शार्ङ्गधरसंहिता/मध्यखण्डम्
दिखावट
- श्रीः
- मध्यखण्डम्
स्वरसादिकल्पना
[सम्पाद्यताम्]- अथ स्वरसादिकल्पनानामप्रथमोऽध्यायः
- अथ पञ्च कषायाः
- अथातः स्वरसः कल्कः क्वाथश्च हिमफाण्टकौ
- ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् १
- स्वरसस्य लक्षणम्
- आहतात्तत्क्षणाकृष्टाद् द्र व्यात् क्षुण्णात्समुद्धरेत्
- वस्त्रनिष्पीडितो यः स रसः स्वरस उच्यते २
- स्वरसस्य द्वितीयं लक्षणम्
- कुडवं चूर्णितं द्र व्यं क्षिप्तं च द्विगुणे जले
- अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ३
- स्वरसस्य तृतीयं लक्षणम्
- आदाय शुष्कद्र व्यं वा स्वरसानामसम्भवे
- जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ४
- स्वरसमात्रा
- स्वरसस्य गुरुत्वाच्च पलमर्धं प्रयोजयेत्
- निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ५
- स्वरसे प्रक्षेप्यद्र व्याणि तेषां परिमाणं च
- मधुश्वेतागुडक्षाराञ्जीरकं लवणं तथा
- घृतं तैलं च चूर्णादीन्कोलमात्रान् रसे क्षिपेत् ६
- अथ रोगानुसारेण स्वरसप्रयोगाः
- तत्र प्रमेहेऽमृतास्वरसो धात्रीस्वरसश्चस तथा
- अमृताया रसः क्षौद्र युक्तः सर्वप्रमेहजित्
- हरिद्रा चूर्णयुक्तो वा रसो धात्र्! याः समाक्षिकः ७
- रक्तपित्तादिषु वासकस्वरसः
- वासकस्वरसः पेयो मधुना रक्तपित्तजित्
- ज्वरकासक्षयहरः कामलाश्लेष्मपित्तहा ८
- कामलायां त्रिफलाऽदीनां स्वरसचतुष्टयम्
- त्रिफलाया रसः क्षौद्र युक्तो दार्वीरसोऽथ वा
- निम्बस्य वा गुडूच्या वा पीतो जयति कामलाम् ९
- विषमज्वरे तुलसीद्रो णपुष्पीपत्रस्वरसौ
- पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
- द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् १०
- रक्तातीसारे जम्ब्वादिस्वरसः
- जम्ब्वाम्रामलकीनां च पल्लवोत्थो रसो जयेत्
- मध्वाज्यक्षीर संयुक्तो रक्तातीसारमुल्बणम् ११
- सर्वातिसारे निष्कण्टकबब्बूलदल कुटजादित्वक् स्वरसौ
- स्थूलबब्बूलिकापत्ररसः पानाद्व्यपोहति
- सर्वातिसारान्श्योनाककुटजत्वग्रसोऽथ वा १२
- वृषणवातप्रतिश्यायादिष्वार्द्र कस्वरसः
- आर्द्र कस्वरसः क्षौद्र युक्तो वृषणवातनुत्
- श्वासकासारुचीर्हन्ति प्रतिश्यायं व्यपोहति १३
- पार्श्वदिशूलादिषु बीजपूरस्वरसः
- बीजपूररसः पानान्मधुक्षारयुतो जयेत्
- पार्श्वहृद्वस्तिशूलानि कोष्ठवातं च दारुणम् १४
- पित्तशूले शतावरीस्वरसः प्लीहाऽपच्योः कन्यास्वरसश्च
- शतावर्याश्च मधुना पित्तशूलहरो रसः
- निशाचूर्णयुतः कन्यारसः प्लीहाऽपचीहरः १५
- अपच्यादावलम्बुषास्वरसः
- अलम्बुषायाः स्वरसः पीतो द्विपलमात्रया
- अपचीगण्डमालानां कामलायाश्च नाशनः १६
- सूर्यावर्त्तार्धभेदकयोर्मुण्डीस्वरसः
- शशमुण्ड्या रसः कोष्णो मरिचैरवधूलितः
- जयेत्सप्तदिनाभ्यासात्सूर्यावर्त्तार्धभेदकौ १७
- सर्वोन्मादे ब्राह्म्यादीनां स्वरसचतुष्टयम्
- ब्राह्मीकूष्माण्डषड्ग्रन्थाशङ्खिनीस्वरसाः पृथक्
- मधुकुष्ठयुताः पीताः सर्वोन्मादापहारिणः १८
- कोद्र वजमदे कूष्माण्डकस्वरसः
- कूष्माण्डकस्य स्वरसो गुडेन सह योजितः
- दुष्टकोद्र वसञ्जातमदं पानाद्व्यपोहति १९
- खड्गादिक्षतव्रणे गाङ्गेरुकीस्वरसः
- खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः
- गाङ्गेरुकीमूलरसैर्जायते गतवेदनः २०
- अथ पुटपाकप्रकरणम्
- तत्र पुटपाकविधिकथने हेतुः
- पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः
- अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया २१
- पुटपाकविधिः
- पुटपाकस्य मात्रेयं लेपस्याङ्गारवर्णता
- लेपं च द्व्यङ्गुलं स्थूलं कुर्याद्वाऽङगुष्ठमात्रकम् २२
- काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम्
- पलमात्रं रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत्
- कल्कचूर्णद्र वाद्यास्तु देयाः स्वरसवद् बुधैः २३
- सर्वातिसारे कुटजपुटपाकः
- तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा २४
- पिष्टां चतुष्पलमितो जम्बूपल्लववेष्टिताम्
- सूत्रेण बद्धां गोधूमपिष्टेन परिवेष्टिताम् २५
- लिप्तां च घनपङ्केन गोमयैर्वह्निना दहेत्
- अङ्गारवर्णां च मृदं दृष्ट्वा वह्नेः समुद्धरेत् २६
- ततो रसं गृहीत्वा च शीतं क्षौद्र युतं पिबेत्
- जयेत्सर्वानतीसारान्दुस्तरान्सुचिरोत्थितान् २७
- तण्डुलोदकविधिः
- कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत्
- भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु २८
- सर्वातिसारेऽरलूपुटपाकः
- अरलूत्वक्कृतश्चैव पुटपाकोऽग्निदीपनः
- मधुमोचरसाभ्यां च युक्तः सर्वातिसारनुत् २९
- सर्वातिसारे न्यग्रोधादितित्तिरपुटपाकः
- न्यग्रोधादेश्च कल्केन पूरयेद्गौरतित्तिरेः
- निरन्त्रमुदरं सम्यक्पुटपाकेन तत्पचेत्
- तत्कल्कस्य रसः क्षौद्र युक्तः सर्वातिसारनुत् ३०
- सर्वातिसारे दाडिमपुटपाकः
- पुटपाकेन विपचेत्सुपक्वं दाडिमीजलम्
- तद्र सो मधुसंयुक्तः सर्वातीसारनाशनः ३१
- छर्द्यां बीजपूरादिपुटपाकः
- बीजपूराम्रजम्बूनां पल्लवानि जटाः पृथक् ३२
- विपचेत्पुटपाकेन क्षौद्र युक्तश्च तद्र सः
- छर्दिं निवारयेद्धोरां सर्वदोषसमुद्भवाम् ३३
- रक्तपित्तादौ वासापुटपाकः
- पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
- मधुयुक्तो जयेद्र क्तपित्तकासज्वरक्षयान् ३४
- कासश्वासादौ कण्टकारीपुटपाकः
- पचेत्क्षुद्रा ं! सपञ्चाङ्गां पुटपाकेन तद्र सः
- पिप्पली चूर्णसंयुक्तः कासश्वासकफापहः ३५
- कासादौ बिभीतकपुटपाकः
- बिभीतकफलं किञ्चिद् घृतेनाभ्यज्य लेपयेत्
- गोधूमपिष्टेनाङ्गारैर्विपचेत्पुटपाकवत् ३६
- ततः पक्वं समुद्धृत्य त्वचं तस्य मुखे क्षिपेत्
- कासश्वासप्रतिश्यायस्वरभङ्गाञ्जयेत्ततः ३७
- आमातीसारे शुण्ठीपुटपाकः
- चूर्णं किञ्चिद् घृताभ्यक्तं शुण्ठ्या एरण्डजैर्दलैः
- वेष्टितं पुटपाकेन विपचेन्मन्दवह्निना ३८
- तत उद्धृत्य तच्चूर्णं ग्राह्य प्रातः सितासमम्
- येन यान्ति शमं पीडा आमातीसारसंभवाः ३९
- आमवातेऽन्य शुण्ठीपुटपाकः
- शुण्ठीकल्कं विनिक्षिप्य रसैरेरण्डमूलजैः
- विपचेत्पुटपाकेन तद्र सः क्षौद्र संयुतः
- आमवातसमुद्भूतां पीडां जयति दुस्तराम् ४०
- अर्शोरोगे सूरणपुटपाकः
- सौरणं कन्दमादाय पुटपाकेन पाचयेत्
- सतैललवणस्तस्य रसश्चार्शोविकारनुत् ४१
- हृच्छूले पुटपाकजमृगशृङ्गभस्म
- शरावसम्पुटे दग्धं शृङ्गं हरिणजं पिबेत्
- गव्येन सर्पिषा युक्तं हृच्छूलं नाशयेद् ध्रुवम् ४२
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्वरसादिकल्पना नाम प्रथमोऽध्यायः
क्वाथकल्पना
[सम्पाद्यताम्]- अथ क्वाथकल्पनानामद्वितीयोऽध्यायः
- क्वाथकल्पना
- पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत्
- मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम्
- तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम् १
- क्वाथपर्यायनामानि
- शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते २
- क्वाथपानसमयः
- आहाररसपाके च सञ्जाते द्विपलोन्मितम्
- वृद्धवैद्योपदेशेन पिबेत्क्वाथं सुपाचितम् ३
- क्वाथे सितामधुनोः प्रक्षेपपरिमाणम्
- क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः
- वातपित्तकफातंके विपरीतं मधु स्मृतम् ४
- चूर्णद्र व्याणां प्रक्षेपपरिमाणम्
- जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु
- हिङ्गु त्रिकटुकं चैव क्थाथे शाणोन्मितं क्षिपेत् ५
- द्र वद्र व्याणां प्रक्षेपपरिमाणम्
- क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा
- कल्कं चूर्णादिकं क्वाथे निक्षिपेत्कर्षसम्मितम् ६
- पाकसमये क्वाथपात्रपिधाननिषेधः
- सपिधानमुखे पात्रे जलं दुर्जरतां व्रजेत्
- तस्मादावरणं त्यक्त्वा क्वाथादीनां विनिश्चयः ७
- सर्वज्वरे दाहादौ च गुडूच्यादिक्वाथः
- गुडूचीधान्यकारिष्टरक्तचन्दनपद्मकैः
- गुडूच्यादिगणक्वाथः सर्वज्वरहरः स्मृतः
- दीपनो दाहहृल्लासतृष्णाच्छर्द्यरुचीर्जयेत् ८
- सर्वज्वरे नागरादिपाचनक्वाथः
- नागरं देवकाष्ठं च धान्यकं बृहतीद्वयम्
- दद्यात्पाचनकं पूर्वं ज्वरितानां ज्वरापहम् ९
- सर्वज्वरे क्षुद्रा दिक्वाथः
- क्षुद्रा किराततिक्तं च शुण्ठी छिन्ना च पौष्करम्
- कषाय एषां शमयेत्पीतश्चाष्टविधं ज्वरम् १०
- वातज्वरे क्वाथः
- गुडूच्यादि क्वाथः
- गुडूचीपिप्पलीमूलनागरैः पाचनं स्मृतम्
- दद्याद्वातज्वरे पूर्णलिङ्गे सप्तमवासरे ११
- शालपर्ण्यादिक्वाथः
- शालपर्णी बला द्रा क्षा गुडूची सारिवा तथा
- आसां क्वाथं पिबेत्कोष्णं तीव्रवातज्वरच्छिदम् १२
- काश्मर्यादिक्वाथः
- काश्मरीसारिवाद्रा क्षात्रायमाणाऽमृताभवः
- कषायः सगुडः पीतोवातज्वरविनाशनः १३
- पित्तज्वरे क्वाथाः
- कट्फलादिपाचनक्वाथः
- कट्फलेन्द्र यवापाठातिक्तामुस्तैः शृतं जलम्
- पाचनं दशमेऽह्नि स्यात्तीव्रे पित्तज्वरे नृणाम् १४
- पर्पटादिक्वाथः
- पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः १५
- प्रियङ्गुश्च कृतः क्वाथ एषां शर्करया युतः
- पिपासादाहपित्तास्रयुतं पित्तज्वरं जयेत् १६
- द्रा क्षादिक्वाथः
- द्रा क्षा हरीतकी मुस्तं कटुकी कृतमालकः
- पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः
- तृण्मूर्च्छादाहपित्तासृक्शमनो भेदनः स्मृतः १७
- पर्पटक्वाथप्रशंसौ तत्र विशेषश्च
- एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः
- किं पुनर्यदि युज्येत चन्दनोशीरबालकैः १८
- अथ कफज्वरे क्वाथाः
- तत्र बीजपूरकादिपाचनक्वाथः
- बीजपूरशिफापथ्यानागरग्रन्थिकैः शृतम्
- सक्षारं पाचनं श्लेष्मज्वरे द्वादशवासरे १९
- भूनिम्बादिक्वाथः
- भूनिम्बनिम्बपिप्पल्यः शटी शुण्ठी शतावरी
- गुडूची बृहती चेति क्वाथो हन्यात्कफज्वरम् २०
- पटोलादिक्वाथः
- पटोलत्रिफलातिक्ताशटीवासाऽमृताभवः
- क्वाथो मधुयुतः पीतो हन्यात्कफकृतं ज्वरम् २१
- अथ द्वन्द्वजज्वरे क्वाथाः
- तत्र वातपित्तज्वरे पञ्चभद्र क्वाथः
- पर्पटाब्दामृताविश्वकैरातैः साधितं जलम्
- पञ्चभद्र मिदं ज्ञेयं वातपित्तज्वरापहम् २२
- कफवातज्वरादौ लघुक्षुद्रा दिक्वाथः
- क्षुद्रा शुण्ठीगुडूचीनां कषायः पौष्करस्य च २३
- कफवाताधिके पेयो ज्वरे वाऽपि त्रिदोषजे
- कासश्वासारुचिकरे पार्श्वशूलविधायिनि २४
- वातकफज्वरे आरग्वधादिक्वाथः
- आरग्वधकणामूलमुस्तातिक्ताभयाकृतः
- क्वाथः शमयति क्षिप्रं ज्वरं वातकफोद्भवम्
- आमशूलप्रशमनो भेदी दीपनपाचनः २५
- पित्तश्लेष्मज्वरेऽमृताद्यष्टकक्वाथः
- अमृतारिष्टकटुकामुस्तेन्द्र यवनागरैः
- पटोलचन्दनाभ्यां च पिप्पलीचूर्णयुक्शृतम् २६
- अमृताष्टकमेतच्च पित्तश्लेष्मज्वरापहम्
- छर्द्यरोचकहृल्लासदाहतृष्णाविनाशनम् २७
- पित्तश्लेष्मज्वरादौ पटोलादिक्वाथः
- पटोलं चन्दनं मूर्वातिक्तापाठाऽमृतागणः
- पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहः २८
- सर्वज्वरे कण्टकार्यादिक्वाथः
- कण्टकारीद्वयं शुण्ठी धान्यकं सुरदारु च
- एभिः शृतं पाचनं स्यात्सर्वज्वरविनाशनम् २९
- अथ सन्निपातज्वरे क्वाथाः
- तत्र दशमूलक्वाथः
- शालिपर्णीपृश्निपर्णीबृहतीद्वयगोक्षुरैः ३०
- विल्वाग्निमन्थश्योनाककाश्मरीपाटलायुतैः
- दशमूलमिति ख्यातं क्वथितं तज्जलं पिबेत् ३१
- पिप्पलीचूर्णसंयुक्तं वातश्लेष्मज्वरापहम्
- सन्निपातज्वरहरं सूतिकादोषनाशनम् ३२
- हृत्कण्ठग्रहपार्श्वार्त्तितन्द्रा मस्तकशूलहृत् ३३
- अभयादिक्वाथः
- अभयामुस्तधान्याकरक्तचन्दनपद्मकैः
- वासकेन्द्र यवोशीरगुडूचीकृतमालकैः ३४
- पाठानागरतिक्ताभिः पिप्पलीचूर्णयुक्शृतम्
- पिबेत्त्रिदोषज्वरजित्पिपासाकासदाहनुत् ३५
- प्रलापश्वासतन्द्रा घ्नं दीपनं पाचनं परम्
- विण्मूत्रानिलविष्टम्भवमिशोषारुचिच्छिदम् ३६
- पिप्पल्यादिक्वाथः
- पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
- वचासातिविषाऽजाजीपाठावत्सकरेणुकैः ३७
- किराततिक्तकं मूर्वा सर्षपा मरिचानि च
- कटुकं पुष्करं भार्ङ्गी विडङ्गं कर्कटाह्वयम् ३८
- अर्कमूलं बृहत्सिंही श्रेयसी सदुरालभा
- दीप्यकं चाजमोदा च शुकनासादिहिङ्गुभिः ३९
- एतानि समभागानि गणोऽष्टाविंशको मतः
- कषायमुपभुञ्जीत वातश्लेष्मज्वरापहम् ४०
- हन्ति वातं तथा शीतं स्वेदजं प्रबलं कफम्
- प्रलापं चातिनिद्रा ं! च रोमहर्षारुची तथा ४१
- महावातेऽपतन्त्रे च सर्वगात्रे च शून्यताम्
- अयं सर्वज्वरान्हन्ति सन्निपातांस्त्रयोदश ४२
- अष्टादशाङ्गक्वाथः
- किरातकटुकीमुस्ताधान्येन्द्र यवनागरैः
- दशमूलमहादारुगजपिप्पलिकायुतैः ४३
- कृतः कषायः पार्श्वार्त्तिसन्निपातज्वरं जयेत्
- कासश्वासवमीहिक्कातन्द्रा हृद्ग्रहनाशनः ४४
- कट्फलादिक्वाथः
- कट्फलाम्बुदभार्ङ्गीभिर्धान्यरोहिषपर्पटैः
- वचा हरीतकीशृङ्गीदेवदारुमहौषधैः
- हिक्काकासं ज्वरं हन्ति श्वासश्लेष्मगलग्रहान् ४५
- जीर्णज्वरे गुडूचीक्वाथः पित्तज्वरे पर्पटक्वाथश्च
- क्वाथो जीर्णज्वरं हन्ति गुडूच्याः पिप्पलीयुतः ४६
- तथा पर्पटजः क्वाथः पित्तज्वरहरः परः
- किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ४७
- जीर्णज्वरे निदिग्धिकादिक्वाथः
- निदिग्धिकाऽमृताशुण्ठीकषायं पाययेद्भिषक्
- पिप्पलीचूर्णसंयुक्तं श्वासकासार्दितापहम्
- पीनसारुचिवैस्वर्यशूलाजीर्णज्वरच्छिदम् ४८
- प्रसूतिदोषे देवदार्वादिक्वाथः
- देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् ४९
- कट्फलंमुस्तभूनिम्बतिक्तधान्या हरीतकी
- गजकृष्णा च दुःस्पर्शा गोक्षुरुर्धन्वयासकम् ५०
- बृहत्यतिविषा छिन्ना कर्कटं कृष्णजीरकम्
- क्वाथमष्टावशेषं तु प्रसूतां पाययेत्स्त्रियम्
- शूलकासज्वरश्वासमूर्च्छाकम्पशिरोर्त्तिजित् ५१
- अथ विषमज्वरे क्वाथाः
- तत्र शीतपूर्वविषमज्वरे बृहत्क्षुद्रा दिक्वाथः
- क्षुद्रा धान्यकशुण्ठीभिर्गुडूचीमुस्तपद्मकैः
- रक्तचन्दनभूनिम्बपटोलवृषपौष्करैः ५२
- कटुकेन्द्रा यवारिष्टभार्ङ्गीपर्पटकैः समैः
- क्वाथं प्रातर्निषेवेत सर्वशीतज्वरच्छिदम् ५३
- विषमज्वरे मुस्तादिक्वाथः
- मुस्ताक्षुद्रा मृताशुण्ठीधात्रीक्वाथः समाक्षिकः
- पिप्पलीचूर्णसंयुक्तो विषमज्वरनाशनः ५४
- सन्ततादिज्वरे पटोलादिक्वाथः
- पटोलेन्द्र यवादारुत्रिफलामुस्तगोस्तनैः
- मधुकामृतवासानां क्वाथं क्षौद्र युतं पिबेत् ५५
- सन्तते सतते चैव द्वितीयकतृतीयके
- एकाहिके वा विषमे दाहपूर्वे नवज्वरे ५६
- एकाहिकज्वरे पटोलादिक्वाथः
- पटोलत्रिफलानिम्बद्रा क्षाशम्याकवासकैः
- क्वाथः सितामधुयुतो जयेदैकाहिकं ज्वरम् ५७
- तृतीयकज्वरे गुडूच्यादिक्वाथः
- गुडूचीधान्यमुस्ताभिश्चन्दनोशीरनागरैः ५८
- कृतं क्वाथं पिबेत्क्षौद्र सितायुक्तं ज्वरातुरः
- तृतीयज्वरनाशाय तृष्णादाहनिवारणम् ५९
- चातुर्थिकज्वरे देवदार्वादिक्वाथः
- देवदारुशिवावासाशालिपर्णीमहौषधैः
- चातुर्थिकज्वरे श्वासे कासे मन्दानले तथा
- धात्रीयुतं शृतं शीतं दद्यान्मधुसितायुतम् ६०
- ज्वरातीसारे गुडूच्यादिक्वाथः
- गुडूचीधान्यकोशीरशुण्ठीबालकपर्पटैः
- बिल्वप्रतिविषापाठारक्तचन्दनवत्सकैः ६१
- किरातमुस्तेन्द्र यवः क्वथितं शिशिरं पिबेत्
- सक्षौद्रं रक्तपित्तघ्नं ज्वरातीसारनाशनम् ६२
- नागरादिक्वाथः
- नागरं कुटजो मुस्तं भूनिम्बातिविषाऽमृताः
- एभिः कृतं पिबेत्क्वाथं ज्वरातीसारनाशनम् ६३
- आमशूले धान्यपञ्चकक्वाथः
- धान्यबालक बिल्वाब्दनागरैः साधितं जलम्
- आमशूलहरं ग्राहि दीपनं पाचनं परम् ६४
- आमवाते धान्यनागरजक्वाथः
- धान्यनागरजः क्वाथः पाचनो दीपनस्तथा
- एरण्डमूलयुक्तश्च जयेदामानिलव्यथाम् ६५
- सामरक्तातीसारे वत्सकादिक्वाथः
- वत्सकातिविषाबिल्वमुस्तबालकजः शृतः
- अतीसारं जयेत्सामं चिरजं रक्तशूलजित् ६६
- सर्वातीसारे कुटजाष्टकक्वाथः
- कुटजातिविषापाठाधातकीलोध्रमुस्तकैः
- ह्रीबेरदाडिमयुतैः कृतः क्वाथः समाक्षिकः ६७
- पेयो मोचरसेनैव कुटजाष्टकसंज्ञकः
- अतीसाराञ्जयेद्दाहरक्तशूलामदुस्तरान् ६८
- चिरजातीसारे ह्रीबेरादिक्वाथः
- ह्रीबेरधातकीलोध्रपाठालज्जालुवत्सकैः
- धान्यकातिविषामुस्तागुडूचीबिल्वनागरैः ६९
- कृतः कषायः शमयेदतीसारं चिरोत्थितम्
- अरोचकामशूलास्रज्वरघ्नः पाचनः स्मृतः ७०
- बालातिसारे धातक्यादिक्वाथः
- धातकी बिल्वरोध्राणि बालकं गजपिप्पली
- एभिः कृतं शृतं शीतं शिशुभ्यः क्षौद्र संयुतम्
