‘विलोक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि।' अत्र अपि शब्दो भिन्नक्रम:'। अतो विलोक्या मत्कृतिः कृत्स्नापि द्रष्टव्येत्यर्थः ॥ ४ ॥
इवानों सुजनगणकान् प्रार्थयन् प्रयोजनमाह ।
तुष्यन्तु सुजना बुद्ध्वा विशेषान् मदुदीरितान्।
अबोधेन हसन्तो मां तोषमेष्यन्ति दुर्जनाः ।। ५ ।।
° भा° सुजना इति विशेषणं किम् । यतो डजनाः स्वतस्तोषमेष्यन्ति । यवा दुर्जना मढुक्तान् विशेषान् द्रक्ष्यन्ति तदा तानज्ञात्वा दौर्जन्येन सञ्छन्नमतयो विशेषार्थान् न बुष्यन्ति तेनाबोधेन मदुतिमेव विरुद्धां मन्यमानाः सहर्षाः कि तेन कविना विरुद्धमुक्तमिति मामेव हसन्तस्तोषमेष्यनित । न हि तोष विना हास्यमुत्पद्यत इति भावः ।। ५ ।। वा० वा०-मत्कृतिविलोकने सर्वेषामपि सन्तोषो भविष्यतीत्याह तुष्यन्तु इति ।। ५ ।।
अर्थकश्लोकेन सिद्धान्तग्रन्थलक्षणमनन्तरश्लोकद्वयेन सिद्धान्तप्रशंसा चाह ।
त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमा
च्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः ।
भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ॥ ६ ॥
जानन् जातकसंहिताः सगणितस्कन्धैकदेशा अपि
ज्योतिः शास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः ।
यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा
राजा चित्रमयोऽथवा सुघटितः काष्ठस्य कण्ठीरवः ॥ ७ ॥
गर्जत्कुञ्जरवर्जिता नृपञ्चमूरप्यूर्जिताऽश्वादिकै-
रुद्यानं च्युतचूतवृक्षमथवा पाथोविहीनं सरः ।
योषित् प्रोषितन्तनप्रियतमा यद्वन्न भात्युच्चकै-
ज्योंतिः शास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ।। ८ ।।
वा० भा० स्पष्टम्। ६-८ । वा० वा०-यदर्थ यो विचार आरभ्यते तत्समाप्तौ। स एव बुद्धिस्थो भवतीति नियमात् सिद्धान्तशिरोमणि करोतीति प्रागभिहितम् । तत्र सिद्धान्तपदेन कोऽसौ ग्रन्थविशेषोऽभिधीयत इति तल्लक्षणमवतारयति त्र्युष्टयादीति ।
R. अयमाशयः, यद्यपि अपि शब्दस्य कृति शब्देन सह श्रूयमाणत्वात्कृतिपदेनाऽन्वयो युक्तः, परन्तु क्रमभेदपठनेन कृत्स्ना शब्देनाप्यन्वेति ।