सामग्री पर जाएँ

बृहद्यात्रा/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० बृहद्यात्रा
अध्यायः ११
अध्यायः १२ →

अध्यायः-११ उत्सर्गापवादौ

[सम्पाद्यताम्]

सौम्यासौम्येष्व् एतल् लग्नाद्स्थेषु यत् फलं प्रोक्तम्।

तत्समकालगतानां फलवैषम्याद् अनेकान्तम्॥

होराविदो जगुर् इदं सुताव् अबलो दशाधिपारिश् च।

अशुभफलदश् चासाम्प्रतम् उदये सौम्योऽपि नेष्टफलः॥

साम्प्रतं शुभदः सुतौ बलन्वितो यो दशाधि(प)मित्रं च।

पापोऽपिशुभफलः स्याच् छलोकः शास्त्रोदितश् चात्र॥

सौम्योऽप्य् अतीवचिरभाविफलो न योज्यः

पापोऽप्य् असाम्प्रतफलो रिपुनिर्जितश् च।

पाकाधिपोऽऽत्मसदनाष्टकवर्गशुद्धः

अवल्पोऽफलश् च दिनभांशविधिस् तथा स्यात्॥

सौम्यं दशाधिपं लग्नसंस्थमिच्छन्ति केचिद् आचार्याः।

पापां चोपचयस्थं न विलग्ने तत्र च श्लोकौ॥

सौम्यग्रहेषु लग्नेषु शुभम् एकान्तनिश्चितम्।

पपग्रहोदये यातुर् असंशयम् अशोभनम्॥

तस्मात् क्रूरं दशानाथं यातुर् वीर्यगुणान्वितम्।

कुर्याद् उपचयर्क्षेषु न विलग्ने कथंचन॥

तच् च विरुद्धं तेषां कथम् अन्यदशासु दास्यते स्वफलम्।

एवं फलस्य नाशो व्रजति सर्वस्य फललि(ली)प्सोः॥

तस्मान् नैकान्तोऽयं जातकम् अवलोक्य निर्दिशेत् सदसत्।

श्लोकौ वृत्तं भेदं प्राह मणित्थो वसिष्ठश् च॥

रक्षका वर्धकाश् चैव ये स्युर् जन्मनि नायकाः।

तान् पापान् अपि निःशङ्को यात्रालग्नेषु योजयेत्॥

शुभाशुभफला योगा जातके येऽप्य् उदाहृताः।

तान् सर्वान् अवलोक्यैव प्रयाणेष्व् अपि योजयेत्॥

होरागतः स्वभवने यदि सूर्यपुत्रो मेषोपगोऽवनिसुतः स्वगृहे शशाङ्कः।

शुक्रस् तुलाधरगतो मिथुने बुधश् च सिंहे रविर् यदि च पार्थिवजन्म विद्यात्॥

जन्मसमये शशाङ्कोदयोपचयसंस्थिता ग्रहाः केचित्।

ते सर्वे नानाख्या क्रूराः सौम्यैः समाश्चिन्त्याः॥

यो यस्य दशमगृहगः स तस्य वश्यस् तु भवति नियमेन।

यश् चाथ पणफरस्थः स भवति रक्षोपगस् तद्वत्॥

उपचयगृहोपयाताः प्रस्परं कीर्तित्स् तु तानसमाः।

आदौ प्रकीर्णकाध्याये चोदिताः कारकाश् च॥

जन्मेश्वरलग्नपयोर् यः शत्रुर् लग्नगः स सौम्योऽपि।

कुरुते देहविपत्तिं क्रूरोऽपि शुभं तयोर् मित्रम्॥

भवेन् न यः कारकतानसंज्ञः स्वजन्मलग्नाधिपयोः शुभोऽपि।

करोति लग्नोपगतः स यातुर् भयं विनाशं च बहुप्रकारम्॥

पपोऽपे लग्नोपगतो नराणां शुभप्रदः कारकतानसंज्ञः।

तस्मात् प्रय्त्नाद् इद्म् एव चिन्त्यं यियासतां कारकतानयातम्॥

