्षितिजसम्पातावधिपूर्वस्वस्तिकात् क्षितिजेऽग्रा । एवमुन्मण्डले क्रान्त्यंशरूपाः पलांशाः सममण्डलेष्टपुरचिह्नयोर्याम्योत्तरमन्तरं भुजः शङ्कतलाग्रा संस्कारतुल्यः । इयमग्रा क्षितिजे यावती तावत्येव दिग्ज्या । क्षितिजे शङ्कतलाभावात् । खस्वस्तिकात् क्षितिजपर्यन्तमपसारयोजनलवज्या त्रिज्यातुल्या । "
यदि त्रिज्यातुल्ययापसारयोजनलवज्यया दिग्ज्यातुल्यो भुजस्तदेष्टया किमित्यनुपातेन भुजो भवति । द्वादशकोटौ पलभाभुजस्तदेष्टापसारलवकोटिज्यया किमिति शडूतल भवति। भुजशडूतलसंस्कारादग्रा कृता। पलकर्ण द्वादशकोटिस्तदाग्रया किमिति क्रान्तिज्या रूपा पलज्या तद्धनुरक्षांशाः ॥
एवं दिग्ज्याप्रष्टव्यपुराक्षांशज्ञाने चोज्जयिन्यक्षांशज्ञानेऽपसारयोजनलवज्ञानम्। तद्यथा-प्रष्टव्यपुराक्षांशज्योज्जयिनीस्थपलकर्णगुणा द्वादशभक्ताग्रा कल्प्या । ततो
*व्यासार्द्धवर्गः पलभाकृतिघ्नैर्नो दिग्ज्याकृतिद्वदशवर्गनिघ्नी ।
तत्संयुतिः स्यात् प्रथमस्ततोन्यस्त्रिज्याक्षभाग्राभिहतिस्ततस्तौ ।
दिग्ज्याग्रयोर्वर्गवियोगभत्तौ यदन्यवर्गेण युताद्यराशेः ॥
*पदं तदन्योनयुतं श्रुतिरिति ।
यः छायाकर्णो भवति तस्मात्, छायाकर्णे छायाभुजस्तदा त्रिज्याकर्णे को भुज इति दृग्ज्या भवति । दृग्ज्यैवापसारलवज्येति स्पष्टम् । अत्र पलभाप्युज्जयिनीस्थैव । उज्जयिनीमध्यरेखोपलक्षिका । मध्यरेखातः पूर्वपश्चिमस्थितनगरात् तादृशान्यनगरापसारयोजनलवज्ञानं तादृशगोलबन्धादिना प्रोक्तप्रकारादन्यप्रकारेण सुधीभिरूह्यम् ।
यथा-'गोदावरीतीरविराजमानादात्मतीर्थाद्' वाराणसी कियद्धियाँजनरीशानदिग्विभागाश्रितेति प्रश्ने यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितयोजनान्यात्मतीर्थस्थानि काशीस्थानि च ज्ञातव्यानि । आत्मतीर्थस्थो 'लम्बज्यागुणितो भवेत् कुपरिधिः स्पष्टस्त्रिभज्या हृत' इति स्पष्टभूपरिधिज्ञेयः । एवं वाराणसीस्थोऽपि ज्ञेयः । तत अात्मतीर्थस्य यद्रेखानगरं तदक्षांशवशेन गोलबन्धः कायः तद्रेखानगरं खस्वस्तिके कल्प्यम् । आत्मतीर्थस्थाक्षांशतुल्यक्रान्त्या तुल्यान्तरं सर्वत ईदृशं नाडीमण्डलादुत्तरतो द्युरात्रवृत्तवद्वृत्तं बन्धनीयम् । तदात्मतीर्थीयं स्पष्टभूवेष्टनवृत्तं भवति । स्पष्टभूपरिधियोजनाङ्क च तत्कार्यम्। यान्यात्मतीर्थे देशान्तरयोजनानि पूर्वाणि पराणि वा तैः खस्वस्तिकात्तस्मिन् वृत्ते चिह्नं कार्यां तदात्मतीर्थस्थानं भवति । एवं वाराणसीस्थाक्षांशतुल्यक्रान्त्या बद्धे नाडीमण्डलादुतरतो वृत्ते तद्वृत्तयाम्योत्ररवृत्तसम्पाताद् वाराणसीस्थदेशान्तरयोजनाग्रे पूर्वविभागे चिह्न कार्य तदेव विश्वेशितुः सुरनदीतीरविराजमान वाराणसीनगरम् ।
१. सि० शि० ग्र० त्रि० ४९ श्लो० i
२. फलमिति क ख ग० पु० ॥