सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १०३

विकिस्रोतः तः

सूर्यपूजामहिमवर्णनम्

ब्रह्मोवाच
यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् ।
स सप्त पुरुषांल्लोकान्भानोर्नयति मानवः । । १
यावन्त्यब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे ।
तावद्वर्षसहस्राणि सूर्यलोके स मोदते । । २
देवार्चा लक्षणोपेता यद्गृहे सन्ततो विधिः ।
निष्कामं वा मनो यस्य स याति रविसाम्यताम् । । ३
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति हि देवेशं तद्भावगतमानसः । ।४
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम् ।
दीपबल्युपहाराश्च यच्चाभीष्टमथात्मनः । । ५
नरः सोऽनुदिनं यज्ञात्प्राप्नोत्याराधनाद्रवे ।
यज्ञेशो भगवान्भानुर्मखैरपि च तोष्यते । । ६
बहूपकरणा यज्ञा नानासम्भारविस्तराः ।
प्राप्यन्ते३ तैर्धनयुतैर्मनुष्यैर्लोकसञ्चयैः ।। ७
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ।
रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ८
यानि पुष्पाणि भक्ष्याणि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च रक्तके चैव वाससी । । ९
यानि चाभ्युपहाराणि भक्ष्याणि च फलानि च ।
प्रयच्छ तानि देवेश भवेथाश्चैव तन्मनाः । । 1.103.१०
आद्यं तं यज्ञपुरुषं यथाशक्त्या प्रसादय ।
आराध्य स्थापितं देवं तस्मिन्नेव नरालये । । ११
पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्देवं चित्रभानुं दिवाकरम्१। । १२
दधिक्षीरह्रदान्याति स्यर्गलोकान्मधुच्युतान् ।
प्रयास्यति यदुश्रेष्ठ निर्वृतिं वापि शाश्वतीम् । । १३
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैकतायोगादाराधय विभावसुम् । । १४
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः ।
हैहयानां च पञ्चाशदमृतत्वं समागताः । । १५
स त्वमेभिः प्रकारैस्तमुपवासैस्तु भास्करम् ।
सन्तोषय हि तुष्टोऽसौ भानुर्भवति शान्तिदः । । १६
कृष्ण उवाच २
उपवासैश्चित्रभानुः कथं तुष्टः प्रजायते ।
परिचर्या कथं कार्या या कार्या चोपवासिना । । १७
यद्यत्कार्यं यदा चैव भानोराराधनं नरैः ।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि । । १८
ब्रह्मोवाच
स्मृतः सम्पूजितो धूपपुष्पाद्यैः स सदा रविः ।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् । । १९
उपावृत्तस्तु पापेभ्यो यस्तु वासोगुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः । । 1.103.२०
एकरात्रं द्विरात्रं वा त्रिरात्रमथ वा हरे ।
उपवासी रविं यस्तु भक्त्या ध्यायति मानवः । । २१
तन्नामयाजी तत्कर्मरतस्तद्गतमानसः ।
निष्कामः पूजयित्वा तं परं ब्रह्माधिगच्छति । । २२
यश्च काममभिध्याय भास्करार्पितमानसः ।
उपोषति तमाप्नोति प्रसन्ने तु वृषध्वजे । । २३
श्रीकृष्ण उवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा विभो ।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् । । २४
ब्रह्मोवाच
अथाराध्य जगन्नाथं भास्करं तिमिरापहम् ।
निर्व्यलीकेन चित्तेन प्रयास्यति च सद्गतिम् । । २५
विषयाग्राहवैषम्यं न चित्तं भास्करार्पणम् ।
स कथं पाप कर्ता वै नरो यास्यति सद्गतिम् । । २६
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।