- प्रदद्यादवलेहं वा सर्वातीसारशान्तये ७१
- वातजग्रहण्यां शालिपर्ण्यादिक्वाथः
- शालिपर्णीबलाबिल्वधान्यशुण्ठीकृतः शृतः
- आध्मानशूलसहितां वातजां ग्रहणीं जयेत् ७२
- सामग्रहण्यां चातुर्भद्र कक्वाथः
- गुडूच्यतिविषाशुण्ठीमुस्तैः क्वाथः कृतो जयेत्
- आमानुषक्तां ग्रहणीं ग्राही पाचनदीपनः७३
- सर्वातिसारेष्विन्द्र यवादिक्वाथः
- यवधान्यपटोलानां क्वाथः सक्षौद्र शर्करः
- योज्यः सर्वातिसारेषु बिल्वाम्रास्थिभवस्तथा ७४
- कृमिरोगे त्रिफलादिक्वाथः
- त्रिफला देवदारुश्च मुस्ता मूषकपर्णिका
- शिग्रुरेतैः कृतः क्वाथः पिप्पलीचूर्णसंयुतः ७५
- विडङ्गचूर्णयुक्तश्च कृमिघ्नःकृमिरोगहा ७६
- कामलादौ फलत्रिकादिक्वाथः
- फलत्रिकामृतातिक्तानिम्बकैरातवासकैः
- जयेन्मधुयुतः क्वाथः कामलां पाण्डुतां तथा ७७
- पाण्डुशोथादौ पुनर्नवादिक्वाथः
- पुनर्नवाऽभयानिम्बदार्वीतिक्तापटोलकैः ७८
- गुडूचीनागरयुतैः क्वाथो गोमूत्रसंयुतः
- पाण्डुकासोदरश्वासशूलसर्वाङ्गशोथहा ७९
- रक्तपित्तादौ वासादिक्वाथः
- वासाद्रा क्षाऽभयाक्वाथः पीतः सक्षौद्र शर्करः
- निहन्ति रक्तपित्तार्त्तिश्वासकासान्सुदारुणान् ८०
- रक्तपित्तादौ वासकक्वाथः
- रक्तपित्तक्षयं कासं श्लेष्मपित्तज्वरं तथा
- केवलो वासकक्वाथः पीतः क्षौद्रे ण नाशयेत् ८१
- कासे क्वाथद्वयम्
- वासाक्षुद्रा ऽमृताक्वाथः क्षौद्रे ण ज्वरकासहा
- कासघ्नःपिप्पलीचूर्णयुक्तः क्षुद्रा शृतस्तथा ८२
- श्वासकासयोः क्षुद्रा दिक्वाथः
- क्षुद्रा कुलत्थवासाभिर्नागरेण च साधितः
- क्वाथः पुष्करचूर्णाढ्य श्वासकासौ निवारयेत् ८३
- रेणुकादिक्वाथः
- रेणुकापिप्पलीक्वाथो हिङ्गुकल्केन संयुतः
- पानादेव हि पञ्चापि हिक्कां नाशयति क्षणात् ८४
- छर्द्यां क्वाथत्रयम्
- बिल्वत्वचोगुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
- जयेत्त्रिदोषजां छर्दिं पर्पटः पित्तजां तथा ८५
- गृध्रस्यां क्वाथद्वयम्
- हिङ्गुपुष्करचूर्णाढ्यं दशमूलशृतं जयेत्
- गृध्रसीं केवलः क्वाथः शेफालीपत्रजस्तथा ८६
- सप्तधातुगतवाते रास्नापञ्चकक्वाथः
- रास्नाऽमृतामहादारुनागरैरण्डजैः शृतम्
- सप्तधातुगते वाते सामे सर्वाङ्गजे पिबेत् ८७
- जङ्घावातादौ रास्नासप्तकक्वाथः
- रास्नागोक्षुरकैरण्डदेवदारुपुनर्नवा
- गुडूच्यारग्वधश्चैव क्वाथमेषां विपाचयेत् ८८
- शुण्ठीचूर्णेन संयुक्तं पिबेज्जङ्घाकटीग्रहे
- पार्श्वपृष्ठोरुपीडायामामवाते सुदुस्तरे ८९
- सर्ववातरोगे महारास्नादिक्वाथः
- रास्ना द्विगुणभागा स्यादेकभागास्ततः परे
- धन्वयासबलैरण्डदेवदारुशटीवचाः ९०
- वासको नागरं पथ्या चव्या मुस्ता पुनर्नवा
- गुडूची वृद्धदारुश्च शतपुष्पा च गोक्षुरः ९१
- अश्वगन्धा प्रतिविषा कृतमालः शतावरी
- कृष्णा सहचरश्चैव धान्यकं बृहतीद्वयम् ९२
- एभिः कृतं पिबेत्क्वाथं शुण्ठीचूर्णेन संयुतम्
- कृष्णाचूर्णेन वा योगराजगुग्गुलुनाऽथवा ९३
- अजमोदादिना वाऽपि तैलेनैरण्डजेन वा
- सर्वाङ्गकम्पे कुब्जत्वे पक्षाघातेऽवबाहुके ९४
- गृध्रस्यामामवाते च श्लीपदे चापतानके
- अन्त्रवृद्धौ तथाऽध्माने जङ्घाजानुगतेऽदिते ९५
- शुक्रामये मेढ्ररोगे वन्ध्यायोन्यामयेषु च
- महारास्नादिराख्यातो ब्रह्मणा गर्भकारणम् ९६
- स्तनादिगतवाते एरण्डसप्तकक्वाथः
- एरण्डो बीजपूरश्च गोक्षुरो बृहतीद्वयम्
- अश्मभेदस्तथा बिल्व एतन्मूलैः कृतः शृतः ९७
- एरण्डतैलहिङ्ग्वाढ्यः सयवक्षारसैन्धवः
- स्तनस्कन्धकटी मेढ्रहृदयोत्थां व्यथां जयेत् ९८
- वातशूले नागरादीन्द्र यवयोः क्वाथौ
- नागरैरण्डजः क्वाथः क्वाथ इन्द्र यवस्य च
- हिंगुसौवर्चलोपेतो वातशूलनिवारणः ९९
- पित्तशूले त्रिफलादिक्वाथः
- त्रिफलाऽरग्वधक्वाथः शर्कराक्षौद्र संयुतः
- रक्तपित्तहरो दाहपित्तशूलनिवारणः १००
- कफशूले एरण्डक्वाथः
- एरण्डमूलं द्विपलं जलेऽष्टगुणिते पचेत्
- तत्क्वाथो यावशूकाढ्यः पार्श्वहृत्कफशूलहा १०१
- हृद्रो गादौ दशमूलक्वाथः
- दशमूलकृतः क्वाथः सयवक्षारसैन्धवः
- हृद्रो गगुल्मशूलानि कासं श्वासं च नाशयेत् १०२
- मूत्रकृच्छ्रादौ हरीतक्यादिक्वाथः
- हरीतकीदुरालम्भाकृतमालकगोक्षुरैः
- पाषाणभेदसहितैः क्वाथो माक्षिकसंयुतः
- विबन्धे मूत्रकृच्छ्रे च सदाहे सरुजे हितः १०३
- अश्मरीरोगादौ वीरतर्वादिगणक्वाथः
- वीरतरुर्वृक्षवन्दा काशः सहचरत्रयम्
- कुशद्वयं नलो गुन्द्रा बकपुष्पोऽग्निमन्थकः १०४
- मूर्वा पाषाणभेदश्च स्योनाको गोक्षुरस्तथा
- अपामार्गश्च कमलं ब्राह्मी चेति गणो वरः १०५
- वीरतर्वादिरित्युक्तः शर्कराऽश्मरिकृच्छ्रहा
- मूत्राघातं वायुरोगान्नाशयेन्निखिलानपि १०६
- शर्कराऽश्मर्यादौ एलादिक्वाथः
- एलामधुकगोकण्टरेणुकैरण्डवासकाः १०७
- कृष्णाऽश्मभेदसहिताः क्वाथ एषां सुसाधितः
- शिलाजतुयुतः पेयः शर्कराऽश्मरिकृच्छ्रहा १०८
- मूत्रकृच्छ्रादौ गोक्षुरक्वाथः
- समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः
- नाशयेन्मूत्रकृच्छ्राणि तथा चोष्णसमीरणम् १०९
- अथ प्रमेहे क्वाथाः
- वरादिः वत्सकादिक्वाथौ
- वरादार्व्यब्ददारूणां क्वाथः क्षौद्रे ण मेहहा
- वत्सकत्रिफलादार्वीमुस्तको बीजकस्तथा ११०
- फलत्रिकादिक्वाथः
- फलत्रिकाब्ददार्वीणां विशालायाः शृतं पिबेत्
- निशाकल्कयुतं सर्वप्रमेहविनिवृत्तये १११
- प्रदरे दार्व्यादिक्वाथः
- दार्वी रसाञ्जनं मुस्तं भल्लातः श्रीफलं वृषः
- कैरातश्च पिबेदेषां क्वाथं शीतं समाक्षिकम्
- जयेत्सशूलं प्रदरं पीतश्वेतासितारुणम् ११२
- योनिरोगव्रणादौ न्यग्रोधादिक्वाथः
- न्यग्रोधप्लक्षकोशाम्रवेतसा बदरी तुणिः
- मधुयष्टी प्रियालश्च लोध्रद्वयमुदुम्बरः ११३
- पिप्पलश्च मधूकश्च तथा पारिसपिप्पलः
- शल्लकी तिन्दुकी जम्बूद्वयमाम्रतरुः शिवा ११४
- कदम्बककुभौ चैव भल्लातकफलानि च
- न्यग्रोधादिगणक्वाथं यथालाभं च कारयेत् ११५
- अयं क्वाथो महाग्राही व्रण्यो भग्नं च साधयेत्
- योनिदोषहरो दाहमेदोमेहविषापहः ११६
- अथ मेदोदोषे योगत्रयम्
- बिल्वोऽग्निमन्थः स्योनाकः काश्मरी पाटला तथा
- क्वाथ एषां जयेन्मेदोदोषं क्षौद्रे ण संयुतः ११७
- क्षौद्रे ण त्रिफलाक्वाथः पीतो मेदोहरः स्मृतः
- शीतीभूतं तथोष्णाम्बु मेदोहृत्क्षौद्र संयुतम् ११८
- उदररोगे चव्यादिक्वाथः
- चव्यचित्रकविश्वानां साधितो देवदारुणा
- क्वाथस्त्रिवृच्चूर्णयुतो गोमूत्रेणोदराञ्जयेत् ११९
- शोथोदरे पुनर्नवाऽदिक्वाथः
- पुनर्नवाऽमृतादारुपथ्यानागरसाधितः
- गोमूत्रगुग्गुलुयुतः क्वाथः शोथोदरापहः १२०
- यकृत्प्लीहगुल्मोदरे पथ्याऽदिक्वाथः
- पथ्यारोहितकक्वाथं यवक्षारकणायुतम्
- पिबेत्प्रातर्यकृत्प्लीहगुल्मोदरनिवृत्तये १२१
- शोथे पुनर्नवादिक्वाथः
- पुनर्नवा दारुनिशा निशा शुण्ठी हरीतकी १२२
- गुडूची चित्रको भार्ङ्गी देवदारु च तैः शृतः
- पाणिपादोदरमुखप्राप्तं शोफं निवारयेत् १२३
- वृषणशोथे फलत्रिकक्वाथः
- फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव पाययेत्
- वातश्लेष्मकृतं हन्ति शोथं वृषणसम्भवम् १२४
- अन्त्रवृद्धौ रास्नादिक्वाथः
- रास्नाऽमृताबलायष्टीगोकण्टैरण्डजः शृतः
- एरण्डतैलसंयुक्तो वृद्धिमन्त्रभवां जयेत् १२५
- गण्डामालायां काञ्चनारत्वक्क्वाथः
- काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन नाशयेत्
- गण्डमालां तथा क्वाथः क्षौद्रे ण वरुणत्वचः १२६
- श्लीपदमेदोरोगयोः शाखोटकत्वक्क्वाथः
- शाखोटवल्कलक्वाथं गोम्रूत्रेण युतं पिबेत्
- श्लीपदानां विनाशाय मेदोदोषनिवृत्तये १२७
- अन्तर्विद्र धौ क्वाथद्वयम्
- पुनर्नवावरुणयोः क्वाथोऽन्तर्विद्र धीञ्जयेत्
- तथा शिग्रुभवः क्वाथो हिङ्गुसैन्धवसंयुतः १२८
- अपक्वान्तर्विद्र धौ वरुणादिगणक्वाथः
- वरुणादिगणक्वाथमपक्वे मध्यविद्र धौ
- ऊषकादिरजोयुक्तं पिबेच्छमनहेतवे १२९
- वरुणादिगणः
- वरुणो बकपुष्पश्च बिल्वापामार्गचित्रकाः
- अग्निमन्थद्वयं शिग्रुद्वयं च बृहतीद्वयम् १३०
- सैरेयकत्रयं मूर्वा मेषशृङ्गी किरातकः
- अजशृङ्गी च बिम्बी च करञ्जश्च शतावरी १३१
- वरुणादिगणक्वाथः कफमेदोहरः स्मृतः
- हन्ति गुल्मं शिरः शूलन्तथाभ्यन्तरविद्र धीन् १३२
- भगन्दरे खदिरादिक्वाथः
- खदिरत्रिफलाक्वाथो महिषीघृतसंयुतः
- विडङ्गचूर्णयुक्तश्च भगन्दरविनाशनः १३३
- उपदंशे पटोलादिक्वाथः
- पटोलत्रिफलानिम्बकिरातखदिरासनैः
- क्वाथः पीतो जयेत्सर्वानुपदंशान्सगुग्गुलुः १३४
- वातरक्तेऽमृतादिक्वाथः
- अमृतैरण्डवासानां क्वाथ एरण्डतैलयुक्
- पीतः सर्वाङ्गसञ्च्रारिवातरक्तं जयेद् ध्रुवम् १३५
- वातरक्ते पटोलादिक्वाथः
- पटोलं त्रिफला तिक्ता गुडूची च शतावरी
- एतत्क्वाथो जयेत्पीतो वातास्रं दाहसंयुतम् १३६
- श्वेतकुष्ठेऽवल्गुजचूर्णयुग्धात्र्! यादिक्वाथः
- क्वाथोऽवल्गुजचूर्णाढ्यो धात्रीखदिरसारयोः
- जयेत्सुशीलितो नित्यं श्वित्रं पथ्याशिनां नृणाम् १३७
- वातरक्तकुष्ठादौ लघुमञ्जिष्ठाऽदिक्वाथः
- मञ्जिष्ठा त्रिफला तिक्ता वचा दारुनिशाऽमृता
- निम्बश्चैषां कृतः क्वाथो वातरक्तविनाशनः
- पामाकपालिकाकुष्ठरक्तमण्डलजिन्मतः १३८
- सर्वकुष्ठे बृहन्मञ्जिष्ठादिक्वाथः
- मञ्जिष्ठामुस्तकुटजगुडूचीकुष्ठनागरैः
- भार्ङ्गीक्षुद्रा वचानिम्बनिशाद्वयफलत्रिकैः १३९
- पटोलकटुकीमूर्वाविडङ्गासनचित्रकैः
- शतावरीत्रायमाणाकृष्णेन्द्र यववासकैः १४०
- भृङ्गराजमहादारुपाठाखदिरचन्दनैः
- त्रिवृद्वरुणकैरातवाकुचीकृतमालकैः १४१
- शाखोटकमहानिम्बकरञ्जातिविषाजलैः
- इन्द्र वारुणिकानन्तासारिवापर्पटैः समैः १४२
- एमिः कृतं पिबेत्क्वाथं कणागुग्गुलुसंयुतम्
- अष्टादशसु कुष्ठेषु वातरक्तार्दिते तथा १४३
- उपदंशे श्लीपदे च प्रसुप्तौ पक्षघातके
- मेदोदोषे नेत्ररोगे मञ्जिष्ठादिः प्रशस्यते १४४
- शिरोरोगे नेत्ररोगादौ च पथ्यादिषडङ्गक्वाथः
- पथ्याऽक्षधात्रीभूनिम्बनिशानिम्बामृतायुतैः १४५
- कृतः क्वाथः षडङ्गोऽय सगुडः शीर्षशूलहृत्
- भ्रूशङ्खकर्णशूलानि तथाऽधशिरसो रुजम् १४६
- सूर्यावर्त्तं शङ्खकं च दन्तपातं च तद्रुजम्
- नक्तान्ध्यं पटलं शुक्रं चक्षुःपीडां व्यपोहति १४७
- नेत्ररोगे वासादिक्वाथः
- वासाविश्वामृतादार्वीरक्तचन्दनचित्रकैः
- भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः १४८
- यवकालिङ्गकुटजैः क्वाथः सर्वाक्षिरोगहा
- वैस्वर्यं पीनसं श्वासं नाशयेदुरसः क्षतम् १४९
- नेत्ररोगेऽमृतादिक्वाथः
- अमृतात्रिफलाक्वाथः पिप्पलीचूर्णसंयुतः
- सक्षौद्र ः! शीलितो नित्यं सर्वनेत्रव्यथां जयेत् १५०
- व्रणक्षालनादौ पञ्चवल्कलक्वाथः
- अश्वत्थोदुम्बरप्लक्षवटवेतसजं शृतम्
- व्रणशोथोपदंशानां नाशनं क्षालनात्स्मृतम् १५१
- अथ प्रमथ्याऽदिकषायभेदानाह
- तत्र प्रमथ्यापरिभाषा
- प्रमथ्या प्रोच्यते द्र व्यपलात्कल्कीकृताच्छृतात्
- तोयेऽष्टगुणिते यस्याः पानमाहुः पलद्वयम् १५२
- रक्तातिसारे मुस्तकादिप्रमथ्या
- मुस्तकेन्द्र यवैः सिद्धा प्रमथ्या द्विपलोन्मिता
- सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी १५३
- यवागूपरिभाषा
- साध्यं चतुष्पलं द्र व्यं चतुःषष्टिपले जले
- तत्क्वाथेनार्धशिष्टेन यवागूं साधयेद्घनाम् १५४
- ग्रहण्यामाम्रादियवागूः
- आम्राम्रातकजम्बूत्वक्कषाये विपचेद् बुधः
- यवागूं शालिभिर्युक्तां तां भुक्त्वा ग्रहणीं जयेत् १५५
- यूषपरिभाषा
- कल्कद्र व्यपलं शुण्ठी पिप्पली चार्धकार्षिकी
- वारिप्रस्थेन विपचेत्स द्र वो यूष उच्यते १५६
- सन्निपातादौ सप्तमुष्टिकयूषः
- कुलत्थयवकोलैश्च मुद्गैर्मूलकग्रन्थिकैः
- शुण्ठीधान्याकयुक्तैश्च यूषः श्लेष्मानिलापहः १५७
- सप्तमुष्टिक इत्येष सन्निपातज्वरं जयेत्
- आमवातहरः कण्ठहृद्वक्त्राणां विशोधनः १५८
- पानादिकल्पना
- क्षुण्णं द्र व्यपलं साध्यं चतुःषष्टिपले जले
- अर्द्धशिष्टं च तद्देयं पाने भक्तादिसंविधौ १५९
- पिपासाज्वरघ्नषडङ्गपानम्
- उशीरपर्पटोदीच्यमुस्तनागरचन्दनैः
- जलं शृतं हिमं पेयं पिपासाज्वरनाशनम् १६०
- उष्णोदकविधिः
- अष्टमेनांशशेषेण चतुर्थेनार्धकेन वा
- अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् १६१
- उष्णोदकसमयः
- श्लेष्मामवातमेदोघ्नं बस्तिशोधनदीपनम्
- कासश्वासज्वरहरं पीतमुष्णोदकं निशि १६२
- क्षीरपाकविधिः
- क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम्
- क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् १६३
- पञ्चमूलीशृतपयः
- सिर्वज्वराणां जीर्णानां क्षीरं भैषज्यमुत्तमम्
- श्वासात्कासाच्छिरः शूलात्पार्श्वशूलात्सपीनसात्
- मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः १६४
- त्रिकण्टकादिशृतपयः
- त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्
- वर्चोमूत्रविबन्धघ्नं कफज्वरहरं पयः १६५
- अन्नप्रक्रिया तत्र यवागूकृशरासाधनविधिः
- अथान्नप्रक्रियाऽत्रैव प्रोच्यते नातिविस्तरा
- यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना १६६
- तण्डुलैर्मुद्गमाषैश्च तिलैर्वा साधिता हिता
- यवागूर्ग्राहिणीबल्या तर्पणी वातनाशिनी १६७
- विलेपीसाधनविधिः
- विलेपी घनसिक्था स्यात्सिद्धा नीरे चतुर्गुणे
- बृंहणी तर्पणी हृद्या मधुरा पित्तनाशिनी १६८
- पेयायूषसाधनविधिः
- द्र वाधिका स्वल्पसिक्था चतुर्दशगुणे जले
- सिद्धा पेया बुधैर्ज्ञेया यूषः किञ्चिद् घनः स्मृतः १६९
- पेयायूषयोर्गुणाः
- पेया लघुतराज्ञेया ग्राहिणी धातुपुष्टिदा
- यूषो बल्यस्ततः कण्ठ्यो लघुपाकः कफापहः १७०
- भक्तसाधनविधिः
- जले चतुर्दशगुणे तण्डुलानां चतुष्पलम्
- विपचेत्स्रावयेन्मण्डं स भक्तो मधुरो लघुः १७१
- मण्डसाधनविधिः
- नीरे चतुर्दशगुणे सिद्धो मण्डस्त्वसिक्थकः
- शुण्ठीसैन्धवसंयुक्तः पाचनो दीपनः परः १७२
- अष्टगुणमण्डः
- धान्यत्रिकटुसिन्धूत्थमुद्गतण्डुलयोजितः
- भृष्टश्च हिङ्गुतैलाभ्यां स मण्डोऽष्टगुणः स्मृतः १७३
- दीपनः प्राणदो बस्तिशोधनो रक्तवर्धनः
- ज्वरजित्सर्वदोषघ्नो मण्डोऽष्टगुण उच्यते १७४
- वाट्यमण्डः
- सुकण्डितैस्तथा भृष्टैर्वाट्यमण्डो यवैर्भवेत्
- कफपित्तहरः कण्ठ्यो रक्तपित्तप्रसादनः १७५
- लाजमण्डः
- लाजैर्वा तण्डुलैभृष्टैर्लाजमण्डः प्रकीर्त्तितः
- श्लेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मतः १७६
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे क्वाथकल्पना नामद्वितीयोऽध्यायः
फाण्टादिकल्पना
[सम्पाद्यताम्]- अथ फाण्टादिकल्पना नाम तृतीयोऽध्यायः
- फाण्टकल्पना
- क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्
- मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् १
- स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्
- सितामधुगुडादींश्च क्वाथवत्तत्र निक्षिपेत् २
- वातपित्तज्वरादौ बृहन्मधूकपुष्पादिफाण्टः
- मधूकपुष्पं मधुकं चन्दनं सपरूषकम्
- मृणालं कमलं लोध्रं गम्भारीं नागकेशरम् ३
- त्रिफलां सारिवां द्रा क्षां लाजान्कोष्णजले क्षिपेत्
- सितामधुयुतः पेयः फाण्टो वाऽसौ हिमोऽथवा ४
- वातपित्तज्वरं दाहं तृष्णामूर्च्छाऽरतिभ्रमान्
- रक्तपित्तं मदं हन्यान्नात्र कार्या विचारणा ५
- ज्वरादावाम्रादिफाण्टः
- आम्रजम्बूकिसलयैर्वटशुङ्गप्ररोहकैः
- उशीरेण कृतः फाण्टः सक्षौद्रो ज्वरनाशनः
- पिपासाच्छर्द्यतीसारान्मूर्च्छां जयति दुस्तराम् ६
- दाहपित्तादौ लघुमधूकपुष्पादिफाण्टः
- मधूकपुष्पगम्भारीचन्दनोशीरधान्यकैः ७
- द्रा क्षया च कृतः फाण्टः शीतः शर्करया युतः
- तृष्णापित्तहरः प्रोक्तो दाहमूर्च्छाभ्रमाञ्जयेत् ८
- मन्थविधिः
- मन्थोऽपि फाण्टभेदः स्यात्तेन चात्रैव कथ्यते
- जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्
- मृत्पात्रे मन्थयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ९
- मदात्ययादौ खर्जूरादिमन्थः
- खर्जूरदाडिमीद्रा क्षातिन्तिडीकाम्लिकामलैः
- सपरूषैः कृतो मन्थः सर्वमद्यविकारनुत् १०
- छर्द्यां मसूरादिमन्थः
- क्षौद्र युक्ता मसूराणां सक्तवो दाडिमाम्भसा
- मथिता वारयन्त्याशु छर्दिं दोषत्रयोद्भवाम् ११
- तृष्णादाहादौ यवसक्तुमन्थः
- प्लावितैः शीतनीरेण सघृतैर्यवसक्तुभिः
- नातिसान्द्र द्र वो मन्थस्तृष्णादाहास्रपित्तहा १२
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे फाण्टादिकल्पना नाम तृतीयोऽध्यायः
हिमकल्पना
[सम्पाद्यताम्]- अथ हिमकल्पना नाम चतुर्थोऽध्यायः
- हिमकल्पना
- क्षुण्णं द्र व्यपलं सम्यक्षड्भिर्नीरपलैः प्लुतम्
