अत्र प्रसन:-
दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा |
उदाहरणम्-
दृष्टा चेत् त्र्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः । |
वा० भा०-ऊध्ववेधे कोटिः ३ ॥ भुजः ४ । उपविष्टवेधे कोटिः ८ ॥ भुजः ११ ॥ दृष्टद्युच्छुष्यौ क्रमेण ७२ ।। २४ । लब्धमात्मवंशान्तरं हस्ताः ८८ ॥ वंशौच्च्यं हस्ताः ६३ ।। अत्रोध्ववेधेऽन्योपविष्टवेधे चान्या यष्टिरिति ।
अत्रोपपतिः-अत्र भित्तेः सुसमे पाश्र्वे तिर्यग्रेखा दोघां कार्या । सा किल जलसमा भूः ।। तत्रैकस्मिन्नेकान्तप्रदेश ऊध्र्वरेखा कार्या । स किल वंशः । बंशमूलादधोगामिनी वंशप्रमाणेवान्या रेखा कार्या । तत् किल वंशप्रतिबिम्बम् । अथ भूरेखाया उपर्यन्यप्रान्ते दृगुच्छुितान्या रेखा कार्या । दृगुच्छुायात् प्रतिबिम्बवंशाग्रगामिनी कर्णरेखा कार्या । सा कर्णरेखा भूरेखायां यत्र लग्ना तत्रस्थे जले वंशाग्र द्रष्टा पश्यति । जलादुभयतो द्वे व्यस्रभवतः । तत्र जलवंशमूलयोरन्तरं बाहुः । प्रतिबिम्बवंशः कोटिः । अधः कर्णखण्डं कर्णः । अन्यदात्मजलान्तरं बाहुः । दृष्टद्युच्छ्रायः कोटिः । ऊर्ध्वकर्णखण्डं कर्णः ॥ रग्ते त्र्यस्रे परस्परानुमते । यष्टिवेघेन ये भुजकोटी ते अप्प्येतदनुसारे । अतः उत्त एवं तोयेऽपीति । किंत्वत्र यदौच्यमाच्छति तद्दृगौच्च्येन हीनं कार्यम् ॥ प्रतिबिम्बितस्याधोमुखत्वाद्दृगौच्च्येन सहागच्छति ॥ अतस्तदूनं कृतमिति सर्वमुपपन्नम् ॥ ४८-४९ ।।
वा० वा०-जलान्तरे वेधमाह-एवं तोयेऽप्यौचयमिति। अत्र भूस्थो द्रष्टा जलप्रतिबिम्बितं वंशाग्रं पश्यतीति दृष्टद्युच्छ्राययुतः सम्पूर्णवंशः कोटिरात्मवंशान्तरं भुजः वंशाग्रगामिदृक्सूत्रं कर्ण इति क्षेत्रम् । ‘निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्यविश्लेषः । भूमिर्वशौच्यमतः पृथक् पृथक् पूर्ववज्ज्ञेयमिति ।।' सूत्रातिदेशस्तोयेऽप्युचित एव । अत्रानुपातेन या कोटिरागता सा तु दृष्टद्युच्छायहीना कार्या । वंशमात्रौच्यज्ञानस्यापेक्षितत्वात् । अत आह-किन्तु दृगौच्योनितं भवतीति । प्रतिबिम्बस्याधोमुखत्वात्तेन सहायातमतस्तद्धीनं कार्यमिति भाष्यञ्च स्पष्टम् ।
यष्टि विनापि प्रतिबिम्बितवंशौच्यं भूज्ञानं च संभवतीति कियत्येत्याह-कि वा यष्ट्येति । अत्र क्षेत्रं दर्शयति-कोटीदृष्टयुच्छायाविति ।