शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →

सनत्कुमार उवाच ।।
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ।।
शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया ।। १ ।।
दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ।।
शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा ।। २ ।।
सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ।।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्।। ३ ।।
गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ।।
राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ।।४।।
स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः।।
कथयामास वृत्तांतं द्वारपालाय निर्भयः ।। ५।।
अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा।।
अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्।।६।।
स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ।।
वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम् ।।७।।
दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ।।
शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः ।।८।।
एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ।।
उवाच रणवृत्तांतं यदुक्तं शंकरेण च ।। ९ ।।
पुष्पदंत उवाच ।।
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ।।
यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते ।। 2.5.१० ।।
शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ।।
नोचेत्कुरु रणं सार्द्धं परेण च मया सताम् ।। ११ ।।
देवा मां शरणापन्ना देवेशं शंकरं सताम् ।।
अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ।। १२ ।।
हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम्।।
खलदंडधरोऽहं वै शरणागतवत्सलः ।। १३ ।।
राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ।।
तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै ।। १४ ।।
पुष्पदंत उवाच ।।
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ।।
वितथं शंभुवाक्यं न कदापि दनुजाधिप ।। १५ ।।
अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ।।
गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह ।। १६ ।।
।। सनत्कुमार उवाच
इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ।।
आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ।। १७ ।।
शंखचूड उवाच ।।
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ।।
रणं दास्यामि ते रुद्र देवानां पक्षपातिने ।।१८।।
यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।
अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्।।१९।।
प्रभात आगमिष्यामि वीरयात्रा विचारतः ।।
त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ।। 2.5.२० ।। ।।
इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ।।
उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम् ।।२१।।
अन्येषामपि राजेन्द्र गणानां शंकरस्य च ।।
न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम् ।।२२।।
स त्वं देहि च देवानामधिकाराणि सर्वशः ।।
त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि।।२३।।
सामान्यममरं तं नो विद्धि दानवसत्तम।।
शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः।।२४।।
इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा।।
सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः ।।२५।।
हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ।।
यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत् ।।२६।।
शिवस्य पूर्णरूपश्च लोकसंहारकारकः।।
सतां गतिर्दुष्टहंता निर्विकारः परात्परः ।।२७।।
ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः।।
अवमान्या न वै तस्य शासना दानवर्षभ।।२८।।
किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ।।
रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ।।२९।।
देहि राज्यं हि देवानामधिकारांश्च सर्वशः ।।
एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।2.5.३०।
सन्त्कुमार उवाच।।
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ।।
उवाच शिवदूतं तं भवितव्यविमोहितः।।३१।।
शंखचूड उवाच ।।
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ।।
विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम् ।। ३२ ।।
कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम्।।
कालाद्भवति सर्वं हि विनश्यति च कालतः।।३३।।
त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत।।
स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ।। ३४ ।।
सनत्कुमार उवाच।।
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ।।
यथार्थं कथयामास पुष्पदंतश्च सन्मुने ।। ३५ ।।

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।