- निशोषितं हिमः स स्यात्तथा शीतकषायकः
- तन्मानं फाण्टवज्ज्ञेयं सर्वत्रैवैष निश्चयः १
- रक्तपित्ते आम्रादिहिमः
- आम्रं जम्बूं च ककुभं चूर्णीकृत्य जले क्षिपेत्
- हिमं तस्य पिबेत्प्रातः सक्षौद्रं रक्तपित्तजित् २
- तृष्णादौ मरीच्यादिहिमः
- मरिचं मधुयष्टी च काकोदुम्बरपल्लवाः
- नीलोत्पलं हिमस्तज्जस्तृष्णाच्छर्दिनिवारणः ३
- वातपित्तज्वरादौ नीलोत्पलादिहिमः
- नीलोत्पलं बला द्रा क्षा मधूकं मधुकं तथा
- उशीरं पद्मकं चैव काश्मरी च परूषकम् ४
- एष शीतकषायश्च वातपित्तज्वराञ्जयेत्
- सप्रलापभ्रमच्छर्दिमोहतृष्णानिवारणः ५
- जीर्णज्वरे गुडूचीहिमो रक्तपित्ते वासाहिमश्च
- अमृताया हिमः पेयो जीर्णज्वरहरः स्मृतः
- वासायाश्च हिमः कासं रक्तपित्तज्वराञ्जयेत् ६
- अन्तर्दाहादौ धान्याकहिमः
- प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः
- अन्तर्दाहं तथा तृष्णां जयेत्स्रोतोविशोधनः ७
- रक्तपित्तादौ धान्यकादिहिमः
- धान्याकधात्रीवासानां द्रा क्षापर्पटयोर्हिमः
- रक्तपित्तं ज्वरं दाहं तृष्णां शोषं च नाशयेत् ८
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे हिमकल्पना नाम चतुर्थोऽध्यायः
कल्ककल्पना
[सम्पाद्यताम्]- अथ कल्ककल्पनानाम पञ्चमोऽध्यायः
- कल्ककल्पना
- द्रव्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत्
- प्रक्षेपावापकल्कास्ते तन्मानं कर्षसंमितम् १
- कल्के मधु घृतं तैलं देयं द्विगुणमात्रया
- सिता गुडं समं दद्याद् द्र वा देयाश्चतुर्गुणाः २
- वर्द्धमानपिप्पलीविधिः
- त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याऽथवा कणाः
- पिबेत्पिष्ट्वा दशदिनं तास्तथैवापकर्षयेत् ३
- एवं विंशद्दिनैः सिद्धं पिप्पलीवर्द्धमानकम्
- अनेन पाण्डुवातास्रकासश्वासारुचिज्वराः
- उदरार्शः क्षयश्लेष्मवाता नश्यन्त्युरोग्रहाः ४
- निम्बकल्को व्रणच्छर्द्यादौ
- लेपान्निम्बदलैः कल्को व्रणशोधनरोपणः
- भक्षणाच्छर्दिकुष्ठानि पित्तश्लेष्मकृमीञ्जयेत् ५
- महानिम्बकल्को गृध्रस्याम्
- महानिम्बजटाकल्को गृध्रसीनाशनः स्मृतः ६
- रसोनकल्को वातरोगविषमज्वरादिषु
- शुद्धः कल्को रसोनस्य तिलतैलेन मिश्रितः
- वातरोगाञ्जयेत्तीव्रान्विषमज्वरनाशनः ७
- द्वितीयो रसोनकल्को वातव्याधौ
- पक्वकन्दरसोनस्य गुलिका निस्तुषीकृता
- पाटयित्वा च मध्यस्थं दूरीकुर्यात्तदङ्कुरम् ८
- तदुग्रगन्धनाशाय रात्रौ तक्रे विनिक्षिपेत्
- अपनीय च तन्मध्याच्छिलायां पेषयेत्ततः ९
- तन्मध्ये पञ्चमांशेन चूर्णमेषां विनिक्षिपेत्
- सौवर्चलं यवानीं च भर्जितं हिङ्गुसैन्धवम् १०
- कटुत्रिकं जीरकं च समभागानि चूर्णयेत्
- एकीकृत्य ततः सर्वं कल्कं कर्षप्रमाणतः ११
- खादेदग्निबलापेक्षी ऋतुदोषाद्यपेक्षया
- अनुपानं ततः कुर्यादेरण्डशृतमन्वहम् १२
- सर्वाङ्गैकाङ्गजं वातमर्दितं चापतन्त्रकम्
- अपस्मारमथोन्मादमूरुस्तम्भं च गृध्रसीम् १३
- उरःपृष्ठकटीपार्श्वकुक्षिपीडां क्रिमीञ्जयेत्
- अजीर्णमातपं रोषमतिनीरं पयो गुडम् १४
- रसोनमश्नन्पुरुषस्त्यजेदेतन्निरन्तरम्
- मद्यं मासं तथाऽम्ल च रसं सेवेत नित्यशः १५
- पिप्पल्यादिकल्क ऊरुस्तम्भे
- पिप्पली पिप्पलीमूलं भल्लातकफलानि च
- एतत्कल्कश्च सक्षौद्र ऊरुस्तम्भनिवारणः १६
- विष्णुक्रान्ताकल्कः परिणामशूले
- विष्णुक्रान्ताजटाकल्कः सिताक्षौद्र घृतैर्युतः
- परिणामभवं शूलं नाशयेत्सप्तभिर्दिनैः १७
- शुण्ठीकल्कः परिणामशूलामवातयोः
- शुण्ठीतिलगुडैः कल्कं दुग्धेन सह योजयेत्
- परिणामभवं शूलमामवातं च नाशयेत् १८
- अपामार्गकल्को रक्तार्शसि
- अपामार्गस्य बीजानां कल्कस्तण्डुलवारिणा
- पीतो रक्तार्शसां नाशं कुरुते नात्र संशयः १९
- बदरीमूलकल्को रक्तातीसारे
- बदरीमूलकल्केन तिलकल्कश्च योजितः
- मधुक्षारयुतः कुर्याद्र क्तातीसारनाशनम् २०
- लाक्षाकल्को रक्तक्षये
- कूष्माण्डकरसोपेतां लाक्षां कर्षद्वयं पिबेत्
- रक्तक्षयमुरोघातं क्षयरोगं च नाशयेत् २१
- तण्डुलीयकल्को रक्तप्रदरे
- तण्डुलीयजटाकल्कः सक्षौद्र ः! सरसाञ्जनः
- तण्डुलोदकसंपीतो रक्तप्रदरनाशनः २२
- अङ्कोलमूलकल्कोऽतिसारविषयोः
- अङ्कोलमूलकल्कश्च सक्षौद्र स्तण्डुलाम्बुना
- अतीसारहरः प्रोक्तस्तथा विषहरः स्मृतः २३
- वन्ध्याकर्कोटिकाऽदीनां मूलकल्को विषे
- वन्ध्याकर्कोटिकामूलं पाटलाया जटा तथा
- घृतेन बिल्वमूलं वा द्विविधं नाशयेद्विषम् २४
- अभयादिकल्कः त्रिदोषनाशने पथ्यादिकल्कः पाचनादौ च
- अभयासैन्धवकणाशुण्ठीकल्कस्त्रिदोषहा
- पथ्यासैन्धवशुण्ठीभिः कल्को दीपनपाचनः २५
- त्रिवृदादिकल्कः कृमिरोगे
- त्रिवृत्पलाशबीजानि पारसीकयवानिका
- कम्पिल्लकं विडङ्गं च गुडश्च समभागकः
- तक्रेण कल्कमेतेषां पिबेत्क्रिमिगणापहम् २६
- तिलनागकेशरकल्को रक्तार्शसि
- नवनीततिलैः कल्को जेता रक्तार्शसां स्मृतः
- नवनीतसितानागकेशरैश्चापि तद्विधः २७
- शुण्ठ्यादि बृहतीकल्कौ संग्रहण्याम्
- पीतो मसूरयूषेण कल्कः शुण्ठीशलाटुजः
- जयेत् संग्रहणीं तद्वत्तक्रेण बृहतीभवः २८
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे कल्ककल्पनानाम पञ्चमोऽध्यायः
चूर्णकल्पना
[सम्पाद्यताम्]- अथ चूर्णकल्पनानाम षष्ठोऽध्यायः
- तत्रादौ चूर्णलक्षणम्
- अत्यन्तशुष्कं यद्द्र व्यं सुपिष्टं वस्त्रगालितम्
- तत्स्याच्चूर्णंरजः क्षोदस्तन्मात्रा कर्षसंमिता १
- चूर्णे गुडादिमानकल्पना
- चूर्णे गुडः समो देयः शर्कराद्विगुणा भवेत्
- चूर्णेषु भर्जितं हिंगु देयं नोत्क्लेदकृद्भवेत् २
- चूर्णानुपानमानव्यवस्था
- लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः
- पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्र वैः ३
- चूर्णादीनां दोषानुसारेणानुपानमानकल्पना
- चूर्णावलेहगुटिकाकल्कानामनुपानकम्
- वातपित्तकफातङ्के त्रिद्व्येकपलमाहरेत् ४
- अनुपानस्यावश्यकता
- यथा तैलं जले क्षिप्तं क्षणेनैव प्रसर्पति
- अनुपानबलादङ्गे तथा सर्पति भेषजम् ५
- चूर्णार्थे भावनापरिमाणनिर्देशः
- द्र वेण यावता सम्यक्चूर्णं सर्वं प्लुतं भवेत्
- भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ६
- आमलक्यादिचूर्णं सर्वज्वरादौ
- आमलं चित्रकः पथ्या पिप्पली सैन्धवं तथा
- चूर्णितोऽय गणो ज्ञेयः सर्वज्वरविनाशनः
- भेदी रुचिकरः श्लेष्मजेता दीपनपाचनः ७
- पिप्पलीचूर्णं हिक्काज्वरादिषु
- मधुनापिप्पलीचूर्णं लिहेत्कासज्वरापहम्
- हिक्काश्वासहरं कण्ठ्यं प्लीहघ्नं बालकोचितम् ८
- त्रिफलाचूर्णं मेहादिषु
- एका हरीतकी योज्या द्वौ च योज्यौ बिभीतकौ
- चत्वार्यामलकान्येव त्रिफलैषा प्रकीर्त्तिता ९
- त्रिफला मेहशोथघ्नी नाशयेद्विषमज्वरान्
- दीपनी श्लेष्मपित्तघ्नी कुष्ठहन्त्री रसायनी १०
- सर्पिर्मधुभ्यां संयुक्ता सर्वनेत्रामयाञ्जयेत् ११
- त्र्! यूषणचूर्णं दीपनादौ
- पिप्पली मरिचंशुण्ठी त्रिभिस्त्र्! यूषणमुच्यते
- दीपनं श्लेष्ममेदोघ्नं कुष्ठपीनसनाशनम्
- जयेदरोचकं सामं मेहगुल्मगलामयान् १२
- पंचकोलचूर्णमरुच्यादौ
- पिप्पलीचव्यविश्वाह्वपिप्पलीमूलचित्रकैः १३
- पञ्चकोलमिति ख्यातं रुच्यं पाचनदीपनम्
- आनाहप्लीहगुल्मघ्नं शूलश्लेष्मोदरापहम् १४
- त्रिगन्धचतुर्जातचूर्णयोर्गुणाः
- त्रिगन्धमेलात्वक्पत्रैश्चतुर्जातं सकेशरैः
- त्रिगन्धं सचतुर्जातं रूक्षोष्णं लघु पित्तकृत्
- वर्ण्यं रुचिकरं तीक्ष्णं पित्तश्लेष्मामयाञ्जयेत् १५
- कृष्णादिचूर्णं शिशूनां ज्वरातिसारादौ
- कृष्णारुणामुस्तकशृङ्गिकाणां तुल्येन चूर्णेन समाक्षिकेण
- ज्वरातिसारः प्रशमं प्रयाति सश्वासकासः सवमिः शिशूनाम् १६
- जीवनीयगणः
- काकोली क्षीरकाकोली जीवकर्षभकौ तथा
- मेदा चान्या महामेदा जीवन्ती मधुकं तथा १७
- मुद्गपर्णी माषपर्णी जीवनीयो गणस्त्वयम्
- जीवनीयो गणः स्वादुर्गर्भसन्धानकृद् गुरुः १८
- स्तन्यकृद् बृंहणो वृष्यः स्निग्धः शीतस्तृषाऽपहः
- रक्तपित्तं क्षतं शोषं ज्वरदाहानिलाञ्जयेत् १९
- अष्टवर्गः
- द्वे मेदे द्वे च काकोल्यौ जीवकर्षभकौ तथा २०
- ऋद्धिवृद्धी च तैः सर्वैरष्टवर्ग उदाहृतः
- अष्टवर्गो बुधैः प्रोक्तो जीवनीयसमो गुणैः २१
- लवणपञ्चकचूर्णं सृष्टविण्मूत्रादौ
- सिन्धु सौवर्चलं चैव विडं सामुद्रि कं गुडम्
- एकद्वित्रिचतुः पञ्चलवणानि क्रमाद्विदुः २२
- तेषु मुख्यं सैन्धवं स्यादनुक्ते तत्प्रयोजयेत्
- सैन्धवाद्यं रोमकान्तं ज्ञेयं लवणपञ्चकम् २३
- मधुरं सृष्टविण्मूत्रं स्निग्धं सूक्ष्मं बलापहम्
- वीर्योष्णं दीपनं तीक्ष्णं कफपित्तविवर्द्धनम् २४
- क्षारयोगः
- स्वर्जिका यावशूकश्च क्षारयुग्ममुदाहृतम्
- ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायाव शूकजौ २५
- क्षाराश्चान्येऽपि गुल्मार्शोग्रहणीरुक्छिदः सराः
- पाचनाः कृमिपुंस्त्वघ्नाः शर्कराऽश्मरिनाशनाः २६
- सुदर्शनचूर्णं सर्वज्वरादौ
- त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
- त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः २७
- कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
- निम्बः पुष्करमूलं च मधुयष्टी च वत्सकम् २८
- यवानीन्द्र यवो भार्ङ्गीशिग्रुबीजं सुराष्ट्रजा
- वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः २९
- शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
- चित्रको देवकाष्ठं च चव्यं पत्रं पटोलजम् ३०
- जीवकर्षभकौ चैव लवङ्गं वंशलोचना
- पुण्डरीकं च काकोली पत्रकं जातिपत्रकम् ३१
- तालीसपत्रं च तथा समभागानि चूर्णयेत्
- सर्वचूर्णस्य चार्द्धांशं कैरातं निक्षिपेत्सुधीः ३२
- एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
- ज्वरांश्च निखिलान्हन्यान्नात्र कार्या विचारणा ३३
- पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान्विषमज्वरान्
- सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ३४
- शीतज्वरैकाहिकादीन्मोहं तन्द्रा ं! भ्रमं तृषाम्
- श्वासं कासं च पाण्डुं च हृद्रो गं हन्ति कामलाम् ३५
- त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम्
- शीताम्बुना पिबेद्धीमान्सर्वज्वरनिवृत्तये ३६
- सुदर्शनं यथा चक्रं दानवानां विनाशनम्
- तद्वज्ज्वराणां सर्वेषामिदं चूर्णं प्रणाशनम् ३७
- त्रिफलापिप्पलीचूर्णं कासश्वासज्वरेषु
- कासश्वासज्वरहरा त्रिफला पिप्पलीयुता
- चूर्णिता मधुना लीढा भेदिनी चाग्निबोधिनी ३८
- कट्फलादिचूर्णं ज्वरादौ
- कट्फलं मुस्तकं तिक्ता शटी शृङ्गी च पौष्करम्
- चूर्णमेषां च मधुना शृङ्गवेररसेन वा ३९
- लिहेज्ज्वरहरं कण्ठ्यं कासश्वासारुचीर्जयेत्
- वायुं छर्दिं तथा शूलं क्षयं चैव व्यपोहति ४०
- बृहत्कट्फलादिचूर्णं शूलानिलादिषु
- कट्फलं पौष्करं शृङ्गी मुस्ता त्रिकटुकं शटी
- समस्तान्येकशो वाऽपि सूक्ष्मचूर्णानि कारयेत् ४१
- आर्द्र कस्वरसक्षौद्रै र्लिह्यात्कफविनाशनम्
- शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम् ४२
- द्वितीयं कट्फलादिचूर्णं श्वासादिषु
- कट्फलं पौष्करं कृष्णा शृङ्गी च मधुना सह
- श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् ४३
- शृङ्ग्यादिचूर्णं विषाचूर्णं च शिशोः कासज्वरच्छर्दिषु
- शृङ्गी प्रतिविषा कृष्णा चूर्णिता मधुना लिहेत्
- शिशोः कासज्वरच्छर्दिशान्त्यै वा केवला विषा ४४
- यवक्षारादिचूर्णं शिशोः कासे
- यिवक्षारविषाशृङ्गीमागधीपौष्करोद्भवम्
- चूर्णं क्षौद्र युतं लीढंपञ्चकासाञ्जयेच्छिशोः ४५
- शुण्ठ्यादिचूर्णमामातीसारे
- शुण्ठीप्रतिविषाहिङ्गुमुस्ताकुटजचित्रकैः
- चूर्णमुष्णाम्बुना पीतमामातीसारनाशनम् ४६
- हरीतक्यादिचूर्णमामातीसारे
- हरीतकी प्रतिविषा सिन्धु सौवर्चलं वचा
- हिङ्गु चेति कृतं चूर्णं पिबेदुष्णेन वारिणा ४७
- आमातीसारशमनं ग्राहि चाग्निप्रबोधनम्
- लघुगङ्गाधरचूर्णं पक्वातिसारे
- मुस्तमिन्द्र यवं बिल्वं लोध्रं मोचरसं तथा
- धातकीं चूर्णयेत्तक्रगुडाभ्यां पाययेत्सुधीः ४८
- सर्वातीसारशमनं निरुणद्धि प्रवाहिकाम्
- लघुगङ्गाधरं नाम चूर्णं संग्राहकं परम् ४९
- बृहद्गङ्गाधरचूर्णं प्रवाहिकादौ
- मुस्तारलुकशुण्ठीभिर्धातकीलोध्रबालकैः
- बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः ५०
- आम्रबीजं प्रतिविषा लज्जालुरिति चूर्णितम्
- क्षौद्र तण्डुलपानीयैः पीतैर्याति प्रवाहिका ५१
- सर्वातिसारा ग्रहणी प्रशमं याति वेगतः
- वृद्धगङ्गाधरं चूर्णं सरिद्वेगविबन्धकम् ५२
- अजमोदादिचूर्णमतीसारे
- अजमोदा मोचरसं सशृङ्गवेरं सधातकीकुसुमम्
- गोदधिमन्थितयुक्तं गङ्गामपि वाहिनीं रुन्ध्यात् ५३
- मरिचादिचूर्णं ग्रहण्यादौ
- तक्रेण यः पिबेन्नित्यं चूर्णं मरिचसंभवम् ५४
- चित्रसौवर्चलोपेतं ग्रहणी तस्य नश्यति
- उदरप्लीहमन्दाग्निगुल्मार्शोनाशनं भवेत् ५५
- कपित्थाष्टकं चूर्णं ग्रहण्यादौ
- अष्टौ भागाः कपित्थस्य षड्भागा शर्करा मता
- दाडिमं तिन्तिडीकं च श्रीफलं धातकी तथा ५६
- अजमोदा च पिप्पल्यः प्रत्येकं स्युस्त्रिभागिकाः
- मरिचं जीरकं धान्यं ग्रन्थिकं बालकं तथा ५७
- सौवर्चलं यवानी च चातुर्जातं सचित्रकम्
- नागरं चैकभागाः स्युः प्रत्येकं सूक्ष्मचूर्णितम् ५८
- कपित्थाष्टकसंज्ञं स्याच्चूर्णमेतद् गलामयान्
- अतीसारं क्षयं गुल्मं ग्रहणीं च व्यपोहति ५९
- लघुदाडिमाष्टकचूर्णमरुच्यादौ कासज्वरादिषु च
- दाडिमी द्विपला ग्राह्या खंडा चाष्टपलाऽपि च
- त्रिगंधस्य पलं चैकं त्रिकटु स्यात्पलत्रयम् ६०
- एतदेकीकृतं सर्वं चूर्णं स्याद्दाडिमाष्टकम्
- रुचिकृद्दीपनं कंठ्यं ग्राहि कासज्वरापहम् ६१
- बृहद्दाडिमाष्टकचूर्णमतीसारादौ
- दाडिमस्य पलान्यष्टौ शर्करायाः पलाष्टकम्
- पिप्पली पिप्पलीमूलं यवानी मरिचं तथा ६२
- धान्यकं जीरकं शुण्ठी प्रत्येकं पलसम्मितम्
- कर्षमात्रा तुगाक्षीरीत्वक्पत्रैलाश्च केशरम् ६३
- प्रत्येकं कोलमात्राः स्युस्तच्चूर्णं दाडिमाष्टकम्
- अतीसारं क्षयं गुल्मं ग्रहणीं च गलग्रहम्
- मन्दाग्निं पीनसं कासं चूर्णमेतद्व्यपोहति ६४
- पिप्पल्यादिचूर्णं वातग्रहण्याम्
- इ!पिप्पली बृहती व्याघ्री यवक्षारकलिङ्गकाः
- चित्रकं सारिवा पाठा शटी लवणपञ्चकम् ६५
- तच्चूर्णं पाययेद्दध्ना सुरयोष्णाम्बुनाऽपि वा
- मारुतग्रहणीदोषशमनं परमं हितमि! ६६
- लवङ्गादिचूर्णमरोचकादौ
- लवङ्गं शुद्धकर्पूरमेलात्वङ्नागकेशरम्
- जातीफलमुशीरं च नागरं कृष्णजीरकम् ६७
- कृष्णागरुस्तुगाक्षीरी मांसी नीलोत्पलंकणा
- चन्दनं तगरं बालं कङ्कोलंचेति चूर्णयेत् ६८
- समभागानि सर्वाणि सर्वेभ्योऽद्धा सिता भवेत्
- लवङ्गाद्यमिदं चूर्णं राजार्हं वह्निदीपनम् ६९
- रोचनं तर्पणं वृष्यं त्रिदोषघ्नं बलप्रदम्
- हृद्रो गं कण्ठरोगं च कासं हिक्कां च पीनसम् ७०
- यक्ष्माणं तमकं श्वासमतीसारमुरःक्षतम्
- प्रमेहारुचिगुल्मादीन्ग्रहणीमपि नाशयेत् ७१
- जातीफलादिचूर्णं ग्रहण्यादौ
- जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ७२
- कर्पूरचन्दनतिलैस्त्वक्क्षीरीतगरामलैः
- तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ७३
- शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः
- यावन्त्येतानि सर्वाणि कुर्याद्भङ्गां च तावतीम् ७४
- सर्वचूर्णसमा देया शर्करा च भिषग्वरैः
- कर्षमात्रं ततः खादेन्मधुना प्लावितं सुधीः ७५
- अस्य प्रभावाद् ग्रहणीकासश्वासारुचिक्षयाः
- वातश्लेष्मप्रतिश्यायाः प्रशमं यान्ति वेगतः ७६
- महाखाण्डवचूर्णमरुच्यादौ
- मरिचं नागपुष्पाणि तालीसं लवणानि च
- प्रत्येकमेकभागाः स्युः पिप्पलीमूलचित्रकैः ७७
- त्वक्कणातिन्तिडीकं च जीरकं च द्बिभागिकम्
- धान्याम्लवेतसौ विश्वं भद्रै ला बदराणि च ७८
- अजमोदा जलधरः प्रत्येकं स्युस्त्रिभागिकाः
- सर्वौषधिचतुर्थांशं दाडिमस्य फलं भवेत् ७९
- द्र व्येभ्यो निखिलेभ्यश्च सिता देयाऽद्धमात्रया
- महाखाण्डवसंज्ञं स्याच्चूर्णमेतत्सुरोचनम् ८०
- अग्निदीप्तिकरं हृद्यं कासातीसारनाशनम्
- हृद्रो गकण्ठजठरमुखरोगप्रणाशनम् ८१
- विषूचिकां तथाध्मानमर्शोगुल्मकृमीनपि
- छर्दिं पञ्चविधां श्वासं चूर्णमेतद्व्यपोहति ८२
- नारायणचूर्णमुदरादौ
- चित्रकं त्रिफला व्योषं जीरकं हपुषा वचा
- यवानी पिप्पलीमूलं शतपुष्पाऽजगन्धिका ८३
- अजमोदा शटी धान्यं विडङ्गं स्थूलजीरकम्
- हेमाह्वा पौष्करं मूलं क्षारौ लवणपञ्चकम् ८४
