बृहद्यात्रा/अध्यायः १२
← अध्यायः ११ | बृहद्यात्रा अध्यायः १२ |
अध्यायः १३ → |
अध्यायः-१२ मिश्रकः
[सम्पाद्यताम्]व्यसनं प्राप्नो(ति) महद् व्यतिपाते निर्गतोऽथवा मृत्युम्।
वैधृतिगमनेऽप्य् एवं त्र्यह्नस्पृशि समुपदिशान्त्य् एव॥
नावमरात्रे यायाद् दोषस् तत्राधिमासके व्यसनम्।
ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत्॥
स्वर्क्षेशदशाधिपयोर् मित्रोदासीनशत्रुभांशभवाः।
तत्पाकभुजश् चोक्ता विजिगीषोर् मित्रमध्यरिपवः॥
रिक्तानिष्टदशोऽरिर् नियमाद् विजिगीषुणा समुच्छेद्यः।
अवरोहिदशः पीड्यः कर्षयितव्यस् तथारोही॥
न सदृशदशोऽभियोज्यः सन्धानं तेन भूपतेर् व्यासम्।
अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात्॥
श्रेयान् विपर्यये विग्रहस् तथारोहिण्य् अशुभैष्यदशः।
आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः॥
आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः।
यायात् तद्विपरीतं द्वैधीभावं तु मिश्रदशः॥
रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च।
स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः॥
उपचयकर्तुर् व्रजेद् दिशं बलवति कण्टकगे च दिक्पतौ।
मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थिते॥
जन्मोदयपौ बलान्विताव् उपचयकण्टकगौ शुभप्रदौ।
क्रूराव् अपि नित्यम् एव तौ सौम्यैर् एव समाव् उदाहृतौ॥
स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः।
परिहृत्य सितार्कनन्दनौ मध्यास् तिग्मकराद् विनिःसृताः॥
परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च।
फलं यद् उक्तं तद् अशेषम् एव विनाश्य पश्चात् स्वदिशं नयन्ताम्॥
रिपुदिवसो यस्य भवेत् सौम्योऽपि स लग्नगो न शुभदाता।
पापोऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः॥
बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः।
द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः॥
यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु।
भानौ कुलीरझषवृश्चिकगेऽतिदीर्घा शस्तस् तु देवलमतेऽध्वनि पृष्ठतोऽर्कः॥
सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ।
न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः॥
उत्तमफला यात्रा त्रिकोणतुङ्गोपच(ये)षु सौम्येषु।
मध्या स्वमित्रभवनोपगेषु नीचारिभेष्व् अधमा॥
मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा।
मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा॥
दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ।
शुक्रे प्रवसन् नरेर् वशं याति बुधे च विलोमसंस्थिते॥
अनुलो(म)गते शशाङ्कजे शुक्रे चैवम् अपि व्यवस्थिते।
यायाद् अविशङ्कितोऽपरैः कथितोऽप्याङ्गिरसो यथेन्दुजः॥
आक्रन्दसारी दिनमध्यगोऽर्कः पौरः पुरस्ताद् अपरत्र यायी।
आक्रन्द इन्दुर् गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्य् अतोऽन्ये॥
यायिग्रहैर् वीर्यजयोपपन्नैः केऽरिप्रयाणं प्रवदन्ति धन्यम्।
सत्यं तथा किं तु विशेषम् आहुस् ते भूपतेः सत्फलदा जिगीषोः॥
दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा।
शस्तो राहुस् त्र्यायकर्मोपयातो यातव्यश् चासन्नतागश् च केतुः॥
साम्नां शुक्रबृहस्पती दिनकरो वक्रश् च दण्डेश्वरौ
भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः।
आर्कादाटविकं यमा(द्) भृतबलं(स्यु)र् भार्गव्(आच् छ्रेणिकं)
ज्ञान् मन्त्रं रिपुदेशमौलबलपालक्(आभौमे)न्दुवागीश्वराः॥
यतोऽप(प)न्नदिवसकरोडुनाथयोस् ततो व्रजेद् रिपुनधनाय पार्थिव।
अथायनेन युगपद् एकसंस्थयोर् द्युनक्तयो रविशशिनोर् व्रजेत् तदा॥E२५