एकोऽपि वक्रोपगतो नराणां शुभोऽशुभो वापि चतुष्टयस्थः।

वर्गोऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुतेऽध्वगानाम्॥

स्वसुतस्थाने सूर्यः स्त्रीजनरत्नप्रमोददो लग्ने।

अवशेषस्थानगतो वधबन्धोद्वेगदः क्षिप्रम्॥

उडुपतिर् उदयं प्राप्तः सर्वस्थानोपगः प्रयातृणाम्।

कुरुते रिपुप्रवृद्धिं दीप्तिविनाशं विघातं च॥

स्थानेऽर्कसुतस्य कुजो लग्नस्थो रिपुविनाशजयदाता।

शेषस्थानोपगतः क्षितिसुतो रत्नार्थनाशकरः॥

रविशशिभौमस्थानेष्व् अनर्थदो लग्नगः शशाङ्कसुतः।

भृगुसुतगुरुमन्दानाम् अभिषेकजयार्थदीप्तिकरः॥

जीवो भृगुचन्द्रमसोः स्थाने धनयोधनाशकः प्रोक्तः।

तत्परिशेषस्थानेष्व् अवनिसुहृद्वित्तंजयदाता॥

सौम्यस्थाने शुक्रो बलहानिकरोऽर्थदोऽरिहन्ता च।

स्थाने परिशेषाणाम् अनिलज्वरशत्रुकोपकरः॥

अर्कस्थाने मन्दो लग्नस्थः प्रीतिसौख्यलाभकरः।

नेष्टोऽन्यस्थानस्थः प्रतापबलमानहानिकरः॥

सवितृतनयः स्वस्थानस्थो धनाङ्गविनाशकृत्

तुहिमकिरणः स्त्रीरत्नाप्तिं नरेश्वरतां रविः।

अवनितनयः सैन्यक्षोभं प्रियश्रवणं बुधः

सुरगुरुरथो भोगप्राप्तिं करोति जयं सितः॥

योऽस्तं यात्य् उदयं वा दक्षिणमार्गस्थितः सहस्त्रांशोः।

कुरुते ग्रहः सलग्ने योधधनाङ्गक्षयं यातुः॥

तिग्मकरस्योत्तरतो दर्शनम् आयाति यो ग्रहोऽस्तं वा।

मध्ये तु वा स लग्ने यातुः कुसुमाम्बराशनदः॥

नियतगतिद्युतिवर्णप्रमाणवैकृत्यम् उच्यते विकृतिः।

विकृतिस्थो गल्नगतो न शुभः शुभदः स्वभवनस्थः॥

याम्ये तमो ज्ञः श्रवणे रविस् तु जातो विशाखासु सितश् च पुष्ये।

पौष्णप्यभाग्योरगकृत्तिकासु मन्दारवागीशशिरवीन्दुजन्मा॥

त्रिविधोत्पाताभिहतं बलवद् ग्रहपीडितं च यस्यर्क्षं।

यात्रायां लग्नगतः स वर्जनीयोऽनुकूलोऽपि॥

पाकेश्वराधिमित्रे तद्वर्गे वा विलग्नगे यातुः।

स्वयम् अरिर् उपैति वश्यं प्रणतशिराः सार्वभौमोऽपि॥

पकेश्वरारिलग्ने वर्गे वा तस्य भूपतिर् गच्छन्।

विनिहतशूरनराश्वः शत्रोर् आयाति वश्यत्वम्।

मूर्त्यर्थयोधवाहनमन्त्र्यरिमार्गनैधनमनांसि।

कर्मागमव्ययाश्चोदयादयः कीर्तिता भावाः॥

यात्राफलं चतुर्थे जामित्रे शत्रवः प्रमादश् च।

शुभपापग्रहयोगाच् छुभाशुभं निर्दिशेद् एषाम्॥

सत्याचार्यस्य मते विबलः शस्तः शशी प्रयाणेषु।

दिग्वीर्योनः केवलम् इन्दुः शस्त इति जगुर् अन्ये॥

यद् एव यस्योदयसंस्थितस्य फलं प्रयाणे सदसत् प्रदिष्टम्।

तद् एव तस्याखिलम् अह्नि यातुर् ग्रहस्य वर्गे च विलग्नसंस्थे॥E३८