- कुष्ठं चेति समांशानि विशाला स्याद् द्विभागिका
- त्रिवृत्त्रिभागा विज्ञेया दन्त्या भागत्रयं भवेत् ८५
- चतुर्भागा शातला स्यात्सर्वाण्येकत्र चूर्णयेत्
- पाचनस्नेहनाद्यैश्च स्निग्धकोष्ठस्य रोगिणः ८६
- दद्याच्चूर्णं विरेकाय सर्वरोगप्रणाशनम्
- हृद्रो गे पाण्डुरोगे च कासे श्वासे भगन्दरे ८७
- मन्देऽग्नौ च ज्वरे कुष्ठे ग्रहण्यां च गलग्रहे
- दद्याद्युक्तानुपानेन तथाध्माने सुरादिभिः ८८
- गुल्मे बदरनीरेण विड्भेदे दधिमस्तुना
- उष्णाम्बुभिरजीर्णे च वृक्षाम्लैः परिकर्त्तिषु ८९
- उष्ट्रीदुग्धेनोदरेषु तथा तक्रेण वा गवाम्
- प्रसन्नया वातरोगे दाडिमाम्भोभिरर्शसि ९०
- द्विविधे च विषे दद्याद् घृतेन विषनाशनम्
- चूर्णं नारायणं नाम दुष्टरोगगणापहम् ९१
- हपुषाद्यं चूर्णमजीर्णोदरादौ
- हपुषा त्रिफला चैव त्रायमाणा च पिप्पली
- हेमक्षीरी त्रिवृच्चैव शातला कटुका वचा ९२
- नीलिनी सैन्धवं कृष्णं लवणं चेति चूर्णयेत्
- उष्णोदकेन मूत्रेण दाडिमत्रिफलारसैः ९३
- तथा मांसरसेनापि यथायोग्यं पिबेन्नरः
- अजीर्णे प्लीह्नि गुल्मेषु शोफार्शोविषमाग्निषु ९४
- पञ्चसमचूर्णं शूलादौ
- शुण्ठी हरीतकी कृष्णा त्रिवृत्सौवर्चलं तथा
- समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ९५
- ज्ञेयं पञ्च समं चूर्णमेतच्छूलहरं परम्
- आध्मानजठरार्शोघ्नमामवातहरंस्मृतम् ९६
- नाराचचूर्णमाध्मानशूलादौ
- कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
- खण्डात्पलं च विज्ञेयं चूर्णमेकत्र कारयेत् ९७
- कर्षोन्मितं लिहेदेतत्क्षौद्रे णाध्माननाशनम्
- गाढविट्कोदरकफान्पित्तशूलं च नाशयेत् ९८
- लवणत्रितयाद्यं चूर्णं यकृत्प्लीहादौ
- लवणत्रितयं क्षारौ शतपुष्पाद्वयं वचा
- अजमोदाऽजगन्धा च हपुषा जीरकद्वयम् ९९
- मरिचं पिप्पलीमूलं पिप्पली गजपिप्पली
- हिङ्गु च हिङ्गुपत्री च शटी पाठोपकुञ्चिका १००
- शुण्ठीचित्रकचव्यानि विडङ्गं चाम्लवेतसम्
- दाडिमं तिन्तिडीकं च त्रिवद् दन्ती शतावरी १०१
- इन्द्र वारुणिका भार्ङ्गी देवदारु यवानिका
- कुस्तुम्बुरुस्तुम्बुरूणि पौष्करं बदराणि च १०२
- शिवा चेति समांशानां चूर्णमेकत्र कारयेत्
- भावयेदार्द्र करसैर्बीजपूररसैस्तथा १०३
- तत्पिबेत्सर्पिषा जीर्णमद्येनोष्णोदकेन वा
- कोलाम्भसा वा तक्रेण दुग्धेनौष्ट्रेण मस्तुना १०४
- यकृत्प्लीहकटीशूलगुदकुक्षिहृदामयान्
- अर्शोविष्टम्भमन्दाग्निगुल्मप्लीहोदराणि च १०५
- हिक्काध्मानश्वासकासाञ्जयेदेतान्न संशयः
- एतैरेवौषधैः सम्यग्घृतं वा साधयेद्भिषक् १०६
- तुम्बुर्वादिचूर्णं शूलादौ
- तुम्बुरूणि त्रिलवणं यवानी पुष्कराह्वयम् १०७
- यवक्षाराभयाहिङ्गुविडङ्गानि समानि च
- त्रिवृत् त्रिभागा विज्ञेया सूक्ष्मचूर्णानि कारयेत् १०८
- पिबेदुष्णेन तोयेन यवक्वाथेन वा पिबेत्
- जयेत्सर्वाणि शूलानि गुल्माध्मानोदराणि च १०९
- चित्रकाद्यं चूर्णं मन्दाग्न्यादौ
- चित्रको नागरं हिङ्गु पिप्पली पिप्पलीजटा
- चव्याजमोदामरिचं प्रत्येकं कर्षसम्मितम् ११०
- स्वर्जिका च यवक्षारः सिन्धु सौवर्चलं बिडम्
- सामुद्र कं रोमकं च कोलमात्राणि कारयेत् १११
- एकीकृत्याखिलं चूर्णं भावयेन्मातुलुङ्गजैः
- रसैर्दाडिमजैर्वाऽपि शोषयेदातपेन च ११२
- एतच्चूर्णं जयेद् गुल्मं ग्रहणीमामजां रुजम्
- अग्निं च कुरुते दीप्तं रुचिकृत्कफनाशनम् ११३
- वडवानलचूर्णं मन्दाग्न्यादौ
- सैन्धवं पिप्पलीमूलं पिप्पलीचव्य चित्रकम्
- शुण्ठी हरीतकी चेति क्रमवृद्धानि चूर्णयेत् ११४
- वडवानलनामैतच्चूर्णं स्यादग्निदीपनम् ११४
- अजमोदादिचूर्णमामवातशोथादौ
- अजमोदा विडङ्गानि सैन्धवं देवदारु च
- चित्रकः पिप्पलीमूलं शतपुष्पा च पिप्पली ११५
- मरिचं चेति कर्षांशं प्रत्येकं कारयेद् बुधः
- कर्षास्तु पञ्च पथ्याया दश स्युर्वृद्धदारुकात् ११६
- नागराच्च दशैव स्युः सर्वाण्येकत्र चूर्णयेत्
- पिबेत्कोष्णजलेनैव चूर्णं श्वयथुनाशनम् ११७
- आमवातरुजं हन्ति सन्धिपीडां च गृध्रसीम्
- कटिपृष्ठगुदस्थां च जङ्घयोश्च रुजं जयेत् ११८
- तूनीप्रतूनीविश्वाचीकफवातामयाञ्जयेत्
- समेन वा गुडेनास्य वटकान्कारयेद्भिषक् ११९
- शुण्ठ्यादिचूर्णं श्वासादौ
- शुण्ठी सौवर्चलं हिङ्गु दाडिमं चाम्लवेतसम्
- चूर्णमुष्णाम्बुना पेयं श्वासहृद्रो गशान्तये १२०
- हिङ्ग्वादिचूर्णं शूलादौ
- हिङ्गु पाठाऽभया धान्यं दाडिमं चित्रकः शटी १२१
- अजमोदा त्रिकटुकं हपुषा चाम्लवेतसम्
- अजगन्धा तिन्तिडीकं जीरकं पौष्करं वचा १२२
- चव्यं क्षारद्वयं पञ्च लवणानि विचूर्णयेत्
- प्राग्भोजनस्य मध्ये वा चूर्णमेतत्प्रयोजयेत् १२३
- पिबेद्वा जीर्णमद्येन तक्रेणोष्णोदकेन वा
- गुल्मे वातकफोद्भूते हृद्ग्रहेऽष्ठीलिकासु च १२४
- हृद्वस्तिपार्श्वशूलेषु शूले च गुदयोनिजे
- मूत्रकृच्छ्रे तथानाहे पाण्डुरोगेऽरुचौ तथा १२५
- हिक्कायां यकृति प्लीह्नि कासे श्वासे गलग्रहे
- ग्रहण्यर्शोविकारेषु चूर्णमेतत्प्रशस्यते १२६
- भावितं मातुलुङ्गस्य बहुशः स्वरसेन वा
- कुर्याच्च गुटिका बह्व्यो वातश्लेष्मामयापहाः १२७
- यवानीखाण्डवचूर्णमरोचकादौ
- यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसौ
- बदराम्लं च कुर्वीत चतुःशाणमितानि च १२८
- सार्धद्विशाणंमरिचं पिप्पली दशशाणिका
- त्वक्सौवर्चलधान्याकं जीरकं द्विद्विशाणकम् १२९
- चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत्
- चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम् १३०
- चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीं ज्वरम्
- छर्दिशोकातिसारांश्च प्लीहानाहविबन्धताः
- अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् १३१
- तालीसादिचूर्णमरोचकादौ
- तालीसं मरिचं शुण्ठी पिप्पली वंशरोचना
- एकद्वित्रिचतुःपञ्चकर्षैर्भागान्प्रकल्पयेत् १३२
- एलात्वचोस्तु कर्षार्द्धं प्रत्येकं भागमाचरेत्
- द्वात्रिंशत्कर्षतुलिता प्रदेया शर्करा बुधैः १३३
- तालीसाद्यमिदं चूर्णं रोचनं पाचनं स्मृतम्
- कासश्वासज्वरहरं छर्द्यतीसारनाशनम् १३४
- शोषाध्मानहरं प्लीहाग्रहणीपाण्डुरोगजित्
- पक्त्वा वा शर्करां चूर्णं क्षिपेत्स्याद् गुटिका ततः १३५
- सितोपलादिचूर्णं कासक्षयपित्तदाहादौ
- सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना
- पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी १३६
- एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः
- सितोपलादिकं चूर्णं मधुसर्पिर्युतं लिहेत् १३७
- श्वासकासक्षयहरं हस्तपादाङ्गदाहजित्
- मन्दाग्निं सुप्तजिह्वत्वं पार्श्वशूलमरोचकम्
- ज्वरमूर्ध्वगतं रक्तं पित्तमाशु व्यपोहति १३८
- लवणभास्करचूर्णं ग्रहणीगुल्मादौ
- समुद्र लवणं कार्यमष्टकर्षमितं बुधैः
- पञ्चसौवर्चलं ग्राह्यं बिडं सैन्धवधान्यके १३९
- पिप्पली पिप्पलीमूलं कृष्णजीरकपत्रकम्
- नागकेशरतालीसमम्लवेतसकं तथा १४०
- द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
- मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् १४१
- दाडिमंस्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
- एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् १४२
- शाणप्रमाणं देयं तु मस्तुतक्रसुरासवैः
- वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् १४३
- अर्शांसि ग्रहणीं कुष्ठं विबन्धं च भगन्दरम्
- शोफं शूलं श्वासकासावामवातं च हृद्रुजम् १४४
- मन्दाग्निं नाशयेदेतद् दीपनं पाचनं परम्
- सर्वलोकहितार्थाय भास्करेणोदितं पुरा १४५
- एलादिचूर्णं छर्दिरोगे
- एलाप्रियङ्गुमुस्तानि कोलमज्जा च पिप्पली
- श्रीचन्दनं तथा लाजा लवङ्गं नागकेशरम् १४६
- एतच्चूर्णीकृतं सर्वं सिताक्षौद्र युतं लिहेत्
- वातपित्तकफोद्भूतां छर्दिं हन्त्यतिवेगतः १४७
- व्याघ्रीचूर्णमूर्ध्ववातमहाश्वासादौ
- व्यिआ!घ्रीजीरकधात्रीणां चूर्णं मधुयुतंलिहेत्
- ऊर्ध्ववातमहाश्वासतमकैर्मुच्यते क्षणात् १४८
- पञ्चनिम्बचूर्णं कुष्ठादौ
- मूलं पत्रं फलं पुष्पं त्वचं निम्बात्समाहरेत्
- सूक्ष्मचूर्णमिदंकुर्यात्पलैः पञ्चदशोन्मितैः १४९
- लोहभस्महरीतक्यौ चक्रमर्दकचित्रकौ
- भल्लातकं बिडङ्गानि शर्करामलकं निशा १५०
- पिप्पली मरिचं शुण्ठी वाकुची कृतमालकः
- गोक्षुरश्च पलोन्मानमेकैकं कारयेद् बुधः १५१
- सर्वमेकीकृतं चूर्णं भृङ्गराजेन भावयेत्
- अष्टभागावशिष्टेन खदिरासनवारिणा १५२
- भावयित्वा च संशुष्कं कर्षमात्रं ततः पिबेत्
- खदिरासनतोयेन सर्पिषा पयसाथवा १५३
- मासेन सर्वकुष्ठानि विनिहन्ति रसायनम्
- पञ्चनिम्बमिदं चूर्णं सर्वरोगप्रणाशनम् १५४
- शतावरीचूर्णं वाजीकरणे
- शतावरी गोक्षुरश्च बीजं च कपिकच्छुजम्
- गाङ्गेरुकी चातिबला बीजमिक्षुरकोद्भवम् १५५
- चूर्णितं सर्वमेकत्र गोदुग्धेन पिबेन्निशि
- न तृप्तिं याति नारीभिर्नरश्चूर्णप्रभावतः १५६
- अश्वगन्धादिचूर्णं वाजीकरणे
- अश्वगन्धा दशपला तन्मात्रो वृद्धदारकः
- चूर्णीकृत्योभयं विद्वान्घृतभाण्डे निधापयेत् १५७
- कर्षैकं पयसा पीत्वा नारीभिर्नैव तृप्यति
- अगत्वा प्रमदां भूयाद्वलीपलितवर्जितः १५८
- मुसल्यादिचूर्णं क्लीवतायाम्
- मुसलीकन्दचूर्णं तु गुडूचीसत्त्वसंयुतम्
- वानरीगोक्षुराभ्यां च शाल्मलीशर्करामलैः
- आलोड्य घृतदुग्धेन पाययेत्कामवर्धनम् १५९
- नवायसचूर्णं पाण्डुरोगादौ
- चित्रकं त्रिफला मुस्तं विडङ्गं त्र्! यूषणानि च
- समभागानि कार्याणि नव भागा हतायसः १६०
- एतदेकीकृतं चूर्णं मधुसर्पिर्युतं लिहेत्
- गोमूत्रमथवा तक्रमनुपाने प्रशस्यते १६१
- पाण्डुरोगं जयत्युग्रं हृद्रो गं च भगन्दरम्
- शोथकुष्ठोदरार्शांसि मन्दाग्निमरुचिं कृमीन् १६२
- आकारकरभादिचूर्णं स्तम्भने
- आकारकरभः शुण्ठी कङ्कोलं कुङ्कुमं कणा
- जातीफलं लवङ्गं च चन्दनं चेति कार्षिकान् १६३
- चूर्णानि मानतः कुर्यादहिफेनं पलोन्मितं
- सर्वमेकीकृतं चूर्णं माषैकं मधुना लिहेत् १६४
- शुक्रस्तम्भकरं चूर्णं पुंसामानन्दकारकम्
- नारीणां प्रीतिजननं सेवेत निशि कामुकः १६५
- बकुलत्वक्चूर्णं दन्तदार्ढ्ये
- बकुलत्वग्भवं चूर्णं घर्षयेद्दन्तपङ्क्तिषु
- वज्रादपि दृढीभूता दन्ताः स्युश्चपला ध्रुवम् १६६
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे चूर्णकल्पनानाम पष्ठोऽध्यायः
वटककल्पनानाम
[सम्पाद्यताम्]- अथ वटककल्पनानाम सप्तमोऽध्यायः
- वटकनामानि
- वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटी
- मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते १
- वह्निसाध्यवटीनिर्माणविधिः
- लेहवत्साध्यते वह्नौ गुडो वा शर्करा तथा
- गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी २
- अवह्निसाध्यवटीनिर्माणविधिः
- कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्
- द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ३
- वटिकायां गुडशर्करामाननिर्णयः
- सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः
- चूर्णाच्चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्
- द्र वं च द्विगुणं देयं मोदकेषु भिषग्वरैः ४
- वटीमात्रानिर्देशः
- कर्षप्रमाणा तन्मात्रा बलं दृष्ट्वा प्रयुज्यताम् ५
- श्रीबाहुशालगुडोऽशआदौ
- इन्द्र वारुणिका मुस्तं शुण्ठी दन्ती हरीतकी
- त्रिवृच्छटी विडङ्गानि गोक्षुरश्चित्रकस्तथा ६
- तेजोह्वा च द्विकर्षाणि पृथग्द्र व्याणि कारयेत्
- सूरणस्य पलान्यष्टौ वृद्धदारु चतुष्पलम् ७
- चतुष्पलं स्याद् भल्लातः क्वाथयेत्सर्वमेकतः
- जलद्रो णे चतुर्थांशं गृह्णीयात्क्वाथमुत्तमम् ८
- क्वाथ्यद्र व्यात्त्रिगुणितं गुडं क्षिप्त्वा पुनः पचेत्
- सम्यक्पक्वं च विज्ञाय चूर्णमेतत्प्रदापयेत् ९
- चित्रकत्रिवृतादन्तीतेजोह्वाःपलिकाः पृथक्
- पृथक्त्रिपलिकाः कार्या व्योषैलामरिचत्वचः १०
- निक्षिपेन्मधु शीते च तस्मिन्प्रस्थप्रमाणतः
- एवं सिद्धो भवेच्छ्रीमान्बाहुशालगुडः शुभः ११
- जयेदर्शांसि सर्वाणि गुल्मं वातोदरं तथा
- आमवातप्रतिश्यायग्रहणीक्षयपीनसान्
- हलीमकं पाण्डुरोगं प्रमेहं च रसायनम् १२
- मरिचादिगुटिका कासादौ
- मरिचं कर्षमात्रं स्यात्पिप्पली कर्षसंमिता १३
- अर्धकर्षो यवक्षारः कर्षयुग्मं च दाडिमम्
- एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि १४
- शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्
- अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् १५
- गुडवटिका बिभीतकप्रयोगश्च श्वासकासादौ
- गुडशुण्ठीशिवामुस्तैर्गुटिकां धारयेन्मुखे
- श्वासकासेषु सर्वेषु बिभीतं वाऽपि केवलम् १६
- आमलक्यादिगुटिका तृष्णादौ
- आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
- एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
- तृष्णां प्रवृद्धां हन्त्येषा मुखशोषं च दारुणम् १७
- सञ्जीवनीवटी सन्निपातज्वरे सर्पदष्टादौ च
- विडङ्गं नागरं कृष्णा पथ्यामलबिभीतकम् १८
- वचागुडूची भल्लातं सविषं चात्र योजयेत्
- एतानि समभागानि गोमूत्रेणैव पेषयेत् १९
- गुञ्जाभा गुटिका कार्या दद्यादार्द्र कजै रसैः
- एकामजीर्णगुल्मेषु द्वे विषूच्यां प्रदापयेत् २०
- तिस्रश्च सर्पदष्टे तु चतस्रः सान्निपातिके
- वटी सञ्जीवनी नाम्ना सञ्जीवयति मानवम् २१
- व्योषादिगुटिका पीनसादौ
- व्योषाम्लवेतसंचव्यं तालीसं चित्रकं तथा
- जीरकंतिन्तिडीकं च प्रत्येकं कर्षभागिकम् २२
- त्रिसुगन्धं त्रिशाणं स्याद् गुडः स्यात्कर्षविंशतिः
- व्योषादिगुटिका सामपीनसश्वासकासजित्
- रुचिस्वरकरा ख्याता प्रतिश्यायप्रणाशिनी २३
- गुडचतुष्टयगुटिका आमादौ
- आमेषु सगुडां शुण्ठीमजीर्णे गुडपिप्पलीम्
- कृच्छ्रे जीरगुडं दद्यादर्शःसु सगुडाभयाम् २४
- वृद्धदारुमोदकोऽशोरोगे
- वृद्धदारुकभल्लातशुण्ठीचूर्णेन योजितः
- मोदकः सगुडो हन्यात्षड्विधार्शःकृतां रुजम् २५
- शूरणपिण्डी अर्शोरोगे
- शुष्कशूरणचूर्णस्य भागान्द्वात्रिंशदाहरेत्
- भागान्षोडश चित्रस्य शुण्ठ्या भागचतुष्टयम् २६
- द्वौ भागौ मरिचस्यापि सर्वाण्येकत्र चूर्णयेत्
- गुडेन पिण्डिकां कुर्यादर्शसां नाशनीं पराम् २७
- शूरणवटकोऽश प्रभृतिरोगेषु
- शूरणो वृद्धदारुश्च भागैः षोडशभिः पृथक् २८
- मुसलीचित्रकौ ज्ञेयावष्टभागमितौ पृथक्
- शिवा बिभीतकी धात्री विडङ्गं नागरं कणा २९
- भल्लातः पिप्पलीमूलं तालीसं च पृथक्पृथक्
- चतुर्भागप्रमाणानि त्वगेलामरिचं तथा ३०
- द्विभागमात्राणि पृथक् ततस्त्वेकत्र चूर्णयेत्
- द्विगुणेन गुडेनाथ वटकान्कारयेद् बुधः ३१
- प्रबलार्न्गिकरा एते तथाऽशोनाशनाः पराः
- ग्रहणीं वातकफजां श्वासं कासं क्षयामयम् ३२
- प्लीहानं श्लीपदं शोथं हिक्कां मेहं भगन्दरम्
- निहन्युः पलितं वृद्ध्या तथा मेध्या रसायनाः ३३
- मण्डूरवटकः कामलादौ
- त्रिफला त्र्! यूषणं चव्यं पिप्पलीमूलचित्रकौ
- दारुमाक्षिकधातुस्त्वग्दार्वी मुस्तं विडङ्गकम् ३४
- प्रत्येकं कर्षमात्राणि सर्वंद्विगुणितं तथा
- मण्डूरं चूर्णयेत्सर्वं गोमूत्रेऽष्टगुणे क्षिपेत् ३५
- पक्त्वा च वटकान्कृत्वा दद्यात्तक्रानुपानतः
- कामलापाण्डुमेहार्शः शोथकुष्ठकफामयान्
- ऊरुस्तम्भमजीर्णं च प्लीहानं नाशयेदपि ३६
- पिप्पलीमोदको धातुगतज्वरादौ
- क्षौद्रा द् द्विगुणितं सर्पिर्घृताद् द्विगुणपिप्पली ३७
- सिता द्विगुणिता तस्याः क्षीरं देयं चतुर्गुणम्
- चातुर्जातं क्षौद्र तुल्यं पक्त्वा कुर्याच्च मोदकान् ३८
- धातुस्थांश्च ज्वरान्सर्वान् श्वासं कासं च पाण्डुताम्
- धातुक्षयं वह्निमान्द्यं पिप्पलीमोदको जयेत् ३९
- चन्द्र प्रभावटी प्रमेहादौ
- चन्द्र प्रभां वचां मुस्तं भूनिम्बामृतदारुकम्
- हरिद्रा ऽतिविषा दार्वी पिप्पलीमूलचित्रकौ ४०
- धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली
- व्योषं माक्षिकधातुश्च द्वौ क्षारौ लवणत्रयम् ४१
- एतानि शाणमात्राणि प्रत्येकं कारयेद् बुधः
- त्रिवृद्दन्ती पत्रकं च त्वगेला वंशरोचना ४२
- प्रत्येकं कर्षमात्राणि कुर्यादेतानि बुद्धिमान्
- द्विकर्षं हतलोहं स्याच्चतुष्कर्षा सिताभवेत् ४३
- शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः
- एभिरेकत्रसंक्षुण्णैः कर्त्तव्या गुटिका शुभा ४४
- चन्द्र प्रभेति विख्याता सर्वरोगप्रणाशिनी
- प्रमेहान्विंशतिं कृच्छ्रं मूत्राघातं तथाऽश्मरीम् ४५
