सूर्यसिद्धान्तेऽभिहितम् । जलस्य विरलावयवत्वेन भूभागोपष्ट्रब्धा जलभागाश्चन्द्रमण्डलारम्भकाः । चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्रबिम्बे यद्दीपवद् भास्वररूपाधिकरणत्वं प्रतीयते तदौपाधिक प्रतिफलितार्ककिरणानामेव तत्स्वाभाविकम्। जपाकुसुमसन्निधानेन स्फटिकलौहित्यवत् । चन्द्र भास्वररूपं स्वाभाविकमभविष्यत्तदा दर्शऽपि दृश्येत । न च जलभागोपष्टब्धास्तेजोभागाश्चन्द्रबिम्बारम्भका इति वाच्यम् । विरुद्धयोर्जलतेजसोरुपष्टभ्योपष्टम्भकभावस्य वन्तुमशक्यत्वात् ।
तयोर्भागवैषम्येऽधिकभागैरल्पविरुद्धभागानां नाशापते: । तुल्यभागाभ्युपगमे चन्द्रोऽनुष्णाशीतस्पर्श एव स्यात् । अत एवाचार्योऽपि श्वृंगोन्नतिवासनायां वक्ष्यते –
`तरणिकिरणसङ्गादेष पीयूषपिण्डो |
मतान्तरे दिनकरदिश्येव प्रथमकलिकोदयो न स्यादिति दूषण। तरणिकिरणसङ्गाद्दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति जलगोलक इति वदता स्पष्ट समर्थितम्। चन्द्रे सितोपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारको एतन्निमित्तत्वे सति तन्निमित्तत्वाद् यथा दण्डजन्यो घट इत्यनुमानं मनसि संधाय तीक्ष्णविषाणरूपत्वकारण वक्ष्यते ।
उपचितिमुपयातिशौक्लमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम् । |
चन्द्रस्य तीक्ष्णविषाणरूपदर्शनं जलगोलकत्वं बोधयति । सोमसिद्धान्तेऽपि जलमयत्वमेव स्वस्य बोधितम् । पाञ्चभौतिकत्वेऽपि जलभागाश्चत्वारोऽन्यभूतचतुष्टयस्य । चत्वार इति न किञ्चद्विरूद्धम् ।
ननु यन्मते चन्द्रवद् भौमादीनां नक्षत्राणां जलगोलकत्वं स्वीकृतं तन्मते कथ तेषा श्रृङ्गाणि नोत्पद्यन्ते । तत्राह लल्ल:—
ऊध्वंगस्य नरदृष्टिगोचरं खेचरक्षनिवहस्य यद्दलम् । |
यथा रत्नघटमध्यस्थितेन दीपेन भाभिर्घटं निभिद्य सम्पूर्णोऽपि घटो बाह्यभागे सोज्ज्वलः क्रियते तथा बिम्बव्याससौक्ष्म्यान्निकटस्थितत्वाच्च बुधशुक्रबिम्बे निभिद्य निर्गतै: सूर्यकिरणस्तद्विम्बं सम्पूर्ण सोज्ज्वल क्रियते । आचायेंण तु जलमयजलजस्या
१. सि० शि० गो० अg० १ २लो० ।
२. शि० वृ० गो० म० वा० ४१-४२ श्लो० ।