रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विध्रुते । |
वा० भा०-यथोतविधिना खगोलान्तर्भगोल बद्ध्वा तत्र क्रान्तिवृत्ते मेषादेरारभ्य रविभुत्तराशिभागाद्य' दत्वा'तदग्रे यच्चिह्मदें तदपवृत्तगरविचिहुमुच्यते । भगोलं चालयित्वा रविचिह्न क्षितिजे धार्यम्। तथा धूते सति क्षितिज प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया बिन्दुः कार्यः । ततः क्षितिजवृत्तं जल् समं यथा भवति तथा गोलयत्रं स्थिरं कृत्वा भगोलस्तथा। चाल्यो यथा रविचिह्नस्य छाया भूगर्भ पतति। तथा कृते सति विषुवद्वृते क्षितिजबिन्द्वोर्मध्ये यावत्यो घटिकास्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः । अपवृत्ते मेषादेर॥ारभ्य प्राविक्षतिजपर्यन्तं यद्राशि भागाद्य' तल्लग्न ज्ञेयम्। इति गोलयन्त्रम्। ३-४ ।
वा० वा०-- अथ दिनगतज्ञानार्थमाह-अपवृतगरविचिह्नमिति। रविचिह्नस्य छायेति । नतांशज्ञाने दिनगतलग्नादिज्ञानं सुलभमिति कुमध्ये रविचिह्नस्य छाया यथा पतति तथा भगोलो धार्य इत्युक्तम् । अस्मादुक्तखगोलभगोलरचनायान्तु नताशास्तुर्यादिना ज्ञात्वा क्रान्तिवृत्तस्थरविचिहूं दृङ्मण्डगतेष्टनतांशाग्रे नयेत् । तदापवृत्ते कुज( लग्ने) लग्नज्ञानम्। अपवृतगरविचिह्नक्षितिजे कृत्वा कुजेन संसत नाडीवृते बिन्दुं कृत्वेष्टनतांशाग्रस्थे रविचिह्नोऽस्य बिन्दोः क्षितिजस्य नाडीवृत्ते यदन्तरं तद्दिनगतमिति तुल्यमेव । रात्रावप्यभीष्टनक्षत्रस्य नतांशाश्चक्रादिना ज्ञेयाः । पूर्वकृतनक्षत्रद्युरात्रवृत्तस्य दृङ्मण्डलगतेष्टनक्षत्रनतांशाग्रस्य संपाते तदा तन्नक्षत्रमिति प्रसिद्धेर्भगोलगततन्नक्षत्रचिह्न सम्पाते नयेत्तस्मिन्त्रीते कुजलग्नक्रान्तिवृत्तावयवो लग्नमित्यादिना भावचतुष्टयज्ञानं सुखेन भवति ! सषड्सूर्ये क्षितिजस्थे यो नाडीमण्डलावयवः क्षितिजस्थो यश्च नक्षत्रद्युरात्रवृत्तदृङ्मण्डलगतेष्टतन्नतांशाग्रसम्पातस्थे भगोलस्थनक्षत्रचिह्न नाडीमण्डलावयवस्तयोरन्तरं नाडीमण्डले रात्रिगतं स्यात् ।
अथ भगोले नक्षत्रचिह्नं कथमङ्कनीयमिति प्रोच्यते । तत्र पित्र्यक्षपुष्पान्तिमवारुणानि क्रान्तिवृत्ते स्वस्वध्रुवकाशै: शराभावादङ्क्यानि । अन्यस्येष्टनक्षत्रस्य भवलये कुत्रावस्थितिरिति ज्ञानार्थं तन्नक्षत्रस्य याम्योत्तरवृत्तस्थस्य रात्रौ नतांशादुन्नतांशाश्च ज्ञेयाः । यदेष्टनक्षत्रं याम्योत्तरसूत्रगतं लक्षितं तस्मिन्नेव काले क्रान्तिवृत्तस्थानां पूर्वोक्तनक्षत्राणामन्यतमस्येष्टनतांशा वेध्याः । तन्नतांशाग्रे क्रान्तिवृत्तस्थनक्षत्रचिह्न न्यस्ते यः क्रान्तिमण्डलावयवो याम्योत्तरसूत्रगतः स एवेष्टनक्षत्रस्य दृक्कर्मसंस्कृतो ध्रुवो वेद्यः । तस्मिन्नेव काले इष्टनक्षत्रस्य मध्याह्ननतांशाग्रे चिह्नं भवलये कार्यम् ॥ तदेव तन्नक्षत्रचिह्नं स्यात् । एवं सर्वाण्यपि नक्षत्राणि भगोलेऽङ्क्यानि । यद्वा नक्षत्रध्रुवं क्रान्तिवृत्ते दत्त्वा नक्षत्रोत्थापनवलनज्ञातकदम्बसूत्रे पठितशरं दत्त्वा तदग्रे