- विबन्धानाहशूलानि मेहनं ग्रन्थिमर्बुदम्
- अण्डवृद्धिं तथा पाण्डुं कामलां च हलीमकम् ४६
- अन्त्रवृद्धिं कटीशूलं श्वासं कासं विचर्चिकाम्
- कुष्ठान्यर्शांसि कण्डूं च प्लीहोदरभगन्दरं ४७
- दन्तरोगं नेत्ररोगं स्त्रीणामार्त्तवजां रुजम्
- पुंसां शुक्रगतान्दोषान्मन्दाग्निमरुचिं तथा ४८
- वायुं पित्तं कफं हन्याद् बल्या वृष्या रसायनी
- चन्द्र प्रभायां कर्षस्तु चतुःशाणो विधीयते ४९
- काङ्कायनगुटिका गुल्मादौ
- यवानी जीरकं धान्यं मरिचं गिरिकर्णिका
- अजमोदोपकुञ्ची च चतुःशाणाः पृथक्पृथक् ५०
- हिङ्गु षट्शाणिकं कार्यं क्षारौ लवणपञ्चकम्
- त्रिवृच्चाष्टमितैः शाणैः प्रत्येकं कल्पयेत्सुधीः ५१
- दन्ती शटी पौष्करं च विडङ्गं दाडिमं शिवा
- चित्रोऽम्लवेतसः शुण्ठी शाणैः षोडशभिः पृथक् ५२
- बीजपूररसेनैषां गुटिकां कारयेद् बुधः
- घृतेन पयसा मद्यैरम्लैरुष्णोदकेन वा ५३
- पिबेत्काङ्कायनप्रोक्तां गुटिकां गुल्मनाशिनीम्
- मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम् ५४
- मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्
- उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं निवारयेत्
- हृद्रो गं ग्रहणीं शूलं कृमीनर्शांसि नाशयेत् ५५
- योगराजगुग्गुलुर्वातरोगे आमवाते वा
- नागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ५६
- भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम्
- रेणुकेन्द्र यवाः पाठा विडङ्गं गजपिप्पली ५७
- कटुकाऽतिविषा भार्ङ्गी वचा मूर्वेति भागतः
- प्रत्येकं शाणिकानि स्युर्द्र व्याणीमानि विंशतिः ५८
- द्र व्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत्
- एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः ५९
- विङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम्
- मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ६०
- गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम्
- एकपिण्डं ततः कृत्वा धारयेद् घृतभाजने ६१
- गुटिकाः शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताः
- गुग्गुलुर्योगराजोऽय त्रिदोषघ्नो रसायनः ६२
- मैथुनाहारपानानां त्यागो नैवात्र विद्यते
- सर्वान्वातामयान्कुष्ठानर्शांसि ग्रहणीगदम् ६३
- प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम्
- उदावर्तं क्षयं गुल्ममपस्मारमुरोग्रहम् ६४
- मन्दाग्निश्वासकासांश्च नाशयेदरुचिं तथा
- रेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाः ६५
- पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा
- रास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ६६
- काकोल्यादिशृतात्पित्तं कफमारग्वधादिना
- दार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ६७
- मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन वा
- छिन्नाक्वाथेन वातास्रं शोथं शूलं कणाशृतात् ६८
- पाटलाक्वाथसहितो विषं मूषकजं जयेत्
- त्रिफलाक्वाथसहितो नेत्रार्त्तिं हन्ति दारुणाम्
- पुनर्नवादिक्वाथेन हन्यात्सर्वोदरान्यपि ६९
- कैशोरगुग्गुलुर्वातरक्तादौ
- त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत् ७०
- संकुट्य लोहपात्रे तु सार्धद्रो णाम्बुना पचेत्
- जलमर्धशृतंज्ञात्वा गृह्णीयाद्वस्त्रगालितम् ७१
- ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम्
- पुनः पचेदयः पात्रे दर्व्या सङ्घट्टयेन्मुहुः ७२
- सान्द्री भूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्
- चूर्णीकृत्य ततस्तत्र द्र व्याणीमानि निक्षिपेत् ७३
- त्रिफला द्विपला ज्ञेया गुडूची पलिका मता
- षडक्षंत्र्! यूषणं प्रोक्तं विडङ्गानां पलार्धकम् ७४
- दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता
- ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत् ७५
- गुटिकाः शाणमात्रेण युञ्ज्याद् दोषाद्यपेक्षया
- अनुपाने भिषग्दद्यात्कोष्णं नीरं पयोऽथवा ७६
- मञ्जिष्ठादिशृतं वाऽपि युक्तियुक्तमतः परम्
- जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ७७
- सर्वव्रणांश्च गुल्मांश्च प्रमेहपिडिकास्तथा
- प्रमेहोदरमन्दाग्निकासश्वयथुपाण्डुजान् ७८
- हन्ति सर्वामयान्नित्यमुपयुक्तो रसायनः
- केशोरकाभिधानोऽय गुग्गुलुः कान्तिकारकः ७९
- वासादिना नेत्रगदान्गुल्मादीन्वरुणादिना
- क्वाथेन खदिरस्यापि व्रणकुष्ठानि नाशयेत् ८०
- अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम्
- मद्यंरोषंत्यजेत्सम्यग्गुणार्थी पुरसेवकः ८१
- त्रिफलागुग्गुलुर्भगन्दरादौ
- त्रिपलं त्रिफलाचूर्णं कृष्णाचूर्णं पलोन्मितम्
- गुग्गुलुः पाञ्चपलिकः क्षोदयेत्सर्वमेकतः ८२
- ततस्तुगुटिकां कृत्वा प्रयुञ्ज्याद्वह्न्यपेक्षया
- भगन्दरं गुल्मशोथावर्शांसि च विनाशयेत् ८३
- गोक्षुरादिगुग्गुलः प्रमेहादौ
- अष्टाविंशतिसंख्यानि पलान्यानीय गोक्षुरात्
- विपचेत्षङ्गुणेनीरे क्वाथो ग्राह्योऽद्धशेषितः ८४
- ततः पुनः पचेत्तत्र पुटं सप्तपलं क्षिपेत्
- गुडपाकसमाकारं ज्ञात्वा तत्र विनिक्षिपेत् ८५
- त्रिकटु त्रिफला मुस्तं चूर्णितं पलसप्तकम्
- ततः पिण्डीकृतस्यास्य गुटिकामुपयोजयेत् ८६
- हन्यात्प्रमेहं कृच्छ्रं च प्रदरं मूत्रघातकम्
- वातास्रं वातरोगांश्च शुक्रदोषं तथाऽश्मरीम् ८७
- त्रिफलामोदकः कुष्ठादौ
- त्रिफलाऽष्टपला कार्या भल्लातं च चतुष्पलम्
- बाकुची पञ्चपलिका विडङ्गानां चतुष्पलम् ८८
- हतलोहं त्रिवृच्चैव गुग्गुलुश्च शिलाजतु
- एकैकं पलमात्रं स्यात्पलार्द्धं पौष्करं भवेत् ८९
- चित्रकस्य पलार्धंस्याद् द्विशाणं मरिचं भवेत्
- नागरं पिप्पली मुस्ता त्वगेलापत्रकुङ्कुमम् ९०
- शाणोन्मितं स्यादेकैकं चूर्णयेत्सर्वमेकतः
- ततस्तत्प्रक्षिपेच्चूर्णं पक्वखण्डे च तत्समे ९१
- मोदकान्पलिकान्कृत्वा प्रयुञ्जीत यथोचितान्
- हन्युः सर्वाणि कुष्ठानि त्रिदोषप्रभवामयान् ९२
- भगन्दरप्लीहगुल्माञ्जिह्वातालुगलामयान्
- शिरोऽक्षिभ्रूगतान्रोगान्हन्यात्पृष्ठगतानपि ९३
- प्राग्भोजनस्य देयं स्यादधः कायस्थिते गदे
- भेषजं भक्तमध्ये च रोगे जठरसंस्थिते
- भोजनस्योपरि ग्राह्यमूर्ध्वजत्रुगदेषु च ९४
- काञ्चनारगुग्गुलुगण्डमालापचीग्रन्थिभगन्दरादौ
- काञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः ९५
- त्रिफला षट्पला कार्या त्रिकटु स्यात्पलत्रयम्
- पलैकं वरुणं कुर्यादेलात्वक्पत्रकं तथा ९६
- एकैकं कर्षमात्रं स्यात्सर्वाण्येकत्र चूर्णयेत्
- यावच्चूर्णमिदं सर्वं तावन्मात्रस्तु गुग्गुलुः ९७
- सङ्कुट्य सर्वमेकत्र पिण्डं कृत्वा च धारयेत्
- गुटिकाः शाणिकाः कार्याः प्रातर्ग्राह्या यथोचितम् ९८
- गण्डमालां जयत्युग्रामपचीमर्बुदानि च
- ग्रन्थीन्व्रणांश्च गुल्मांश्च कुष्ठानि च भगन्दरम् ९९
- प्रदेयश्चानुपानार्थं क्वाथो मुण्डतिकाभवः
- क्वाथः खदिरसारस्य पथ्याक्वाथोष्णकं जलम् १००
- माषादिमोदकः पुष्टौ
- निस्तुषं माषचूर्णं स्यात्तथा गोधूमसम्भवम्
- निस्तुषं यवचूर्णं च शालितण्डुलजं तथा १०१
- सूक्ष्मं च पिप्पलीचूर्णं पलिकान्युपकल्पयेत्
- एतदेकीकृतं सर्वं भर्जयेद्गोघृतेन च १०२
- अर्धमात्रेण सर्वेभ्यस्ततः खण्डं समं क्षिपेत्
- जलं च द्विगुणं दत्त्वा पाचयेत्तं शनैः शनैः १०३
- ततः पक्वं समुद्धृत्य वृत्तान्कुर्वीत मोदकान्
- भुक्त्वा सायं पलैकं च पिबेत्क्षीरं चतुर्गुणम् १०४
- वर्जनीयौ विशेषेण क्षाराम्लौ द्वौ रसावपि
- कृत्वैवं रमयेन्नारीर्बह्वीर्न क्षीयते नरः १०५
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे वटककल्पनानाम सप्तमोऽध्यायः
अवलेहकल्पना
[सम्पाद्यताम्]- अथ अवलेहकल्पनानामाष्टमोऽध्यायः
- अवलेहस्य लक्षणनाममात्रानिर्देशः
- क्वाथादीनां पुनः पाकाद्घनत्वं सा रसक्रिया
- सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात्पलोन्मिता १
- अनुक्ते सितादीनां परिमाणनिर्देशः
- सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः
- द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः २
- अवलेहस्य सिद्धिलक्षणम्
- सुपक्वे तन्तुमत्त्वं स्यादवलेहोऽप्सु मज्जति
- खरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः ३
- अवलेहस्यानुपानानि
- दुग्धमिक्षुरसो यूषः पञ्चमूलकषायजः
- वासाक्वाथो यथायोग्यमनुपानं प्रशस्यते ४
- कण्टकार्यवलेहः कासश्वासादौ
- कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
- पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ५
- पृथक्पलानि चैतानि गुडूचीचव्यचित्रकाः
- मुस्तं कर्कटशृङ्गी च त्र्! यूषणं धन्वयासकः ६
- भार्ङ्गी रास्ना शटी चैव शर्करा पलविंशतिः
- प्रत्येकं च पलान्यष्टौ प्रदद्याद् घृततैलयोः ७
- पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम्
- चतुष्पलं तुगाक्षीर्याः पिप्पलीनां चतुष्पलम् ८
- क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभे
- लेहोऽय हन्ति हिक्काऽत्तिश्वासकासानशेषतः ९
- च्यवनप्राशः क्षयक्षीणादौ
- पाटलाऽरणिकाश्मर्यबिल्वारलुकगोक्षुराः
- पर्ण्यौ बृहत्यौ पिप्पल्यः शृङ्गी द्रा क्षाऽमृताऽभया १०
- बला भूम्यामली वासाऋद्धिर्जीवन्तिका शटी
- जीवकर्षभकौ मुस्तं पौष्करं काकनासिका ११
- मुद्गपर्णीं माषपर्णी विदारी च पुनर्नवा
- काकोल्यौ कमलं मेदे सूक्ष्मैलागरुचन्दनम् १२
- एकैकं पलसम्मानं स्थूलचूर्णितमौषधम्
- एकीकृत्य बृहत्पात्रे पञ्चामलशतानि च १३
- पचेद्द्रो णजलेक्षिप्त्वाग्राह्यमष्टांशशेषितम्
- ततस्तुतान्यामलानिनिष्कुलीकृत्यवाससा १४
- दृढहस्तेन सम्पीड्यक्षिप्त्वा तत्र ततोघृतम्
- पलसप्तमितं तानि किञ्चिद् भृष्ट्वाऽल्पवह्निना १५
- ततस्तत्र क्षिपेत्क्वाथं खण्डं चार्धतुलोन्मितम्
- लेहवत्साधयित्वा च चूर्णानीमानि दापयेत् १६
- पिप्पली द्विपला देया तुगाक्षीरी चतुष्पला
- प्रत्येकं च त्रिशाणं स्यात्त्वगेलापत्रकेशराः १७
- ततस्त्वेकीकृते तस्मिन्क्षिपेत्क्षौद्रं च षट्पलम्
- इत्येतच्च्यवनप्रोक्तं च्यवनप्राशसंज्ञितम् १८
- लेहं वह्निबलं दृष्ट्वा खादेत्क्षीणो रसायनम्
- बालवृद्धक्षतक्षीणा नारीक्षीणाश्च शोषिणः १९
- हृद्रो गिणः स्वरक्षीणा ये नरास्तेषु युज्यते
- कासं श्वासं पिपासां च वातास्रमुरसो ग्रहम् २०
- वातपित्तं शुक्रदोषं मूत्रदोषं च नाशयेत्
- मेधां स्मृतिं स्त्रीषु हर्षं कान्तिं वर्णप्रसन्नताम्
- अस्य प्रयोगादाप्नोति नरो जीर्णविवर्जितः २१
- कूष्माण्डावलेहो रक्तपित्तादौ
- निष्कुलीकृत्य कूष्माण्डखण्डान्पलशतं पचेत्
- निक्षिप्य द्वितुलं नीरमर्धशिष्टं च गृह्यते २२
- तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
- आतपे शोषयेत्किञ्चिच्छूलाग्रैर्बहुशोव्यधेत् २३
- क्षिप्त्वा ताम्रकटाहे च दद्यादष्टपलं घृतम्
- तेन किञ्चिद्भर्जयित्वा पूर्वोक्तं तज्जलं क्षिपेत् २४
- खण्डं पलशतं दत्त्वा सर्वमेकत्र पाचयेत्
- सुपक्वे पिप्पली शुण्ठी जीरकं द्विपलं पृथक् २५
- पृथक्पलार्धं धान्याकं पत्रैलामरिचंत्वचम्
- चूर्णीकृत्य क्षिपेत्तत्र घृतार्धं क्षौद्र मावहेत् २६
- खादेदग्निबलं दृष्ट्वा रक्तपित्ती क्षयी ज्वरी
- शोषतृष्णाभ्रमच्छर्दिश्वासकासक्षतातुरः २७
- कूष्माण्डकावलेहोऽय बालवृद्धेषु युज्यते
- उरःसन्धानकृद् वृष्यो बृंहणो बलकृन्मतः २८
- खण्डशूरणावलेहोऽशोरोगे
- युक्त्या कूष्माण्डखण्डस्य शूरणं विपचेत्सुधीः
- अर्शसां मूढवातानां मन्दाग्नीनां च युज्यते २९
- अगस्त्यहरीतक्यवलेहः क्षयादौ
- हरीतकीशतं भद्रं यवानामाढकं तथा ३०
- पलानि दशमूलस्य विंशतिं च नियोजयेत्
- चित्रकः पिप्पलीमूलमपामार्गः शटी तथा ३१
- कपिकच्छूः शंखपुष्पी भार्ङ्गी च गजपिप्पली
- बला पुष्करमूलं च पृथग्द्विपलमात्रया ३२
- पचेत्पञ्चाढके नीरे यवैः स्विन्नैः शृतं नयेत्
- तच्चाभयाशतंदद्यात्क्वाथे तस्मिन्विचक्षणः ३३
- सर्पिस्तैलाष्टपलकं क्षिपेद्गुडतुलां तथा
- पक्त्वा लेहत्वमानीय सिद्धे शीते पृथक्पृथक् ३४
- क्षौद्रं च पिप्पलीचूर्णं दद्यात्कुडवमात्रया
- हरीतकीद्वयं खादेत्तेन लेहेन नित्यशः ३५
- क्षयं कासं ज्वरं श्वासं हिक्काऽशोऽरुचिपीनसान्
- ग्रहणीं नाशयेदेष वलीपलितनाशनः ३६
- बलवर्णकरः पुंसामवलेहो रसायनम्
- विहितोऽगस्त्यमुनिना सर्वरोगप्रणाशनः ३७
- कुटजावलेहोऽश आदिरोगेषु
- कुटजत्वक्तुलां द्रो णे जलस्य विपचेत्सुधीः
- कषायं पादशेषं च गृह्णीयाद्वस्त्रगालितम् ३८
- त्रिंशत्पलंगुडस्यात्र दत्त्वा च विपचेत्पुनः
- सान्द्र त्वमागतं ज्ञात्वा चूर्णानीमानि दापयेत् ३९
- रसाञ्जनं मोचरसं त्रिकटु त्रिफलां तथा
- लज्जालुं चित्रकं पाठां बिल्वमिन्द्र यवं त्वचम् ४०
- भल्लातकं प्रतिविषां विडङ्गानि च बालकम्
- प्रत्येकं पलसंमानं घृतस्य कुडवं तथा ४१
- सिद्धशीते ततो दद्यान्मधुनः कुडवं तथा
- जयेदेषोऽवलेहस्तु सर्वाण्यर्शांसि वेगतः ४२
- दुर्नामप्रभवान्रोगानतीसारमरोचकम्
- ग्रहणीं पाण्डुरोगं च रक्तपित्तं च कामलाम् ४३
- अम्लपित्तं तथा शोथं कार्श्यं चैव प्रवाहिकाम्
- अनुपाने प्रयोक्तव्यमाजं तक्रं पयो दधि
- घृतं जलं वा जीर्णे च पथ्यभोजी भवेन्नरः ४४
- कुटजाष्टकाद्यवलेहोऽतीसारादौ
- कुटजत्वक्तुलामाद्रा रं! द्रो णनीरे विपाचयेत्
- पादशेषं शृतं नीत्वा चूर्णान्येतानि दापयेत् ४५
- लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
- मुस्तं प्रतिविषा चैव प्रत्येकं स्यात्पलं पलम् ४६
- ततस्तु विपचेद् भूयो यावद्दर्वीप्रलेपनम्
- जलेन छागदुग्धेन पीतो मण्डेन वा जयेत् ४७
- सर्वातिसारान्घोरांस्तु नानावर्णान्सवेदनान्
- असृग्दरं समस्तं च सर्वार्शांसि प्रवाहिकाम् ४८
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डेऽवलेहकल्पनानामाष्टमोऽध्यायः
स्नेहकल्पना
[सम्पाद्यताम्]- अथ स्नेहकल्पनानाम नवमोऽध्यायः
- घृततैलकल्पना
- कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव वा
- चतुर्गुणे द्र वे साध्यं तस्य मात्रा पलोन्मिता १
- स्नेहसाधनार्थं क्वाथपरिभाषा
- निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम्
- पादशिष्टं गृहीत्वा च स्नेहं तेनैव साधयेत् २
- मृदुद्र व्यादौ क्वथने जलप्रमाणम्
- चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
- तथा च मध्यमे द्र व्ये दद्यादष्टगुणं पयः
- अत्यन्तकठिने द्र व्ये नीरं षोडशकं मतम् ३
- मतान्तरे परिमाणविशेषः
- कर्षादितः पलं यावत्क्षिपेत्षोडशकं जलम् ४
- तदूर्ध्वं कुडवं यावद्भवेदष्टगुणं पयः
- प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम् ५
- अम्ब्वादिभिर्यत्र स्नेहसाधनं तत्र कल्कप्रमाणम्
- अम्बुक्वाथरसैर्यत्र पृथक्स्नेहस्य साधनम्
- कल्कस्यांशं तत्र दद्याच्चतुर्थं षष्ठमष्टमम् ६
- दुग्धादिपाकपरिभाषा
- दुग्धे दध्नि रसे तक्रे कल्को देयोऽष्टमांशकः
- कल्कस्य सम्यक्पाकार्थं तोयमत्र चतुर्गुणम् ७
- स्नेहे पञ्चाधिकद्र वव्यवस्था
- द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि
- तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम् ८
- केवलद्र व्यस्य स्नेहपाकार्थं मानम्
- द्र व्येण केवलेनैव स्नेहपाको भवेद्यदि
- तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम् ९
- केवलक्वाथस्य स्नेहपाकार्थं मानम्
- क्वाथेन केवलेनैव पाको यत्रेरितः क्वचित्
- क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते १०
- कल्कहीनस्नेहपाकविधिः
- कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे ११
- पुष्पकल्कस्नेहपाकविधिः
- पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम्
- स्नेहे स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते १२
- स्नेहसिद्धलक्षणम्
- वर्त्तिवत्स्नेहकल्कः स्याद्यदाङ्गुल्याविमर्दितः
- शब्दहीनोग्निनिक्षिप्तःस्नेहःसिद्धोभवेत्तदा १३
- घृततैलपाकयोः सिद्धौ स्वरूपनिर्देशः
- यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि
- गन्धवर्णरसोत्पत्तिः स्नेहः सिद्धस्तदा भवेत् १४
- स्नेहपाकस्य भेदास्तल्लक्षणानि च
- स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा
- ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् १५
- मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले
- ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः
- तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः १६
- आमपाकस्नेहगुणाः
- आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः १७
- मृद्वादिपाकस्नेहानां नियमाः
- नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु
- अभ्यङ्गार्थं खरः प्रोक्तो युञ्ज्यादेवं यथोचितम् १८
- घृतादिसाधने कालनिर्देशः
- घृततैलगुडादींश्च साधयेन्नैकवासरे
- प्रकुर्वन्त्युषिता ह्येते विशेषाद् गुणसञ्चयम् १९
- अथ घृतकल्पना
- क्षीरषट्पलघृतं विषमज्वरादौ
- पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
- ससैन्धवैश्च पलिकैर्घृतप्रस्थं विपाचयेत्
- क्षीरं चतुर्गुणं दत्त्वा तद् घृतं प्लीहनाशनम्
- विषमज्वरमन्दाग्निहरं रुचिकरं परम् २०
- चाङ्गेरीघृतमतीसारग्रहण्योः
- पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली
- श्वदंष्ट्रा नागरं धान्यं पाठा बिल्वं यवानिका २१
- द्र व्यैश्च पलिकैरेतैश्चतुः षष्टिपलं घृतम्
- घृताच्चतुर्गुणं दद्याच्चाङ्गेरीस्वरसं बुधः २२
- तथा चतुर्गुणं दत्त्वा दधि सर्पिर्विपाचयेत्
- शनैः शनैर्विपक्तव्यं चाङ्गेरीघृतमुत्तमम् २३
- तद् घृतं कफवातघ्नं ग्रहण्यर्शोविकारनुत्
- हन्त्यानाहं गुदभ्रंशं मूत्रकृच्छ्रं प्रवाहिकाम् २४
- मसूरघृतमतीसारादौ
- मसूराणां पलशतं नीरद्रो णे विपाचयेत्
- पादशेषं शृतं नीत्वा दत्त्वा बिल्वपलाष्टकम् २५
- घृतप्रस्थं पचेत्तेन सर्वातीसारनाशनम्
- ग्रहणीं भिन्नविट्कं च नाशयेच्च प्रवाहिकाम् २६
- कामदेवघृतं रक्तपित्तादौ
- अश्वगन्धा तुलैका स्यात्तदर्धो गोक्षुरः स्मृतः
- बलाऽमृता शालिपर्णी विदारी च शतावरी २७
- अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा
- काश्मर्याश्च फलं चैव माषबीजं तथैव च २८
- पृथग्दशपलान् भागाँ श्चतुद्रो र्णे!ऽम्भसि पचेत्
- द्रो णशेषे रसे तस्मिन् पचेच्चैव घृताढकम् २९
- मृद्वीका पद्मकं कुष्ठं पिप्पली रक्तचन्दनम्
- पत्रकं नागपुष्पं च आत्मगुप्ताफलं तथा ३०
- नीलोत्पलं सारिवे द्वे जीवनीयो गणस्तथा
- पृथक् कर्षसमा भागाः शर्करायाः पलद्वयम् ३१
- रसश्च पौण्ड्रकेक्षूणामाढकैकं समाहरेत्
- चतुर्गुणेन पयसा घृताढकं विपाचयेत् ३२
- घृतमेतन्निहन्त्याशु रक्तपित्तमुरःक्षतम्
- हलीमकं पाण्डुरोगं वर्णभेदं स्वरक्षयम् ३३
- मूत्रकृच्छ्रमुरोदाहं पार्श्वशूलं च नाशयेत्
- एतत् सर्पिः प्रयोक्तव्यं बह्वन्तः पुरवासिनाम् ३४
- स्त्रीणां चैवाप्रजातानां दुर्बलानां च देहिनाम्
- श्रेष्ठं बलकरं वर्ण्यं हृद्यं पुष्टिरसायनम् ३५
- ओजस्तेजस्करं हृद्यमायुष्यं प्राणवर्द्धनम्
- संवर्द्धयति शुक्रस्य पुरुषं दुर्बलेन्द्रि यम् ३६
- सर्वरोगविनिर्मुक्तः पयःसिक्तो यथा द्रुमः
- कामदेव इति ख्यातं सर्पिरुक्तं महागुणम् ३७
- पानीयकल्याणकं घृतमपस्मारादौ
- त्रिफला द्वे निशे कौन्ती सारिवे द्वे प्रियङ्गुका
- शालिपर्णी पृष्ठिपर्णी देवदार्व्येलवालुकम् ३८
- नतं विशाला दन्ती च दाडिमं नागकेशरम्
- नीलोत्पलैला मञ्जिष्ठा विडङ्गं कुष्ठपद्मकम् ३९
- जातिपुष्पं चन्दनं च तालीसं बृहती तथा
- एतैः कर्षसमैः कल्कैर्जलं दत्त्वा चतुर्गुणम् ४०
- घृतप्रस्थं पचेद्धीमानपस्मारे ज्वरे क्षये
- उन्मादे वातरक्ते च कासे मन्दानले तथा ४१
- प्रतिश्याये कटीशूले तृतीयक चतुर्थके
- मूत्रकृच्छ्रे विसर्पे च कण्डूपाण्ड्वामये तथा ४२
- विषद्वये प्रमेहेषु सर्वथैवोपयुज्यते
- वन्ध्यानां पुत्रदं भूतयक्षरक्षोहरं स्मृतम् ४३
- अमृताघृतं कुष्ठादौ
- अमृताक्वाथकल्काभ्यां सक्षीरं विपचेद् घृतम्
- वातरक्तं जयत्याशु कुष्ठं जयति दुस्तरम् ४४
- महातिक्तकघृतं वातरक्तकुष्ठादौ
- सप्तच्छदः प्रतिविषा शम्याकः कटुरोहिणी
- पाठा मुस्तमुशीरं च त्रिफला पर्पटस्तथा ४५
- पटोलनिम्बमञ्जिष्ठाः पिप्पली पद्मकं शटी
- चन्दनं धन्वयासश्च विशाले द्वे निशे तथा ४६
- गुडूची सारिवे द्वे च मूर्वा वासा शतावरी
- त्रायन्तीन्द्र यवा यष्टी भूनिम्बश्चाक्षभागिकाः ४७
- घृतं चतुर्गुणं दद्यात् घृतादामलकीरसः
- द्विगुणः सर्पिषश्चात्र जलमष्टगुणं भवेत् ४८
- तत्सिद्धं पाययेत्सर्पिर्वातरक्तेषु सर्वथा
- कुष्ठानि रक्तपित्तं च रक्तार्शांसि च पाण्डुताम् ४९
- हृद्रो गगुल्मवीसर्पप्रदरं गण्डमालिकाम्
- क्षुद्र रोगाञ्ज्वरांश्चैव महातिक्तमिदं जयेत् ५०
- कासीसाद्यघृतं कुष्ठे दद्रू पामाशिरः स्फोटादौ
- कासीसं द्वे निशे मुस्तं हरितालं मनः शिलाम्
- कम्पिल्लकं गन्धकं च विडङ्गं गुग्गुलुं तथा ५१
- सिक्थकं मरिचं कुष्ठं तुत्थकं गौरसर्षपान्
- रसाञ्जनं च सिन्दूरं श्रीवासं रक्तचन्दनम् ५२
- इरिमेदं निम्बपत्रं करञ्जं सारिवां वचाम्
- मञ्जिष्ठां मधुकं मांसीं शिरीषं लोध्रपद्मकम् ५३
- हरीतकीं प्रपुन्नाटं चूर्णयेत्कार्षिकान्पृथक्
- ततस्तच्चूर्णमालोड्य त्रिंशत्पलमिते घृते ५४
- स्थापयेत्ताम्रपात्रे च घर्मे सप्तदिनानि वै
- अस्याभ्यङ्गेन कुष्ठानि दद्रुपामाविचर्चिकाः ५५
- शूकदोषा विसर्पाश्च विस्फोटा वातरक्तजाः
- शिरः स्फोटोपदंशाश्च नाडीदुष्टव्रणानि च ५६
- शोथो भगन्दरश्चैव लूताः शाम्यन्ति देहिनाम्
- शोधनं रोपणं चैव सवर्णकरणं घृतम् ५७
- जात्यादिघृतं व्रणे
- जातीनिम्बपटोलाश्च द्वे निशे कटुरोहिणी
- मञ्जिष्ठा मधुकं सिक्थं करञ्जोशीरसारिवाः ५८
- तुत्थं च विपचेत्सम्यक्कल्कैरेभिर्घृतं बुधः
- अस्य लेपात्प्ररोहन्ति सूक्ष्मनाडीव्रणा अपि ५९
- मर्माश्रिताः क्लेदिनश्च गम्भीराः सरुजो व्रणाः ६०
- बिन्दुघृतं जलोदरविरेचनादौ
- चित्रकः शङ्खिनी पथ्या कंपिल्लास्त्रिवृतायुगम्
- वृद्धदारुश्च शम्याको दन्ती दंतीफलं तथा ६१
- कोशातकी देवदाली नीलिनी गिरिकर्णिका
- सातला पिप्पलीमूलं विडङ्गं कुटकी तथा ६२
- हेमक्षीरी च विपचेत्कल्कैरेभिः पिचून्मितैः
- घृतप्रस्थं स्नुहीक्षीरे षट्पले तु पलद्वये ६३
- अर्कक्षीरस्य मतिमांस्तत्सिद्धं गुल्मकुष्ठहृत्
- हन्ति शूलमुदावर्त्तं शोथाध्मानं भगन्दरम् ६४
- शमयत्युदराण्यष्टौ निपातं बिन्दुसङ्ख्यया
- गोदुग्धेनोष्ट्रदुग्धेन कौलत्थेन शृतेन वा ६५
- उष्णोदकेन वा पीत्वा बिन्दुवेगैर्विरेचयेत्
- एतद्विन्दुघृतं नाम नाभिलेपाद्वि रेचयेत् ६६
- त्रिफलाद्यं घृतं नेत्ररोगे तिमिरादौ
- त्रिफलाया रसप्रस्थं प्रस्थं वासारसोद्भवम्
- भृङ्गराजरसप्रस्थं प्रस्थमाजं पयः स्मृतम्
- दत्त्वा तत्र घृतप्रस्थं कल्कैः कर्षमितैः पृथक् ६७
- त्रिफला पिप्पली द्रा क्षा चन्दनं सैन्धवं बला
- काकोली क्षीरकाकोली मेदा मरिचनागरम् ६८
- शर्करा पुण्डरीकं च कमलं च पुनर्नवा
- निशायुग्मं च मधुकं सर्वै रेभिर्विपाचयेत् ६९
- नक्तान्ध्यं नकुलान्ध्यं च कण्डूं पिल्लं तथैव च
- नेत्रस्रावं च पटलं तिमिरं काचकं जयेत् ७०
- अन्येऽपि प्रशमं यान्ति नेत्ररोगाः सुदारुणाः
- त्रैफलं घृतमेतद्धि पाने नस्यादिषूचितम् ७१
- गौराद्यं घृतं व्रणे
- द्वे हरिद्रे स्थिरा मूर्वा सारिवा चन्दनद्वयम्
- मधुपर्णी च मधुकपद्मकेशरपद्मकैः ७२
- उत्पलोशीरमेदाभिस्त्रिफलापञ्चवल्कलैः
- कल्कैः कर्षमितैरेतैर्घृतप्रस्थं विपाचयेत् ७३
- विसर्पलूताविस्फोटविषकीटव्रणापहम्
- गौराद्यमिति विख्यातं सर्पिर्विषहरं परम् ७४
- मयूरघृतं शिरोरोगादौ
- बलामधुकरास्नाभिर्दशमूलफलत्रिकैः
- पृथग्द्विपलिकैरेभिद्रो र्ण!नीरेण पाचयेत् ७५
- मयूरं पक्षपित्तान्त्रयकृत्पादास्यवर्जितम्
- पादशेषं शृतं नीत्वा क्षीरं दत्त्वा च तत्समम् ७६
- घृतप्रस्थं पचेत्सम्यग्जीवनीयैः पिचून्मितैः
- तत्सिद्धं शिरसः पीडां मन्यापृष्ठग्रहं तथा ७७
- अर्दितं कर्णनासाऽक्षिजिह्वागलरुजो जयेत्
- पाने नस्ये तथाऽभ्यङ्गे कर्णपूरेषु युज्यते ७८
- हेमन्तकालशिशिरवसन्तेषु च शस्यते ७९
- फलघृतं वन्ध्यादोषे
- त्रिफला मधुकं कुष्ठं द्वे निशे कटुरोहिणी
- विडङ्गं पिप्पली मुस्ता विशाला कट्फलं वचा ८०
- द्वे मेदे द्वे च काकोल्यौ सारिवे द्वे प्रियङ्गुका
- शतपुष्पा हिङ्गु रास्ना चन्दनं रक्तचन्दनम् ८१
- जाती पुष्पं तुगाक्षीरी कमलं शर्करा तथा
- अजमोदा च दन्ती च कल्कैरेतैश्च कार्षिकैः ८२
- जीवद्वत्सैकवर्णाया घृतप्रस्थं च गोः क्षिपेत्
- चतुर्गुणेन पयसा पचेदारण्यगोमयैः ८३
- सुतिथौ पुष्यनक्षत्रे मृद्भाण्डे ताम्रजे तथा
- ततः पिबेच्छुभदिने नारी वा पुरुषोऽथवा ८४
- एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते
- पुत्रानुत्पादयेद्धीमान्वन्ध्याऽपि लभते सुतम् ८५
- अनायुषं या जनयेद्या च सूता पुनः स्थिता
- पुत्रं प्राप्नोति सा नारी बुद्धिमन्तं शतायुषम् ८६
- एतत्फलघृतं नाम भरद्वाजेन भाषितम्
- अनुक्तं लक्ष्मणामूलं क्षिपेत्तत्र चिकित्सकः ८७
- लघुफलघृतं योनिरोगे
- त्रिफलां द्वे सहचरे गुडूचीं सपुनर्नवाम्
- शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ८८
- कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
- तत्सिद्धंपाययेन्नारीं योनिशूलनिपीडिताम् ८९
- पीडिता चलिता या च निःसृता विवृता च या
- पित्तयोनिश्च विभ्रान्ता षण्ढयोनिश्च या स्मृता ९०
- प्रपद्यन्ते हिताः स्थानं गर्भं गृह्णन्ति चासकृत्
- एतत्फलघृतं नाम योनिदोषहरं परम् ९१
- पञ्चतित्तकं घृतं विषमज्वरादौ
- वृषनिम्बामृताव्याघ्रीपटोलानां शृतेन च
- कल्केन पक्वं सर्पिस्तु निहन्याद्विषमज्वरान्
- पाण्डुं कुष्ठं विसर्पं च कृमीनर्शांसि नाशयेत् ९२
- अथ तैल कल्पना
- लाक्षादितैलं विषमज्वरादौ
- लाक्षाढकं क्वाथयित्वा जलस्य चतुराढकैः
- चतुर्थांशं शृतं नीत्वा तैलप्रस्थे विनिक्षिपेत् ९३
- मस्त्वाढकं च गोदध्नस्तत्रैव विनियोजयेत्
- शतपुष्पामश्वगन्धां हरिद्रा ं! देवदारु च ९४
- कुटकीं रेणुकां मूर्वां कुष्ठं च मधुयष्टिकाम्
- चन्दनं मुस्तकं रास्नां पृथक्कर्षप्रमाणतः ९५
- चूर्णयेत्तत्र निक्षिप्य साधयेन्मृदुवह्निना
- अस्याभ्यङ्गात्प्रशाम्यन्ति सर्वेऽपि विषमज्वराः ९६
- कासश्वासप्रतिश्यायत्रिकपृष्ठग्रहास्तथा
- वातं पित्तमपस्मारमुन्मादं यक्षराक्षसान् ९७
- कण्डूशूलं च दौर्गन्ध्यं गात्राणां स्फुरणं जयेत्
- पुष्टगर्भा भवेदस्य गर्भिण्यभ्यङ्गतो भृशम् ९८
- अङ्गारतैलं सर्वज्वरेषु
- मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्र वारुणी
- बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ९९
- आरनालाढके तत्र तैलप्रस्थं विपाचयेत्
- तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् १००
- नारायणतैलं वातरोगादौ
- अश्वगन्धां बलां बिल्वं पाटलां बृहतीद्वयम्
- श्वदंष्ट्राऽतिबलानिम्बं स्योनाकं च पुनर्नवाम् १०१
- प्रसारिणीमग्निमन्थं कुर्याद्दशपलं पृथक्
- चतुद्रो र्णे! जले पक्त्वा पादशेषं शृतं नयेत् १०२
- तैलाढकेन संयोज्य शतावर्या रसाढकम्
- क्षिपेत्तत्र च गोक्षीरं तैलात्तस्माच्चतुर्गुणम् १०३
- शनैर्विपाचयेदेभिः कल्कैर्द्विपलिकैः पृथक्
- कुष्ठैलाचन्दनं मूर्वा वचा मांसी ससैन्धवैः १०४
- अश्वगन्धावचारास्नाशतपुष्पेन्द्र दारुभिः
- पर्णीचतुष्टयेनैव तगरेण च साधयेद् १०५
- तत्तैलं नावनेऽभ्यङ्गे पाने बस्तौ न योजयेत्
- पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् १०६
- खल्लत्वं बधिरत्वं च गतिभङ्गं कटिग्रहम्
- गात्रशोषेन्द्रि यध्वंसावसृक्शुक्रज्वरक्षयान् १०७
- अन्त्रवृद्धिं कुरण्डं च दन्तरोगं शिरोग्रहम्
- पार्श्वशूलं च पाङ्गुल्यं बुद्धिहानिं च गृध्रसीम् १०८
- अन्यांश्च विषमान्वाताञ्जयेत्सर्वाङ्गसंश्रयान्
- अस्य प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते १०९
- मर्त्यो गजो वा तुरगस्तैलादस्मात्सुखी भवेत्
- यथा नारायणो देवो दुष्टदैत्यविनाशनः ११०
- तथैव वातरोगाणां नाशनं तैलमुत्तमम् १११
- वारुणीतैलं कम्परोगे
- वारुण्या औत्तरं मूलं कुट्टितं तु पलत्रयम्
- पलद्वादशकं तैलं क्षणं वह्नौ विपाचितम् ११२
- निष्कत्रयं भक्तयुक्तं सेवेतास्माद्विनश्यति
- हस्तकम्पः शिरःकम्पः कम्पो मन्याशिराभवः ११३
- बलाद्यं तैलं वातव्याधौ
- बलामूलकषायेण दशमूलशृतेन च
- कुलत्थयवकोलानां क्वाथेन पयसा तथा ११४
- अष्टाष्टभागयुक्तेन भागमेकं च तैलकम्
- गणेन जीवनीयेन शतावर्येन्द्र दारुणा ११५
- मञ्जिष्ठाकुष्ठशैलेयतगरागरुसैन्धवैः
- वचापुनर्नवामांसीसारिवाद्वयपत्रकैः ११६
- शतपुष्पाऽश्वगंधाभ्यामेलया च विपाचयेत्
- गर्भार्थिनीनां नारीणां नराणांक्षीणरेतसाम् ११७
- व्यायामक्षीणगात्राणां सूतिकानां च युज्यते
- राजयोग्यमिदं तैलं सुखिनां च विशेषतः
- बलातैलमिति ख्यातं सर्ववातामयापहम् ११८
- प्रसारिणीतैलं वातकफरोगादौ
- प्रसारिणीपलशतं जलद्रो णे विपाचयेत्
- पादशिष्टः शृतो ग्राह्यस्तैलं दधि च तत्समम् ११९
- काञ्जिकं च समं तैलात्क्षीरं तैलाच्चतुर्गुणम्
- तैलात्तथाऽष्टमांशेन सर्वकल्कानि योजयेत् १२०
- मधुकं पिप्पलीमूलं चित्रकः सैन्धवं वचा
- प्रसारिणी देवदारु रास्ना च गजपिप्पली १२१
- भल्लातः शतपुष्पा च मांसी चैभिर्विपाचयेत्
- एतत्तैलं वरं पक्वं वातश्लेष्मामयाञ्जयेत् १२२
- कौब्जं पङ्गुत्वखञ्जत्वे गृध्रसीमर्दितं तथा
- हनुपृष्ठशिरोग्रीवाकटिस्तम्भान्विनाशयेत् १२३
- अन्यांश्च विषमान्वातान्सर्वानाशु व्यपोहति १२४
- माषादितैलं वातविकारादौ
- माषा यवातसी क्षुद्रा मर्कटी च कुरण्टकः
- गोकण्टष्टुण्टुकश्चैषां कुर्यात्सप्तपलं पृथक् १२५
- चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत्
- कर्पासास्थीनि बदरं शणबीजं कुलत्थकम् १२६
- पृथक्चतुर्दशपलं चतुर्गुणजले पचेत्
- चतुर्थांशावशिष्टं च गृह्णीयात्क्वाथमुत्तमम् १२७
- प्रस्थैकं छागमांसस्य चतुःषष्टिपले जले
- निक्षिप्य पाचयेद्धीमान्पादशेषं शृतं नयेत् १२८
- तैलप्रस्थे ततः सर्वान्क्वाथानेतान्विनिक्षिपेत्
- कल्कैरेभिश्च विपचेदमृताकुष्ठनागरैः १२९
- रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया
- बलाप्रसारिणीभ्यां च मांस्या कटुकया तथा १३०
- पृथगर्द्धपलैरेतैः साधयेन्मृदुवह्निना
- हन्यात्तैलमिदं शीघ्रं ग्रीवास्तम्भापबाहुकौ १३१
- अर्धाङ्गशोषमाक्षेपमूरुस्तम्भापतानकौ
- शाखाकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा
- माषादिकमिदं तैलं सर्ववातविकारनुत् १३२
- शतावरीतैलं वातादौ
- शतावरी बलायुग्मं पर्ण्यौ गन्धर्वहस्तकः
- अश्वगन्धा श्वदंष्ट्रश्च बिल्वः काशः कुरण्टकः १३३
- एषां सार्द्धपलान्भागान्कल्पयेच्च विपाचयेत्
- चतुर्गुणेन नीरेण पादशेषं शृतं नयेत् १३४
- नियोज्य तैलप्रस्थे च क्षीरप्रस्थं विनिक्षिपेत्
- शतावरीरसप्रस्थं जलप्रस्थं च योजयेत् १३५
- शतावरीदेवदारुमांसीतगरचन्दनम्
- शतपुष्पा बला कुष्ठमेला शैलेयमुत्पलम् १३६
- ऋद्धिर्मेदा च मधुकं काकोली जीवकस्तथा
- एषां कर्षसमैः कल्कैस्तैलं गोमयवह्निना १३७
- पचेत्तेनैव तैलेन स्त्रीषु नित्यं वृषायते
- नारी च लभते पुत्रं योनिशूलं च नश्यति १३८
- अङ्गशूलं शिरः शूलं कामलां पाण्डुतां गरम्
- गृध्रसीप्लीहशोषांश्च मेहान्दण्डापतानकम् १३९
- सदाहं वातरक्तं च वातपित्तगदार्दितम्
- असृग्दरं तथाध्मानं रक्तपित्तं च नश्यति १४०
- शतावरीतैलमिदं कृष्णात्रेयेण भाषितम्
- ॐ नारायण्यै स्वाहा उत्तराभिमुखो भूत्वा खनेत्खदिरशङ्कुना १४१
- ॐ सर्वव्याधिनाशिन्यै स्वाहा इत्युत्पाटनमन्त्रः
- ॐ कुमारजीविन्यै स्वाहा इति पानमन्त्रः १४२
- कासीसाद्यं तैलमर्श आदौ
- कासीसं लाङ्गली कुष्ठं शुण्ठी कृष्णा च सैन्धवम्
- मनः शिलाश्वमारश्च विडङ्गं चित्रको वृषः १४३
- दन्ती कोशातकीबीजं हेमाह्वा हरितालकम्
- कल्कैः कर्षमितैरेतैस्तैलप्रस्थं विपाचयेत् १४४
- स्नुह्यर्कपयसी दद्यात्पृथग्द्विपलसंमिते
- चतुर्गुणं गवां मूत्रं दत्त्वा सम्यक्प्रसाधयेत् १४५
- कथितं खरनादेन तैलमर्शोविनाशनम्
- क्षारवत्पातयत्येतदर्शांस्यभ्यङ्गतो भृशम्
- वलीर्न दूषयत्येतत्क्षारकर्मकरं स्मृतम् १४६
- पिण्डतैलं वातरक्ते
- मञ्जिष्ठासारिवासर्जयष्टीसिक्थैः पलोन्मितैः
- पिण्डाख्यं साधयेत्तैलमभ्यङ्गात् वातरक्तनुत् १४७
- अर्कतैलं कुष्ठरोगादौ
- अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
- नाशयेत्सार्षपं तैलं पामां कच्छूं विचर्चिकाम् १४८
- मरिचादितैलं कुष्ठव्रणादौ
- मरिचं हरितालं च त्रिवृतं रक्तचन्दनम्