तदाराधय सर्वेशं१ ग्रहेशं लोकपूजितम् । । २७
पुष्पैः सुगन्धैर्हद्यैश्च धूपैः सागुरुचन्दनैः ।
वासोविभूषणैर्भक्ष्यैरुपवासपरायणः । । २८
यदि संसारनिर्वेदादभिवाच्छसि सद्गतिम् ।
तदाराधय कालेशं यच्चेष्टं तव चेतसा । । २९
पुष्पाणि यदि तेन स्युः शस्तं पादपपल्लवैः ।
दूर्वांकुरैरपि कृष्ण तदभावेऽर्चयेद्रविम् । । 1.103.३०
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमात्सनः ।
पूजितस्तुष्टिमतुलां भक्त्या यात्येकचेतसाम् । । ३१
यः सदायतने भानोः कुर्यात्सम्मार्जनं नरः ।
स पांसुदेहसंयोगात्सर्वपापैः प्रमुच्यते । । ३२
यावत्यः पांसुकणिका मार्ज्यन्ते भास्करालये ।
दिनानि दिवि दिव्यानि तावन्ति मोदते नरः । । ३३
सबाह्याभ्यन्तरं वेश्म मार्जते भास्करस्य यः ।
स बाह्याभ्यन्तरस्तस्य कायो निष्कल्मषो भवेत् । । ३४
यश्चानुलेपनं कुर्याद्भानोरायतने नरः ।
स हेलिलोकमासाद्य मोदते गोगते हरौ । । ३५
मृदा वा मृद्विकारैर्वा वर्णकैर्गोमयेन वा ।
अनुलेपनकृद्भक्त्या नरो गोपतिमाप्नुयात् । । ३६
उदकाभ्युक्षणं भानोर्यः करोति तथाक्षये ।
स गच्छति नरः कृष्ण यत्रास्ते गोपतिः सदा । । ३७
पुष्पप्रकरमत्यर्थं सुगन्धं भास्करालये ।
अनुलिप्ते नरो दद्यात्पूषोत्तरगृहं व्रजेत् । । ३८
विमानवरमभ्येति सर्वरत्नमयं दिवि ।
सम्प्राप्नोति नरो दत्त्वा दीपकं भास्करालये । । ३९
यस्तु सम्वत्सरं पूर्णं तिलपात्रप्रदो नरः ।
ध्वजं च भास्करे दद्यात्सममत्र फलं लभेत्१ । । 1.103.४०
विधुनोत्यतिवातेन दातुरज्ञानतः कृतम् ।
पापं दातुर्गृहे भानुर्दिवारात्रौ न संशयः । । ४१
गीतवाद्यादिर्भिर्देवं य उपास्ते विभावसुम् ।
गन्धर्वनृत्यैर्वाद्यैश्च विमानस्थो निषेव्यते । । ४२
जातिस्मरत्वं वृद्धिं च ततस्तु परमां गतिम् ।
प्राप्नोति हेलेरायतने पुण्याख्यानकथाकरः । । ४३
तस्मात्कुर्यात्प्रयत्नेन पूजयेद्वापि वाचकम् ।
नान्यत्प्रीतिकरं भानोः पुण्याख्यानादृते क्वचित् । । ४४
एकोऽपि हेलेः सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म हेलिप्रणामी न पुनर्भवाय । । ४५
एवं१ देवेश्वरो भक्त्या येन भानुरुपासितः ।
स प्राप्नोति गतिं श्लाघ्यां यामिच्छति च चेतसा । ।४ ६
तमाराध्य मया प्राप्तं ब्रह्मत्वं लोकपूजितम् ।
सौरेर्यथेप्सितं प्राप्तं त्वया तस्मात्पुरानघ । । ४७
ब्रह्महत्याभिभूतस्तु गोश्रुताभरणो हरः ।
तमाराध्य रविं भक्त्या मुक्तोऽसौ ब्रह्महत्यया । ।४८
देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः ।
विद्याधरत्वमपरैरेवाप्तं हि दिवाकरात् । । ४९
लेखः क्रतुशतेनेशमाराध्यैनं दिवाकरम् ।
इन्द्रत्वमगमत्तस्मान्नान्यः पूज्यो दिवाकरात् । । 1.103.५०
देवेभ्योऽप्यतिपूज्यस्तु स्वगुरुर्ब्रह्मचारिणा ।
तस्मात्स यज्ञपुरुषो विवस्वान्पूज्य एव हि । । ५१
स्त्रियाश्च भर्तारमृते पूज्योऽत्यन्तं विभावसुः ।
भर्तुर्गृहस्थस्य सतः पूज्यो गोपतिरंशुमान् । । ५२
वैश्यानामपि चाराध्यस्तपोभिस्तमनाशनः ।
ध्येयः परिव्राजकानां सदा देवो विभावसुः । । ५३
एवं सर्वाश्रमाणां हि चित्रभानुः परायणम् ।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् । । ५४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमी कल्पे सूर्यपूजामहिमवर्णनं नाम त्र्यधिकशततमोऽध्यायः । १०३ ।