सामग्री पर जाएँ

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६३

विकिस्रोतः तः

आदित्यमहिमावर्णनम्

सुमन्तुरुवाच
प्रणम्य शिरसा देवं सुरज्येष्ठं चतुर्मुखम् ।
उवाच स महातेजा दिण्डिर्लोकेशमादरात् । । १
देवदेवेन भवतादिष्टोऽस्मि च महात्मना ।
क्रियायोगामृतं२ सर्वमाख्यास्यति भवान्किल । । २
स त्वां पृच्छाम्यहं ब्रह्मन्क्रियायोगं निरन्तरम् ।
सन्तोषयितुमीशेहं यथावद्वक्तुमर्हसि । । ३
ब्रह्मोवाच
एह्येहि मत्सकाशं च मत्समीपे गणाधिप ।
ब्रह्महत्या प्रणष्टा ते दर्शनादेव तस्य तु । । ४
अनुग्राह्योऽसि भूतेश भास्करस्यामितौजसः ।
आराधनाय भूतेश यदीशे प्रवणं मनः । । ५
यदि देवपतिं भानुमाराधयितुमिच्छसि ।
भगवन्तमनाद्यन्तं भव दीक्षागुणान्वितः । । ६
न ह्यदीक्षान्वितैर्भानुर्ज्ञातु स्तोतुं च तत्त्वतः ।
द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव हि । । ७
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः ।
भवन्ति भगवन्सौरास्तदा दीक्षागुणान्विताः । । ८
अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । ९
प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयात्पापबीजसमुद्भवम् १ । । 1.63.१०
पाखण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते विष्णुमायाम्भः पतितानां दुरात्मनाम् । । ११
यदा पापक्षयः पुंसां तदा वेदद्विजादिषु ।
रवौ च देवदेवेशे श्रद्धां भवति निश्चला । । १२
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः ।
तदा दीक्षागुणान्सर्वे भजन्ते नात्र संशयः । । १३
भ्रमतामत्र संसारे नराणां पापदुर्गमे ।
हस्तावलम्बदोप्येको भक्तिप्रीतो दिवाकरः । । १४
सर्वभागवतो भूत्वा सर्वपापहरं रविम् ।
आराधयेह तं भक्त्या प्रीतिमेष्यति भास्करः । । १५
दिण्डिरुवाच
किं लक्षणा नरा दीक्षामर्हन्ति पद्मसम्भव ।
यच्च दीक्षान्वितैः कार्यं तन्मे कथय पद्मज । । १६
ब्रह्मोवाच
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः ।
भावभक्तश्च मार्तण्डे तस्य दीक्षा गुणान्विता । । १७
ब्राह्मणांश्चैव देवांश्च नित्यमेव नमस्यति ।
न च द्रोग्धा१ परं वादे स मार्तण्डं समर्चति । । १८
सर्वान्देवान् रविं वेत्ति सर्वलोकांश्च भास्करम् ।
तेभ्यश्च नान्यमात्मानं स नरः सौरतां व्रजेत् । । १९
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकान् ।
तरुपाषाणकाष्ठानि भूम्यंभो गगनं दिशः । । 1.63.२०
आत्मानं चापि देवेशाद्व्यतिरिक्तं दिवाकरात् ।
यो न जानाति यतिषु स वै दीक्षागुणान्भजेत् । । २१
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स तु दीक्षां समर्हति । । २२
सुतप्तेनेह तपसा यथैर्वा बहुदक्षिणैः ।
तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः । २३
येन सर्वात्मना भानौ भक्त्या भावो निवेशितः ।
गणेश्वर कृतार्थत्वाच्छ्लाघ्यः सौरः स मानवः । । २४
अपि न: स कुले धन्यो जायते कुलपावनः ।
भगवान्भक्तिभावेन येन भानुरुपासितः । । २५
यः कारयति - देवार्चां हृदयालम्बनं रवेः ।
स नरो भानुसालोक्यमाप्नोति धुतकल्मषः । । २६
यस्तु देवालयं भानोर्भक्त्या कारयति ध्रुवम् ।
स सप्त पुरुषाँल्लोकं भानोर्नयति मानवः । । २७
यावन्त्याब्दानि देवार्चा रवेस्तिष्ठति मन्दिरे ।
तावद्वर्षसहस्राणि सूर्यलोके महीयते । । २८
देवार्चा लक्षणोपेता तद्गृहे सन्ततो विधिः ।
निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । २९
पुष्पाणि च सुगन्धीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति सहस्रांशोः सदा प्रयतमानसः । । 1.63.३०
धूपांश्च तांस्तान्विविधान्गन्धाढ्यं चानुलेपनम् ।
नरः सोऽनुदिनं यज्ञं करोत्याराधनं रवेः । । ३१
यज्ञेशो भगवान्पूषा सदा क्रतुभिरिज्यते ।
बहूपकरणा यज्ञा नानासम्भारविस्तराः । । ३२
न ते दिण्डिन्नवाप्यन्ते मनुष्यैरल्पसञ्चयैः ।
भक्त्या तु पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि । ।
भानोर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ३३
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च प्रीतये चैव वाससी । । ३४
यानि चाभ्यवहार्याणि भक्षााणि च फलानि वै ।
प्रयच्छ तानि मार्तण्डे भवेथाश्चैव तन्मनाः । । ३५
आद्यं तं भुवनाधारं यथाशक्त्या प्रसादय ।
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् । । ३६
पुष्पैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्भानुं ग्रहेशं गोपतिं खगम् । । ३७
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः ।
प्रयास्यति गणश्रेष्ठ निर्वृत्तिं च विलक्षणाम् । । ३८
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैव योगेन आराधय दिवाकरम् । । ३९
आराध्य तं जगन्नाथं मया सर्गः प्रवर्तितः ।
विष्णुश्च पालयेल्लोकांस्तमाराध्य दिवाकरम् । । 1.63.४०
रुद्रश्च प्राप्तवान्देवीं भवानीं तत्प्रसादतः ।
दीप्यन्ते ऋषयश्चापि तमाराध्य दिवाकरम् । । ४१
स त्वमेभिः प्रकारैस्तमुपवासैश्च भास्करम् ।
तोषयाब्दं हि तुष्टोऽसौ भानुर्द्वंद्वप्रशान्तिदः । । ४२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मदिण्डिसंवादे आदित्यक्रियायोगवर्णनं नाम त्रिषष्टितमोऽध्यायः । ६३ ।