- मुस्तं मनःशिला मांसी द्वे निशे देवदारु च १४९
- विशाला करवीरं च कुष्ठमर्कपयस्तथा
- तथैव गोमयरसं कुर्यात्कर्षमितान्पृथक् १५०
- विषं चार्द्धपलं देयं प्रस्थं च कटुतैलकम्
- गोमूत्रं द्विगुणं दद्याज्जलं च द्विगुणं भवेत् १५१
- मरिचाद्यमिदं तैलं सिध्मकुष्ठहरं परम्
- जयेत्कुष्ठानि सर्वाणि पुण्डरीकं विचर्चिकाम्
- पामां श्वित्राणि रक्तं च कण्डूं कच्छूं प्रणाशयेत् १५२
- त्रिफलादितैलमरूंषिकायाम्
- त्रिफलाऽरिष्टभूनिम्बं द्वे निशे रक्तचन्दनम्
- एतैः सिद्धमरूंषीणां तैलमभ्यज्जने हितम् १५३
- निम्बबीजतैलं पलिते
- भावयेन्निम्बबीजानि भृङ्गराजरसेन हि
- तथाऽसनस्य तोयेन तत्तैलं हन्ति नस्यतः १५४
- अकालपलितं सद्यः पुंसां दुग्धान्नभोजिनाम् १५५
- यष्टीमधुकतैलं खलिते
- यष्टीमधुकक्षाराभ्यां नवधात्रीफलैः शृतम्
- तैलं नस्यकृतं कुर्यात्केशाञ्श्मश्रूणि सङ्घशः १५६
- करञ्जतैलमिन्द्र लुप्तरोगे
- करञ्जश्चित्रको जाती करवीरश्च पाचितम्
- तैलमेभिर्द्रुतं हन्यादभ्यङ्गादिन्द्र लुप्तकम् १५७
- नीलिकाद्यं तैलं केशकल्पादौ
- नीलिका केतकीकन्दं भृङ्गराजः कुरण्टकः
- तथाऽजुनस्य पुष्पाणि बीजकात्कुसुमान्यपि १५८
- कृष्णास्तिलाश्च तगरं समूलं कमलं तथा
- अयोरजः प्रियङ्गुश्च दाडिमत्वग्गुडूचिका १५९
- त्रिफला पद्मपङ्कश्च कल्कैरेभिः पृथक्पृथक्
- कर्षमात्रः पचेत्तैलं त्रिफलाक्वाथसंयुतम् १६०
- भृङ्गराजरसेनैव सिद्धं केशस्थिरीकृतम्
- अकालपलितं हन्ति दारुणं चोपजिह्विकाम् १६१
- भृङ्गराजतैलमकालपलितादौ
- भृङ्गराजरसेनैव लोहकिट्टं फलत्रिकम्
- सारिवां च पचेत्कल्कैस्तैलं दारुणनाशनम्
- अकालपलितं कण्डूमिन्द्र लुप्तं च नाशयेत् १६२
- इरिमेदाद्यं तैलं मुखदन्तरोगादौ
- इरिमेदत्वचं क्षुण्णां पचेच्छतपलोन्मिताम्
- जलद्रो णेततः क्वाथं गृह्णीयात्पादशेषितम् १६३
- तैलस्यार्द्धाढकं दत्त्वा कल्कैः कर्षमितैः पचेत्
- इरिमेदलवङ्गाभ्यां गैरिकागरुपद्मकैः १६४
- मञ्जिष्ठालोध्रमधुकैर्लाक्षान्यग्रोधमुस्तकैः
- त्वग्जातीफलकर्पूरकङ्कोलखदिरैस्तथा १६५
- पतङ्गधातकीपुष्पसूक्ष्मैलानागकेशरैः
- कट्फलेन च संसिद्धं तैलं मुखरुजं जयेत् १६६
- प्रदुष्टमांसं पलितं शीर्णदन्तं च सौषिरम्
- श्यावदन्तं प्रहर्षं च विद्र धिं कृमिदन्तकम् १६७
- दन्तस्फुटं च दौर्गन्ध्यं जिह्वाताल्वोष्ठजां रुजम् १६८
- जात्यादितैलं नाडीव्रणादौ
- जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
- सिक्थं समधुकं कुष्ठं द्वेनिशे कटुरोहिणी १६९
- मञ्जिष्ठापद्मकं लोध्रमभया नीलमुत्पलम्
- तुत्थकं सारिवाबीजं नक्तमालस्य दापयेत् १७०
- एतानि समभागानि पिष्ट्वा तैलं विपाचयेत्
- नाडीव्रणे समुत्पन्ने स्फोटके कच्छुरोगिषु १७१
- सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि
- नखदन्तक्षते देहे व्रणे दुष्टे प्रशस्यते १७२
- हिङ्ग्वादितैलं कर्णशूले
- हिङ्गुतुम्बुरुशुण्ठीभिः कटुतैलं विपाचयेत्
- तस्य पूरणमात्रेण कर्णशूलं प्रणश्यति १७३
- बिल्वादितैलं बाधिर्ये
- बालबिल्वानि गोमूत्रे पिष्ट्वा तैलं विपाचयेत्
- साजक्षीरं च नीरं च बाधिर्यं हन्ति पूरणात् १७४
- क्षारतैलं कर्णरोगेषु
- बालमूलकशिम्बीनां क्षारः क्षारयुगं तथा
- लवणानि च पञ्चैव हिङ्गुशिग्रु महौषधम् १७५
- देवदारु वचा कुष्ठं शतपुष्पा रसाञ्जनम्
- ग्रन्थिकं भद्र मुस्तं च कल्कैः कर्षमितैः पृथक् १७६
- तैलप्रस्थं च विपचेत्कदलीबीजपूरयोः
- रसाभ्यां मधुशुक्तेन चातुर्गुण्यमितेन च १७७
- पूयस्रावं कर्णनादं शूलं बधिरतां कृमीन्
- अन्यांश्च कर्णजान्रोगान्मुखरोगांश्च नाशयेत् १७८
- मधुशुक्तम्
- जम्बीराणां फलरसः प्रस्थैकः कुडवोन्मितम्
- माक्षिकं तत्र दातव्यं पलैका पिप्पली स्मृता १७९
- एतदेकीकृतं सर्वं मृद्भाण्डे च निधापयेत्
- यवाम्भो मधुसंयुक्तं शृङ्गवेरगुडान्वितम्
- धान्यराशौ त्रिरात्रस्थं मधुशुक्तमुदाहृतम् १८०
- पाठादितैलं पीनसे
- पाठा द्वे च निशे मूर्वा पिप्पली जातिपल्लवैः
- दन्त्या च तैलं संसिद्धं नस्यं स्याद्दुष्टपीनसे १८१
- व्याघ्रीतैलं पीनसे
- व्याघ्रीदन्तीवचाशिग्रुतुलसीव्योषसैन्धवैः
- कल्कश्च पाचनं तैलं पूतिनासागदापहम् १८२
- कुष्ठादितैलं छिक्कायां
- कुष्ठंबिल्वकणाशुण्ठीद्रा क्षाकल्ककषायवत्
- साधितं तैलमाज्यं वा नस्यात्क्षवथुनाशनम् १८३
- गृहधूमतैलं नासार्शसि
- गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः
- सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् १८४
- वज्रतैलं कुष्ठादौ
- वज्रीक्षीरं रविक्षीरं द्र वं धत्तूरचित्रजम् १८५
- महिषीविड्भवं द्रा वं सर्वांशं तिलतैलकम्
- पचेत्तैलावशेषं च गोमूत्रेऽथ चतुर्गुणे १८६
- तैलावशेषं पक्त्वा च तत्तैलं प्रस्थमात्रकम्
- गन्धकाग्निशिलातालं विडङ्गातिविषाविषम् १८७
- तिक्तकोशातकीकुष्ठवचामांसीकटुत्रयम्
- पीतदारु च यष्ट्याह्वं स्वर्जिकाक्षारजीरकम् १८८
- देवदारु च कर्षांशं चूर्णं तैले विनिक्षिपेत्
- वज्रतैलमिदं ख्यातमभ्यङ्गात्सर्वकुष्ठनुत् १८९
- करवीरतैलं लोमशातनार्थम्
- करवीरशिफादन्ती त्रिवृत्कोशातकी फलम्
- रम्भाक्षारोदके तैलं प्रशस्तं लोमशातनम् १९०
- चन्दनादितैलं क्षयरोगादौ
- चन्दनाम्बुनखैर्याम्यं यष्टीशैलेयपद्मकम्
- मञ्जिष्ठा सरलं दारु सेव्यैलं पूतिकेसरम् १९१
- पत्रकैलं मुरामांसी कङ्कोलं वनिताऽम्बुदम्
- हरिद्रा सारिवा तिक्ता लवङ्गागरुकुङ्कुमम् १९२
- त्वग्रेणुनलिका चेति तैलं मस्तु चतुर्गुणम्
- लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्द्धनम् १९३
- अपस्मारज्वरोन्मादकृत्याऽलक्ष्मीविनाशनम्
- आयुः पुष्टिकरं चैव वशीकरणमुत्तमम्
- विशेषात्क्षयरोगघ्नं रक्तपित्तहरं परम् १९४
- वचादितैलं गण्डमालायाम्
- वचां शटीं हरिद्रे द्वे देवदारु महौषधी
- हरीतकीमतिविषां मुस्तकेन्द्र यवान्समान् १९५
- एतान्दशपलान्भागांश्चतुद्रो र्णे!ऽम्भसः पचेत्
- चक्रमर्दरसैस्तैलं कटुकं मृदुनाऽग्निना १९६
- पादशेषे विनिक्षिप्य सिन्दूरमवतारयेत्
- एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् १९७
- लाङ्गलीतैलं गण्डमालायाम्
- निर्गुण्डीस्वरसे तैलं लाङ्गलीमूलकल्कितम्
- तैलं नस्यान्निहन्त्याशु गण्डमालां सुदारुणाम् १९८
- धत्तूरादितैलं वातरोगादौ
- धत्तूररसमादाय हयमारान्तिकारसम्
- भृङ्गराजरसश्चैव सारिणी निम्बपत्रकम् १९९
- शोभाञ्जनश्चित्रकश्च अश्वगन्धा प्रसारिणी
- शिरीषः कुटजोऽनन्ता शाल्मली नक्तपत्रकम् २००
- रविप्रियो महानिम्बो डिण्डिघोषा महेरणा
- बला ज्योतिष्मती चैव श्यामाकश्चक्रमर्दकः २०१
- एतैस्तु रसमादाय तैलतुल्यं च दीयते
- देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् २०२
- मरिचं त्रिवृता दन्ती हरितालं मनः शिला
- कम्पिल्लको गन्धकश्च खदिरः पिप्पली वचा २०३
- रसाञ्जनं च सिन्दूरं श्रीवासो रक्तचन्दनम्
- इरिमेदस्तथा तुम्बी मञ्जिष्ठा सिन्दुवारकः २०४
- करवीरजटा रास्ना विश्वा श्रेष्ठा च पौष्करम्
- शटी तालीसपत्रं च प्रियङ्गू रेणुका तथा २०५
- चातुर्जातकमञ्जीरं कङ्कोलं जातिपत्रिका
- ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् २०६
- आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम्
- मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्नि पचेत् २०७
- मज्जाश्रितं त्वग्गतं च वातं चास्थिगतं तथा
- ऊरुग्रहं चाढ्यवातं कृच्छ्रं दण्डापतानकम् २०८
- कुब्जत्वं चाथ शोथं च पक्षाघातं तथाऽदितम्
- हनुस्तम्भं शिरः कम्पं मूर्च्छितं दृष्टिविभ्रमम् २०९
- अपस्मारं तथोन्मादं तथा चैवापतन्त्रकम्
- आक्षेपकं चास्थिभग्नं सन्धिभग्नं च नाशयेत् २१०
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्नेहकल्पनानाम नवमोऽध्यायः
आसवारिष्टादिसन्धानकल्पना
[सम्पाद्यताम्]- अथासवारिष्टादिसन्धानकल्पनानाम दशमोऽध्यायः
- आसवारिष्टसंज्ञा
- द्र वेषु चिरकालस्थं द्र व्यं यत्संधितं भवेत्
- आसावारिष्टभेदैस्तु प्रोच्यते भेषजोचितम् १
- आसवारिष्टयोर्भेदः
- यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः
- अरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम् २
- अनुक्तमानारिष्टेषु जलादिमानव्यवस्था
- अनुक्तमानारिष्टेषु द्र वद्रो णे तुलां गुडम्
- क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम् ३
- ज्ञेयः शीतरसःसीधुरपक्वमधुरद्र वैः
- सिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः ४
- सुराप्रसन्नादीनां मद्यभेदानां लक्षणानि
- परिपक्वान्नसन्धानसमुत्पन्नां सुरां जगुः
- सुरामण्डः प्रसन्ना स्यात्ततः कादम्बरी घना ५
- तदधो जगलो ज्ञेयो मेदको जगलाद्घनः
- पक्वोऽसौ हृतसारः स्यात्सुराबीजं च किण्वकम् ६
- वारुणीशुक्तयोर्लक्षणे
- यत्तालखर्जूररसैः संधिता सा हि वारुणी
- कन्दमूलफलादीनि सस्नेहलवणानि च
- यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते ७
- चुक्रलक्षणम्
- विनष्टमम्लतां यातं मद्यं वा मधुरद्र वः
- विनष्टः सन्धितो यस्तु तच्च्रुकमभिधीयते ८
- गुडशुक्तेक्षुशुक्तद्रा क्षाशुक्तानां लक्षणानि
- गुडाम्बुना सतैलेन कन्दमूलफलैस्तथा
- सन्धितं चाम्लतां यातं गुडशुक्तं तदुच्यते ९
- एवमेवेक्षुशुक्तं स्यान्मृद्वीकासम्भवं तथा १०
- तुषाम्बुसौवीरयोर्लक्षणे
- तुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवैः
- यवैस्तु निस्तुषैः पक्वैः सौवीरं सन्धितं भवेत् ११
- काञ्जिकसण्डाक्योर्लक्षणे
- कुल्माषधान्यमण्डादिसन्धितं काञ्जिकं विदुः
- सण्डाकी सन्धिता ज्ञेया मूलकैः सर्षपादिभिः १२
- अथासवाः
- तत्रादावुशीरासवो रक्तपित्तादौ
- उशीरं बालकं पद्मं काश्मरीं नीलमुत्पलम्
- प्रियङ्गुं पद्मकं लोध्रं मञ्जिष्ठां धन्वयासकम् १३
- पाठां किराततिक्तं च न्यग्रोधोदुम्बरं शटीम्
- पर्पटं पुण्डरीकं च पटोलं काञ्चनारकम् १४
- जंबूशाल्मलिनिर्यासं प्रत्येकं पलसम्मितान्
- भागान्सुचूर्णितान्कृत्वा द्रा क्षायाः पलविंशतिम् १५
- धातकीं षोडशपलां जलद्रो णद्वये क्षिपेत्
- शर्करायास्तुलां दत्त्वा क्षौद्र स्यैकतुलां तथा १६
- मासैकं स्थापयेद्भाण्डे मांसीमरिचधूपिते
- उशीरासव इत्येष रक्तपित्तविनाशनः
- पाण्डुकुष्ठप्रमेहार्शः कृमिशोथहरस्तथा १७
- कुमार्यासवः प्रमेहादौ
- सुपक्वरससंशुद्धं कुमार्याः पत्रमाहरेत्
- यत्नेन रसमादाय पात्रे पाषाणमृण्मये १८
- द्रो णे गुडतुलां दत्त्वा घृत भाण्डे निधापयेत्
- माक्षिकं पक्वलोहं च तस्मिन्नर्द्धतुलां क्षिपेत् १९
- कटुत्रिकं लवङ्गं च चातुर्जातकमेव च
- चित्रकं पिप्पलीमूलं विडङ्गं गजपिप्पली २०
- चविकं हपुषा धान्यं क्रमुकं कटुरोहणी
- मुस्ता फलत्रिकं रास्ना देवदारु निशाद्वयम् २१
- मूर्वा मधुरसा दन्ती मूलं पुष्करसम्भवम्
- बला चातिबला चैव कपिकच्छुस्त्रिकण्टकम् २२
- शतपुष्पा हिङ्गुपत्री आकल्लकमुटिङ्गणम्
- पुनर्नवाद्वयं लोध्रं धातुमाक्षिकमेव च २३
- एषां चार्द्धपलं दत्त्वा धातक्यास्तु पलाष्टकम्
- पलं चार्द्धपलं चैव पलद्वयमुदाहृतम् २४
- वपुर्वयः प्रमाणेन बलवर्णाग्निदीपनम्
- बृंहणं रोचनं वृष्यं पक्तिशूलनिवारणम् २५
- अष्टावुदरजान्रोगान्क्षयमुग्रं च नाशयेत्
- विंशतिं मेहजान्रोगानुदावर्त्तमपस्मृतिम् २६
- मूत्रकृच्छ्रमपस्मारं शुक्रदोषं तथाऽश्मरीम्
- कृमिजं रक्तपित्तं च नाशयेत्तु न संशयः २७
- पिप्पल्याद्यासवः क्षयादौ
- पिप्पली मरिचं चव्यं हरिद्रा चित्रको घनः २८
- विडङ्गं क्रमुको लोध्रः पाठा धात्र्! येलवालुकम्
- उशीरं चन्दनं कुष्ठं लवंगं तगरं तथा २९
- मांसी त्वगेलापत्रं च प्रियङ्गुर्नागकेशरम्
- एषामर्द्धपलान्भागान्सूक्ष्मचूर्णीकृताञ्छुभान् ३०
- जलद्रो णद्वये क्षिप्त्वा दद्याद् गुडतुलात्रयम्
- पलानि दश धातक्या द्रा क्षा षष्टिपला भवेत् ३१
- एतान्येकत्र संयोज्य मृद्भाण्डे च विनिक्षिपेत्
- ज्ञात्वागतरसं सर्वं पाययेदग्न्यपेक्षया ३२
- क्षयं गुल्मोदरं कार्श्यं ग्रहणीं पांडुतां तथा
- अर्शांसि नाशयेच्छीघ्रं पिप्पल्याद्यासवस्त्वयम् ३३
- लोहासवः पाण्ड्वादौ
- लोहचूर्णं त्रिकटुकं त्रिफलां च यवानिकाम्
- विडङ्गं मुस्तकं चित्रं चतुःसङ्ख्यापलंपृथक् ३४
- धातकीकुसुमानां तु प्रक्षिपेत्पलविंशतिम्
- चूर्णीकृत्य ततः क्षौद्रं चतुःषष्टिपलं क्षिपेत् ३५
- दद्याद् गुडतुलां तत्र जलद्रो णद्वयं तथा
- घृतभाण्डे विनिक्षिप्य निदध्यान्मासमात्रकम् ३६
- लोहासवममुं मत्तर्यः पिबेद्वह्निकरं परम्
- पाण्डुश्वयथुगुल्मानि जठराण्यर्शसां रुजम् ३७
- कुष्ठं प्लीहामयं कण्डूं कासं श्वासं भगन्दरम्
- अरोचकं च ग्रहणीं हृद्रो गं च विनाशयेत् ३८
- अथारिष्टाः
- तत्रादौ मृदीकारिष्टोऽश प्रभृतिरोगेषु
- मृद्वीकायाः पलशतं चतुद्रो र्णे!ऽम्भसः पचेत्
- द्रो णशेषे सुशीते च पूते तस्मिन्प्रदापयेत् ३९
- तुले द्वे क्षौद्र खण्डाभ्यां धातक्याः प्रस्थमेव च
- कङ्कोलकं लवङ्गं च फलं जात्यास्तथैव च ४०
- पलांशकं च मरिचत्वगेलापत्रकेसराः
- पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुके ४१
- घृतभाण्डे विनिक्षिप्य चन्दनागरुधूपिते
- कर्पूरवासितो ह्येष ग्रहण्या दीपनः परः ४२
- अर्शसां नाशने श्रेष्ठ उदावर्त्तस्य गुल्मनुत्
- जठरकृमिकुष्ठानि व्रणास्तु विविधास्तथा ४३
- कुटजारिष्टो ज्वरादौ
- तुलां कुटजमूलस्य मृद्वीकाऽद्धतुलां तथा
- मधूकपुष्पकाश्मर्यौ भागान्दशपलोन्मितान् ४४
- चतुद्रो र्णे!ऽम्भसः पक्त्वा क्वाथे द्रो णावशेषिते
- धातक्या विंशतिपलं गुडस्य च तुलां क्षिपेत् ४५
- मासमात्रं स्थितो भाण्डे कुटजारिष्टसञ्ज्ञितः
- ज्वरान्प्रशमयेत्सर्वान्कुर्यात्तीक्ष्णं धनञ्जयम् ४६
- विडङ्गारिष्टो विद्र ध्यादौ
- विडङ्गं ग्रन्थिकं रास्ना कुटजत्वक्फलानि च ४७
- पाठैलवालुकं धात्री भागान्पञ्चपलान्पृथक्
- अष्टद्रो णेऽम्भसः पक्त्वा कुर्याद् द्रो णावशेषितम् ४८
- पूते शीते क्षिपेत्तत्र क्षौद्रं पलशतत्रयम्
- धातकीं विंशतिपलां त्रिजातं द्विपलं तथा ४९
- प्रियङ्गुकाञ्चनाराणां सलोध्राणां पलंपलम्
- व्योषस्य च पलान्यष्टौ चूर्णीकृत्य प्रदापयेत् ५०
- घृतभाण्डे विनिक्षिप्य मासमेकं विधारयेत्
- ततः पिबेद्यथाऽह तु जयेद्विद्र धिमूर्जितम् ५१
- ऊरुस्तम्भाश्मरीमेहान्प्रत्यष्ठीलाभगन्दरान्
- गण्डमालां हनुस्तम्भं विडङ्गारिष्टसञ्ज्ञितः ५२
- देवदार्वाद्यरिष्टः प्रमेहादौ
- तुलाऽद्ध देवदारु स्याद्वासा च पलविंशतिः
- मज्जिष्ठेन्द्र यवा दन्ती तगरं रजनीद्वयम् ५३
- रास्ना कृमिघ्नं मुस्तं च शिरीषं खदिरार्जुनौ
- भागान्दशपलान्दद्याद्यवान्या वत्सकस्य च ५४
- चन्दनस्य गुडूच्याश्च रोहिण्याश्चित्रकस्य च
- भागानष्टपलानेतानष्टद्रो णेऽम्भसः पचेत् ५५
- द्रो णशेषे कषाये च पूते शीते प्रदापयेत्
- धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ५६
- व्योषस्य द्विपलं दद्यात् त्रिजातस्य चतुष्पलम्
- चतुष्पलं प्रियङ्गोश्च द्विपलं नागकेशरम् ५७
- सर्वाण्येतानि सञ्चूर्ण्य घृतभाण्डे निधापयेत्
- मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम् ५८
- वातरोगान्ग्रहण्यर्शो मूत्रकृच्छ्राणि नाशयेत्
- देवदार्वादिकोऽरिष्टः कण्डूकुष्ठविनाशनः ५९
- खदिरारिष्टः कुष्ठादौ
- खदिरस्य तुलाऽद्ध तु देवदारु च तत्समम्
- वाकुची द्वादशपला दार्वी स्यात्पलविंशतिः ६०
- त्रिफला विंशतिपला ह्यष्टद्रो णेऽम्भसः पचेत्
- कषाये द्रो णशेषे च पूते शीते विनिक्षिपेत् ६१
- तुलाद्वयं माक्षिकस्य तुलैका शर्करा मता
- धातक्या विंशतिपलं कङ्कोलं नागकेशरम् ६२
- जातीफलं लवङ्गैलात्वक्पत्राणि पृथक्पृथक्
- पलोन्मितानि कृष्णाया दद्यात्पलचतुष्टयम् ६३
- घृतभाण्डे विनिक्षिप्य मासादूर्ध्वं पिबेन्नरः
- महाकुष्ठानि हृद्रो गं पाण्डुरोगार्बुदे तथा ६४
- गुल्मं ग्रन्थिं कृमीन्कासं श्वासं प्लीहोदरं जयेत्
- एष वै खदिरारिष्टः सर्वकुष्ठनिवारणः ६५
- बब्बूलारिष्टः क्षयकासादौ
- तुलाद्वयं तु बब्बूल्याश्चतुद्रो र्णे! जले पचेत्
- द्रो णशेषे रसे शीते गुडस्य त्रितुलां क्षिपेत् ६६
- धातकीं षोडशपलां कृष्णां च द्विपलां तथा
- जातीफलानि कङ्कोलमेलात्वक्पत्रकेशरम् ६७
- लवङ्गं मरिचं चैव पलिकान्युपकल्पयेत्
- मासं भाण्डे स्थितस्त्वेष बब्बूलारिष्टको जयेत्
