सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/312

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६७
सूर्यग्रहणाधिकारः

प्रथमं कक्षावलयं कृत्वा परमलम्बनज्योच्चरेखायां नीचोन्मुखी देया । यतोऽत्र चन्द्रोऽधो लम्बितस्तस्मात्प्रतिमण्डलं कार्यम् । अत्राऽधोवृत्ते प्रतिमण्डले ऊर्ध्वरेखायां । त्रिभोनलग्नमुच्चस्थाने देयम् । प्रतिमण्डलतिर्यग्रेखायां लग्नं ततो राशयः, अङ्क्याः । रविरपि प्रतिमण्डले स्वस्थाने देयः । ततः प्रतिमण्डलतिर्यग्रेखार्कयोरूध्र्वाधरमन्तरं [ लग्नाकान्तरदोज्य भवति' ]।

 लग्नार्कान्तरकोटिज्या या सैव त्रिभोनलग्नार्कान्तरदोज्र्या। कक्षामण्डलमध्यात्प्रतिमण्डलस्थार्कगामिसूत्रं कर्णः । लग्नाकन्तिरदोज्यं, परान्तरतुल्या कोटिः कक्षातिर्यग्रेखार्कयोरन्तरम् । लग्नार्कान्तरदोज्र्या भुजः । कक्षावृत्तपरिधौ कर्णसूत्रं नेयं तद्यत्र लगति तस्य कक्षामण्डलस्थाकचिह्नस्यान्तरं लम्बनमिति सर्वमुत्पद्यते । वस्तुतस्तु चन्द्रार्कयोगः सर्वैरप्येकदैव दृश्यते । यस्मिन् कालविशेषे भवति स कालः कस्यचित्सूर्योदयकालःकस्यचित्सूर्योदयात् घटीचतुष्टयकाल इति दृग्गर्भसूत्रभेदोपाधिना कालभेदः सूर्यमेषसंक्रमणवत् । यथा च यदा लङ्कोदये संक्रमणमर्कस्य तंदा मध्याह्न संक्रमणमिति यमकोटिस्था मन्यन्ते तद्वदित्यर्थः ॥ ८-९ ।।

 अथ नत्यर्थमकॅन्द्वीदृक्क्षेपावाह----

दृग्ज्यैव या वित्रिभलग्नशङ्कोः स एव दृक्क्षेप इनस्य तावत् ।

सौम्येऽपमे वित्रिभजेऽधिकेऽक्षात् सौम्योऽन्यथा दक्षिण एव वेद्यः ॥१०॥

चापीकृतस्यास्य तु संस्कृतस्य त्रिभोनलग्नोत्थशरेण जीवा ।

 वा० भा०-पूर्वार्ध सुगमं प्रागेव व्याख्यातम् । सोऽर्कदृक्क्षेपः सौम्यो याम्यो वेति ज्ञानायोच्यते ॥ तत्र वित्रिभलग्नस्यापमे सौम्येऽक्षांशेभ्योऽधिके सति सौम्यो ज्ञेयः । इतोऽन्यथा याम्यः ॥ अथ तस्य दृक्क्षेपस्य धनुः कार्यम् । वित्रिभलग्नं चन्द्र प्रकल्प्य सपाततात्कालिकचन्द्रदोज्र्येत्येवं विक्षेपः साध्यः ॥ तेन वित्रिभलग्नविक्षेपेण तद्दृक्क्षेपधनुः संस्कार्यम् । एकदिशोर्योगो भिन्नदिशोरन्तरमित्यर्थ: । संस्कृतिवशाच्चन्द्रदृक्क्षेपस्य दिक् । तस्य जीवा दृक्क्षेप इन्दोरित्यग्रे सन्मबन्ध: ।

 अत्रोपपत्तिः - वित्रिभलग्नं क्रान्तिवृत्ते तद्भ्रमवशात् कदाचिद्दक्षिणोत्तरवृत्तात् पूर्वतः कदाचित् पश्चिमतो भवति। यद्युदयलग्नमुतरगोले तदा पूर्वतो भवति। तदन्यथा पश्चिमत इत्यर्थः । खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलं यत्र वित्रिभे लगति तत्खार्धान्तरेऽर्कदृक्क्षेपचापाशाः । यत्र विमण्डले लगति तत्खार्धान्तरे चन्द्रदृक्क्षेपचापाशाः । तज्ज्ये तयोदृक्क्षेपौ । यथाह श्रीमान् ब्रह्मगुस:-

 दृक्क्षेपमण्डले युक्ते। अपमण्डलेन भानोश्चन्द्रस्य विमण्डलेन युते। इति।

 यदा कक्षामण्डलं खमध्ये भवति तदा तस्य वृङ्मण्डलाकारत्वाद्यत्र कुत्र स्थितोऽपि प्रहो लम्बितोऽपि कक्षामण्डलं न त्यजति । अतोऽत्रावनतेरभावः ॥ यदा खार्धान्नतं वित्रिभलग्नं


१ अयशंशो नास्ति ग पुस्तके|