पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/543

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०१
प्रश्नध्याय:

  तस्मिन् गोले आत्मतीर्थचिह्नोपरि ध्रुवद्वयलग्नं याम्योत्तरवृत्तं कार्यम् । एवमात्मतीर्थचिह्मात् सममण्डलविदिग्वलयादिविन्यासः सुधिया कार्य: । आत्मतीर्थीय क्षितिजमपि निवेशनीयम् ॥ आत्मतीर्थचिह्नात्तदधःस्थितचिह्नप्रोतं दिङ्मण्डलं च निवेशनीयम् । तत् ‘कृतदिङ्मण्डलं गोलस्थकाशीस्थचिह्नोपरि नेयम् । तस्मिन्नीते सति चक्रांशकाङ्कतदात्मतीर्थक्षितिजे प्राक्स्वस्तिकदृङ्मण्डलयोरन्तरांशा दिगंशका ज्ञेयाः ।

  भूपरिधियोजनाङ्कटुङ्मण्डले आत्मतीर्थवाराणसीचिह्नयोरन्तरे योजनानि बालैरपि बुध्यन्ते। पूर्वप्रकारेणापि ज्ञायन्ते।

  एवं नगरद्वयाक्षांशज्ञानेऽपसारयोजनज्ञाने च दिग्ज्या ज्ञानं विलोमगणितेन । पूर्ववत्प्रष्टव्यपुराक्षांशज्यावधिस्थपुराक्षकणंगुणा द्वादशभक्ताग्रा कल्या । द्वादशकोटी पलभा भुजस्तदापसारयोजनलवकोटिज्यया किर्मित शङ्कतलम् । पूर्वानीताग्रासंस्कृतं भुजः स्यात् । यद्यपसारयोजनलवज्यातुल्यया दृग्ज्ययायं `भुजस्तदा त्रिज्यया किमिति दिग्ज्या भवति । तद्धनुदिगंशाः ॥ २५-२७|

       अथान्यदुदाहरणम् --

 क्षितिपरिधिषडशे प्राचि धारानगय
स्त्रिनयनदिशि यद्वा पतने चाग्निभागे ।
कथय गणक तत्र क्षिप्रमक्षांशकान् मे
क्षितिपरिधितृतीयेऽथांशके तत्र तत्र ।। २८ ।।

   वा० भा०-धारायामक्षप्रभा ५ । पलकर्णः १३ । अत्रापसारयोजनलवाः षष्टिः ६० ।। तद्दोज्र्या २९७७ ॥ कोटिज्या १७१९ ॥ दिग्ज्यायाः प्राच्यामभावः । तस्माद्भुजज्या पूर्णमेव । अतः कोटिज्या पलभा ५ गुणा । अक्षकर्णा १३ सा । फलस्य चापमक्षांशाः । एवं प्राच्यां गतस्याक्षांशाः ११ ॥ ५ ॥ ० । ईशानदिशं गतस्य दिग्ज्या २४.३१ । दोज्य दिग्ज्यागुणा त्रिज्याभक्ता कार्या । कोटिज्या तु पलभा ५ गुणा द्वादशभक्ता कार्या । तयोयोंगो द्वादशगुणः पलकर्णी १३ हृतः फलस्य चापमक्षांशाः ४९ ।। १८ ॥ २४ । ईशान्यां गतस्य । एवमाग्नेय्यां च २१ ।। ५४ ॥ ३४ ।। अथ त्र्यंशेऽपसारे लवाः १२० । एषां दोज्र्याकोटिज्ये एते एव २९७७ ।। १७१९ । यथोक्तकरणेन जाताः प्राच्यां पलांशाः ११ ॥ ५ ॥ ० । ऐशान्याम् २१ |५४ ॥ ३४ ॥ अग्नेय्याम् ४९ | १८ | २४ |

  अत्रोपपत्तिः -गोले खस्वस्तिकादिच्छादिक्चिह्रोपरि दृङ्मण्डलं निवेश्यम् । तत्र खस्वस्तिको स्वस्थानं कल्प्यम् । ततोऽपसारलवाग्रे दृङ्मण्डले पुरचिह्न कार्यम् । ध्रुवात् पुरचिह्नोपरि नीयमान वृताकारं सूत्र यत्र विषुवन्मण्डले लगति तत्पुरचिह्नयोरन्तरं तस्मिन्पुरे पलांशाः । अथ तज्ज्ञानार्थमुपायः । अपसारयोजनलवानां दोःकोटिज्ये कृते दिग्लवानां च दिग्ज्या ॥ ततोऽनुपातः । यदि त्रिज्यामितया दोज्र्यया दिग्ज्याभुजो लभ्यते तदापसारलवज्यया किमिति । फलं पुरसममण्डलयोरन्तरं याम्योत्तरं ज्यारूपम् ॥ स भुजः । पुरविषुवद्वृत्तयोर्यावदन्तरं तावतैवान्तरेण सर्वत्र विषुवद्वृत्तादुत्तरतोऽन्यत् स्वाहोरात्रवृत्तं निवेशनीयम् । तस्य क्षितिजेन