पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/311

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
सिद्धान्तशिरोमणी ग्रहगणिते

इदानी सकृत्प्रकारेण लम्बनमाह----

त्रिभोनलग्नस्य नरस्त्रिभू १३घ्नो दन्तैः ३२ विभक्तः परसंज्ञकः स्यात् । लग्नार्कयोरन्तरकोटिदोज्यें विधाय दोज्यापरयोविंयोगात् । ८ । । स्वघ्नाद्युतात् कोटिगुणस्य कृत्या मूलं श्रुतिः कोटिगुणात् परध्नात् । श्रुत्या हृताल्लब्धधनुः कला यास्ते वासवो लम्बनजाः सकृत् स्युः ॥ ९ ।

 वा० भा०-त्रिभोनलग्नस्य यः शङ्कुः स त्रयोदशगुणो द्वात्रिशद्भक्तः फलं परसंज्ञं भवति। दर्शान्तकाले यल्लग्न तस्मादकोंनाद्भुजकोटिज्ये साध्ये तत्र दोज्यया अनन्तरानीतस्य च परस्य यो वियोगस्तस्माद्वर्गीकृतात् कोटिज्यावर्गण युताद्यत् पर्द स कर्णः । कोटिज्यापरयोर्घातात् तेन कर्णेन भक्ताद्यत् फलं तस्य चापे यावत्यः कलास्तावन्तो लम्बनासवः सकृदेव भवेयुः ॥

 अत्रोपपत्तिः--यदि त्रिज्यातुल्ये वित्रिभलग्नशङ्कौ परमलम्बनज्या लभ्यते तदेष्टशङ्कौ का इति । तत्र संचारः ॥ यदि परमलम्बनऽयातुल्यगुणकेन त्रिज्या हरस्तदा त्रयोदशगुणकेन कः ॥ फलं द्वात्रिशत् । तस्य परसंज्ञा कृता । अधोधःस्थयोरपि चन्द्रार्कयोः क्रियोपसंहारार्धमन्यथा कल्पितं लम्बनक्षेत्रम् ।

 तत्र तावत् परमं लम्बनमुच्यते । चतस्रो घटिकाः किल परमं लम्बनम् । तत् तु त्रिज्यातुल्ये वित्रिभलग्नशङ्कौ ॥ तासां घटीनां यावन्तोऽसवस्तावत्य एव चतुविशतिभागानां कला भवन्ति ॥ अतस्त्रिज्यासंभूतक्रान्तेः कलानां तुल्यास्तदा परमलम्बनासवो भवन्ति । यदा पुनवित्रिशलग्नशङ्कुस्त्रिज्यातोऽल्पो भवति तदा तज्जनितक्रान्तेः कलानां तुल्या भवन्ति ॥ अतो वित्रिभलग्नशङ्कुजनिता क्रान्तिज्या तदा परमलम्बनासूनां ज्या भवतीत्यवगन्तव्यम् ।

 अथ पूर्वापरायताया भित्तेरुत्तरपाश्र्वे त्रिज्यामिताङ्गुलकर्कटेन वृत्तमालिख्य तन्मध्ये तिर्यग्रेखामूध्र्वरेखा च कुर्यात्। तत् किल चन्द्रकक्षावृत्त कल्प्यम्। तन्मध्यादुपरि परमलम्बनासुज्यान्तरे भूसंज्ञित बिन्दु कृत्वा तत्र तेनैव कर्कटेनान्यद्वृत्त विलिखेत्। तन्मध्येऽप्यन्या तिर्यग्रेखा कार्या। ऊध्र्वरेखा सैवोपरितो नेया । तत् क्लिार्ककक्षावृत्तम् । ते वृत्ते चक्रांशैर्घटिकाषष्ट्या चाडूये । ऊध्वरेखायुतौ द्वयोरपि वित्रिभलग्नसंज्ञौ बिन्दू कार्यों ततो वित्रिभलग्नाकान्तरभागे रविकक्षायां वित्रिभलग्नान्नत रविसंज्ञक बिन्दु कुर्यात्। एवं चन्द्रवित्रिभाच्चन्द्रकक्षायां तैरेव भागैनत चन्द्रबिन्दूँ। च ॥ ततो भूबिन्दोः सकाशाच्चन्द्रबिन्दूपरिगतं सूत्रं प्रसार्यम् ॥ तत् सूत्रं यत्र रविकक्षायां लगति तत्सूर्यबिन्द्रोरन्तरे यावत्यो घटिकास्तावत्यस्तस्मिन् काले लम्बनघटिका शेयाः । एवंविधे क्षेत्रेऽस्य लम्बनस्य साधनोपपत्तिर्ग्रहशीघ्रफलवदुत्पद्यते । तत्र रविकक्षां कक्षामण्डलं चन्द्रकक्षां प्रतिमण्डल ‘परमलम्बनासुयामन्स्यफलज्यां वित्रिभलग्न सषड्भ शीघ्रोच्च प्रकल्प्य शेषा क्रियोह्या । एतदानयनं किञ्चित् स्थूलम् ॥८-९॥

 वा० वा०-तस्मिन्साध्यमाने यदैकादशघटिकास्तदा घटिकाचतुष्टयं लम्बनमायातीति सकृत्प्रकारेण लम्बन साधयतीति । 'लग्नार्कयोरन्तरकोटिदोज्यें इति । यथा फलानयने प्रथमं भूगर्भात्कक्षावलयं कृतं तत्र ग्रहोच्छेदत्वोच्चरेखा दत्ता। मध्यात्परमफलज्या उच्चोन्मुखी दत्ता तत्र च त्रिज्यया प्रतिमण्डलं कृतम् । तथा त्र