पञ्चाङ्गुला गणक यत्र पलप्रभा स्यात् तत्रष्टभा नवमिता दशनाडिकासु । दृष्टा यदा वद तदा तरर्णि तवास्ति यद्यत्र कौशलमल गणिते सगोले ।।३८।।
दिनकरे करिवैरिदलस्थिते नरसमा नरभापरदिङ्मुखी।
भवति यत्र पटो पुटभेदने कथय तान्त्रिक तत्र पलप्रभाम् ।। ३९ ।।
मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे
काले पश्वघटीमिते दिनगते' यद्वा नते तावति ।
१. अत्र बापूदेवः--
द्विविधापममागानामाचार्योत्तप्रकारतः ।नात्र सिद्धिरतो ब्रूते नवं संशोधको विधिम् ॥
इह प्रसाध्योन्नतकालखण्डज्यकामथैता गुणयेद् द्विभूभि: ।
ततोऽक्षकणेंन हृतातू फलस्य चापं द्विकेनाहितमाद्यसंज्ञम् ॥
त्रिराशिजीवोन्नतकालमौव्यों समाहतेद्वादशभिहतायाः ।
आद्यस्य मौव्या पलकर्णनिघून्या लब्धस्य चापं परसंज्ञक स्यात् ॥
अर्कत्रिजीवाहतिराद्यकोटिज्यया विनिघ्नी विहृताद्यमौव्र्या ।
ततो भयासस्य भवेद्धनुर्यद्योगान्तरे तत्परयोविदध्यात् ।
आद्यस्य खाङ्कलवतोऽभ्यधिकाल्पकत्वे योगोऽन्तरं क्रमत उत्तरदिग्लवाः स्युः ।
शुद्धे परेऽत्र धनुषोऽनुदगाशकास्ते तेभ्यस्त्वपक्रमलवावगमोऽस्ति शीघ्रम् ॥
खाङ्केभ्य आद्यस्य किलाल्पकत्वे पूर्वोक्तयोग गगनेभभूभ्यः ।
विशोधयेच्छेषमितान् दिगंशान् यमाशकान् गाणितिकोऽवगच्छेत् ॥
तेभ्यः पुनः क्रान्तिलवाः प्रसाध्यास्तत् क्रान्तिमानं द्विविधं क्वचित् सत् ।
क्वचिद् भवेदेकविधं च साधु क्वचिच्च मानद्वयमप्यसत् स्यात् ।
पश्चाङ्गुलेत्याद्युदाहरणेऽनेन विधिना सिद्ध अाद्योंऽशादिः ५४ ।। ५८ ।। २२ । परः ७७ ।।
२८ ॥ ४९ आभ्यां जाता उत्तरा दिगंशा: ८ । १९ । २६ खाड्रम्य आद्यस्येत्यादिना
जाता याम्याः ३३ ॥ २१ ।। ४८ तत इष्टच्छायाहतेत्यादिना सिद्धा क्रान्तिद्विविधाप्युत्तरैव
२२ ।। ४९ ।। २५ वा ० ।। १० ॥ ४२ । इदं मानद्वयमपि साधु । प्रत्येकं मानस्य परम
क्रान्तितोऽल्पत्वात् । अत्रान्यदुदाहरणम्--
पञ्चाशोनाष्टनाडीषु यदा विश्वाङ्गलेष्टभा । वेदाङ्गुलाक्षभे देशे स्यात् तदार्कापमं वद ।
अत्राद्योंऽशादिः ४४ ॥ १६ ॥ २ परः ८२ । १२ ।। २७ दिगंशाः सौम्याः १० ।। ५६ ॥
१७ । खाङ्केभ्य आद्यस्येत्यादिना सिद्धा दिगंशा दक्षिणाः २६ ।। ३१ ।। २३ तत इष्ट
च्छायाहतेत्यादिना सिद्धा क्रान्तिरुत्तरांशाद्या २० ॥ १७ ॥ २२ दक्षिणा वा ५ ॥ ३३ ॥ २८ एते क्रान्ती प्रत्येकं परमक्रान्तितोऽल्पत्वात् सत्यौ ।
२. अत्र बाप्पूदेवोक्तो विधिः--
अक्षप्रभाकृतिहतोन्नतकालकोटिज्याढयोऽर्कवर्गगुणितत्रिगुणो विभक्तः ।
अक्षप्रभाहतसमुन्नातकालमौव्र्या लब्धाक्षकर्णकृतियोगपदं हरः स्यात ॥