- क्षयं कुष्ठमतीसारं प्रमेहश्वासकासकम् ६८
- द्रा क्षाऽरिष्टः पुष्ट्यादौ
- द्रा क्षातुलाऽद्ध द्विद्रो णे जलस्य विपचेत् सुधीः
- पादशेषे कषाये च पूते शीते विनिक्षिपेत् ६९
- गुडस्य द्वितुलां तत्र त्वगेलापत्रकेशरम्
- प्रियङ्गुर्मरिचं कृष्णा विडङ्गं चेति चूर्णयेत् ७०
- पृथक्पलोन्मितैर्भागैस्ततो भाण्डे निधापयेत्
- समन्ततो घट्टयित्वा पिबेञ्जातरसंततः ७१
- उरःक्षतं क्षयं हन्ति कासश्वासगलामयान्
- द्रा क्षाऽरिष्टाह्वयः प्रोक्तो बलकृन्मलशोधनः ७२
- रोहितकारिष्टो गुदजग्रहण्यादौ
- रोहितकतुलामेकां चतुद्रो र्णे! जले पचेत्
- पादशेषे रसे शीते पूते पलशतद्वयम् ७३
- दद्याद् गुडस्य धातक्याः पलषोडशिका मता
- पञ्चकोलं त्रिजातं च त्रिफलां च विनिक्षिपेत् ७४
- चूर्णयित्वापलांशेन ततोभाण्डेनिधापयेत्
- मासादूर्ध्वं च पिबतां गुदजा यान्ति संक्षयम् ७५
- ग्रहणीपाण्डुहृद्रो गप्लीहगुल्मोदराणि च
- कुष्ठशोफारुचिहरो रोहितारिष्टसञ्ज्ञितः ७६
- दशमूलारिष्टो वातादौ
- पर्ण्यौ बृहत्यौ गोकण्टो बिल्वोऽग्निमन्थकोऽरलुः ७७
- पाटला काश्मरी चेति दशमूलमिहोच्यते
- दशमूलानि कुर्वीत भागैः पञ्चपलैःपृथक् ७८
- पञ्चविंशत्पलं कुर्याच्चित्रकं पौष्करं तथा
- कुर्याद्विंशपलं लोध्रं गुडूची तत्समा भवेत् ७९
- पलैः षोडशभिर्धात्री रविसङ्ख्यैर्दुरालभा
- खदिरो बीजसारश्च पथ्या चेति पृथक्पलैः ८०
- अष्टभिर्गणितः कुष्ठं मञ्जिष्ठा देवदारु च
- विडङ्गं मधुकं भार्ङ्गी कपित्थोऽक्ष पुनर्नवा ८१
- चव्यं मांसी प्रियङ्गुश्च सारिवा कृष्णजीरकम्
- त्रिवृता रेणुकं रास्ना पिप्पली क्रमुकः शटी ८२
- हरिद्रा शतपुष्पा च पद्मकं नागकेशरम्
- मुस्तमिन्द्र यवः शुण्ठी जीवकर्षभकौ तथा ८३
- मेदा चान्या महामेदा काकोल्यौ ऋद्धिवृद्धिके
- कुर्यात्पृथग्द्विपलिकान्पचेदष्टगुणे जले ८४
- चतुर्थाशं शृतं नीत्वा मृद्भाण्डे संनिधापयेत्
- चतुःषष्टिपलां द्रा क्षां पचेन्नीरे चतुर्गुणे ८५
- त्रिपादशेषं शीतं च पूर्वक्वाथे शृतं क्षिपेत्
- द्वात्रिंशत्पलिकं क्षौद्रं दद्याद् गुणचतुःशतम् ८६
- त्रिंशत्पलानि धातक्याः कङ्कोलं जलचन्दनम्
- जातीफलं लवङ्गं च त्वगेलापत्रकेशरम् ८७
- पिप्पली चेति संचूर्ण्य भागैर्द्विपलिकः पृथक्
- शाणमात्रां च कस्तूरीं सर्वमेकत्र निक्षिपेत् ८८
- भूमौ निखातयेद्भाण्डं ततो जातरसं पिबेत्
- कतकस्य फलं क्षिप्त्वा रसं निर्मलतां नयेत् ८९
- ग्रहणीमरुचिं श्वासं कासं गुल्मं भगन्दरम्
- वातव्याधिं क्षयं छर्दिं पाण्डुरोगं च कामलाम् ९०
- कुष्ठान्यर्शांसि मेहांश्च मन्दाग्निमुदराणि च
- शर्करामश्मरीं मूत्रकृच्छ्रं धातुक्षयं जयेत् ९१
- कृशानां पुष्टिजननो वन्ध्यानां गर्भदः परः
- अरिष्टो दशमूलाख्यस्तेजः शुक्रबलप्रदः ९२
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे आसवारिष्टादिसन्धानकल्पना नाम दशमोऽध्यायः
धातुशोधनमारण
[सम्पाद्यताम्]- अथ धातुशोधनमारणकल्पनानामैकादशोऽध्यायः
- अथ धातूनां समुदायेन शोधनमारणम्
- तत्रादौ धातूनां संख्या नामानि च
- स्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम्
- धातवः सप्त विज्ञेयास्ततस्ताञ्छोधयेद् बुधः १
- धातुशोधनविधिः
- स्वर्णतारारताम्रायः पत्राण्यग्नौ प्रतापयेत्
- निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके २
- गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
- एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ३
- नागवङ्गयोः शोधनविधिः
- नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत्
- त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेन च त्रिधा ४
- अथ स्वर्णमारणम्
- स्वर्णाच्च द्विगुणं सूतमम्लेन सह मर्दयेत्
- तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ५
- गोलकं च ततो रुन्ध्याच्छरावदृढसम्पुटे
- त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
- निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ६
- स्वर्णमारणे द्वितीयो विधिः
- काञ्चने गालिते नागं षोडशांशेन निक्षिपेत् ७
- चूर्णयित्वा तथाऽम्लेन घृष्ट्वा कृत्वा च गोलकम्
- गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ८
- शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
- एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते ९
- तृतीयो विधिः
- काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
- कज्जल्या हेमपत्राणि लेपयेत्सममात्रया १०
- काञ्चनारत्वचः कल्को मूषायुग्मं प्रकल्पयेत्
- धृत्वा तत्संपुटे गोलं मृण्मूषासंपुटे च तत् ११
- निधाय संधिरोधं च कृत्वा संशोष्य गोमयैः
- वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम्
- निरुत्थं जायते भस्म सर्वकार्येषु योजयेत् १२
- चतुर्थो विधिः
- काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्
- ज्वालामुखी यथा हन्यात्तथा हन्ति मनः शिला १३
- पञ्चमो विधिः
- शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः १४
- सप्तैव भावना दद्याच्छोषयेच्च पुनः पुनः
- ततस्तु गालिते हेम्नि कल्कोऽय दीयते समः १५
- पुनर्धमेदतितरां यथा कल्को विलीयते
- एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् १६
- षष्ठो विधिः
- पारावतमलैर्लिम्पेदथवा कुक्कुटोद्भवैः
- हेमपत्राणि तेषां च प्रदद्यादधरोत्तरम् १७
- गन्धचूर्णं समं दत्त्वा शरावयुगसम्पुटे
- प्रदद्यात्कुक्कुटपुटं पञ्चभिर्गोमयोपलैः १८
- एवं नवपुटान्दद्याद्दशमं च महापुटम्
- त्रिंशद्वनोपलैर्देयं जायते हेमभस्मकम् १९
- स्वर्णभस्मगुणाः
- सुवर्णं च भवेत्स्वादु तिक्तं स्निग्धं हिमं गुरु
- बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् २०
- रजतमारणे प्रथमो विधिः
- भागैकं तालकं मर्द्यं जम्भेनाम्लेन केनचित्
- तेन भागत्रयं तारपत्राणि परिलेपयेत् २१
- धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
- समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
- एवं चतुर्दशपुटैस्तारभस्म प्रजायते २२
- द्वितीयो विधिः
- स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् २३
- तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्
- पुटेच्चतुर्दशपुटैस्तार भस्म प्रजायते २४
- आर इ!पित्तलइ! मारणविधिः
- अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्
- समेनारस्य पत्राणि शुद्धान्यम्लद्र वैर्मुहुः २५
- ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च
- एवं पुटद्वयेनैव भस्मारं भवति ध्रुवम्
- आरवत्कांस्यमप्येवं भस्मतां याति निश्चितम् २६
- ताम्रपित्तल कांस्यमारणविधिः
- अर्कक्षीरवदाजं स्यात्क्षीरं निर्गुण्डिका तथा
- ताम्ररीतिध्वनिवधे समगन्धकयोगतः २७
- ताम्रमारणविधिः
- सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः
- वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् २८
- पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्
- तत उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च २९
- गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्
- ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ३०
- तत्कल्केन बहिर्गोलं लेपयेदङ्गुलोन्मितम्
- धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ३१
- वालुकाभिः प्रपूर्याथ विभूतिलवणांबुभिः
- दत्त्वा भांडमुखे मुद्रा ं! ततश्चुल्यां विपाचयेत् ३२
- क्रमवृद्धाग्निना सम्यग्यावद्याम चतुष्टयम्
- स्वाङ्गशीतलमुद्धृत्य मर्दयेत्सूरणद्र वैः ३३
- दिनैकं गोलकं कुर्यादर्द्धगन्धेन लेपयेत्
- सघृतेन ततो मूषां पुटे गजपुटे पचेत् ३४
- स्वाङ्गशीतं समुद्धृत्य मृतं ताम्रं शुभं भवेत्
- वांतिं भ्रांतिं क्लमं मूर्च्छां न करोति कदाचन ३५
- सीसकमारणे प्रथमो विधिः
- ताम्बूलीरससम्पिष्टशिलालेपात्पुनः पुनः
- द्वात्रिंशद्भिः पुटैर्नागो निरुत्थो याति भस्मताम् ३६
- द्वितीयो विधिः
- अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
- मृत्पात्रे द्रा विते नागे लोहदर्व्या प्रचालयेत् ३७
- यामैकेन भवेद्भस्म तत्तुल्यां च मनःशिलाम्
- काञ्जिकेन द्वयं पिष्ट्वा पचेद् दृढपुटेन च ३८
- स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
- पुनः पुटेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ३९
- वङ्गमारणविधिः
- मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः ४०
- क्षिप्त्वा तेन चतुर्थांशमयोदर्व्या प्रचालयेत्
- ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ४१
- अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन प्रमर्दयेत्
- ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ४२
- तालेन दशमांशेन याममेकं ततः पुटेत्
- एवं दशपुटैः पक्वो वङ्गस्तु म्रियते ध्रुवम् ४३
- लौहमारणे प्रथमो विधिः
- शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः
- मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ४४
- पुटत्रयं कुमार्या च कुठारच्छिन्निकारसैः
- पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ४५
- द्वितीयो विधिः
- क्षिपेत्तु द्वादशांशेन दरदं तीक्ष्णचूर्णतः
- मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत् ४६
- एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्
- रसैः कुठारच्छिन्नायाः पातालगरुडीरसैः
- स्तन्येन चार्कदुग्धेन तीक्ष्णस्यैवं मृतिर्भवेत् ४७
- तृतीयो विधिः
- सूतकाद् द्विगुणं गन्धं दत्वा कुर्याच्च कज्जलीम्
- द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्र वैः ४८
- यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
- घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद् बुधः ४९
- यामार्द्धेनोष्णतां यायाद्धान्यराशौ न्यसेत्ततः
- दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ५०
- पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्
- एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ५१
- सर्वधातूनां मारणे सामान्यविधिः
- शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
- म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ५२
- अथोपधातूनां शोधनमारणप्रकाराः
- उपधातूनां गणना
- माक्षिकं तुत्थकाभ्रौ च नीलाञ्जनशिलालकाः
- रसकञ्चेति विज्ञेया एते सप्तोपधातवः ५३
- स्वर्णमाक्षिकस्य शोधनविधिः
- माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
- मातुलुङ्गद्र वैर्वाऽथ जम्बीरोत्थद्र वैः पचेत् ५४
- चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम्
- भवेत्तप्तं तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ५५
- तस्य मारणविधिः
- कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
- तक्रेण वाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ५६
- रौप्यमाक्षिकशोधनविधिः
- कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्
- भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ५७
- तुत्थशोधनविधिः
- विष्ठया मर्दयेत् तुत्थं मार्जारककपोतयोः ५८
- दशांशं टङ्कणं दत्त्वा पचेन्मृदुपुटे ततः
- पुटं दध्ना तथा क्षौद्रै र्देयं तुत्थविशुद्धये ५९
- अभ्रकशोधनविधिः
- कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्
- भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
- भावयेदष्टयामं तदेवं शुद्ध्य्ति चाभ्रकम् ६०
- अभ्रकमारणे प्रथमो विधिः
- कृत्वा धान्याभ्रकं तत्तु शोषयित्थाऽथ मर्दयेत्
- अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् ६१
- वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्
- पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ६२
- ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्
- म्रियते नात्र संदेहः सर्वयोगेषु योजयेत् ६३
- मृताभ्रकस्यामृतीकरणविधिः
- तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्
- घृते जीर्णे तदभ्रं तु सर्वयोगेषु योजयेत् ६४
- मृताभ्रकगुणाः
- मृतं त्वभ्रं हरेन्मृत्युं जरापलितनाशनम्
- अनुपानैश्च संयुक्तं तत्तद्रो गहरं परम् ६५
- अभ्रकमारणे द्वितीयो विधिः
- शुद्धं धान्याभ्रकं मुस्तशुण्ठीषड्भागयोजितम्
- मर्दयेत्काञ्जिकेनैव दिनं चित्रकजै रसैः ६६
- ततो गजपुटं दद्यात्तस्मादुद्धृत्य मर्दयेत्
- त्रिफलावारिणा तद्वत्पुटेदेवं पुटैस्त्रिभिः ६७
- वलागोमूत्रमुसलीतुलसीसूरणद्र वैः
- मर्दितं पुटितं वह्नौ त्रित्रिवेलं व्रजेन्मृतिम् ६८
- अभ्रकसत्त्वप्रकारः
- धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ६९
- पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत्
- स्वभावं शीतलं चूर्णं सर्वरोगेषु योजयेत् ७०
- नीलाञ्जनशोधनविधिः
- नीलाञ्जनं चूर्णयित्वा जम्बीरद्र वभावितम्
- दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ७१
- गैरिककासीसादिशोधनविधिः
- एवं गैरिककासीसटङ्कणानि वराटिका
- तौरी शङ्खं च कङ्कुष्ठं शुद्धिमायाति निश्चितम् ७२
- मनः शिलाशोधनविधिः
- पचेत्त्र्यहमजामूत्रैर्दोलायन्त्रे मनः शिलाम्
- भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ७३
- हरितालशोधनविधिः
- तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत्
- दोलायन्त्रेण यामैकं ततः कूष्माण्डजैर्द्र वैः ७४
- तिलतैले पचेद्यामं यामं च त्रिफलाजलैः
- एवं यन्त्रे चतुर्यामं पाच्यं शुद्ध्य्ति तालकम् ७५
- रसकखिर्पिर शोधनविधिः
- नृमूत्रेवाऽथ गोमूत्रे सप्ताहं रसकं पचेत्
- दोलायन्त्रेण शुद्धिः स्यात्ततः कार्येषु योजयेत् ७६
- धातूनां सत्त्वपातनविधिः
- लाक्षामीनपयश्छागं टङ्कणं मृगशृङ्गकम्
- पिण्याकं सर्षपाः शिग्रुर्गुञ्जोर्णागुडसैन्धवाः
- यवतिक्ता घृतं क्षौद्रं यथालाभं विचूर्णयेत् ७७
- एभिर्विमिश्रिताः सर्वे धातवो गाढवह्निना
- मूषाध्माताः प्रजायन्ते मुक्तसत्त्वा न संशयः ७८
- अथ रत्नानां शोधनमारणप्रकाराः
- तत्रादौ वज्रशोधनविधिः
- कुलत्थकोद्र वक्वाथैर्दोलायन्त्रे विपाचयेत्
- व्याघ्रीकन्दगतं वज्रं त्रिदिनं शुद्धिमृच्छति ७९
- वज्रशोधने द्वितीयो विधिः
- तप्तं तप्तं तु तद्वज्रं खरमूत्रैर्निषेचयेत्
- पुनस्तप्यं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ८०
- वज्रमारणे प्रथमो विधिः
- मत्कुणैस्तालकं पिष्ट्वा यावद्भवति गोलकम्
- तद्गोले निहितं वज्रं तद्गोलं वह्निना धमेत् ८१
- सिञ्चयेदश्वमूत्रेण तद्गोले च क्षिपेत्पुनः
- रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तधा ८२
- एवं च म्रियते वज्रं चूर्णं सर्वत्र योजयेत् ८३
- द्वितीयो विधिः
- हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थजे क्षिपेत्
- तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा ८४
- तृतीयो विधिः
- मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः
- स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत्
- तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ८५
- वैक्रान्तस्य संशोधनमारणविधिः
- वैक्रान्तं वज्रवच्छोद्ध्यं नीलं वा लोहितं तथा
- हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ८६
- ततस्तु मेषशृङ्ग्युक्तपञ्चाङ्गे गोलके क्षिपेत्
- पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा ८७
- वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत् ८८
- अवशिष्टरत्नानां शोधनविधिः
- स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च
- मणिमुक्ताप्रवालानां यामकं शोधनं भवेत् ८९
- तेषामेव मारणविधिः
- कुमार्यास्तण्डुलीयेन स्तन्येन च निषेचयेत्
- प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ९०
- मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः
- क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ९१
- उक्तमाक्षिकवन्मुक्ताः प्रवालानि च मारयेत्
- वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ९२
- शिलाजतुनः प्रथमः शोधनविधिः
- शिलाजतु समानीय ग्रीष्मतप्तशिलाच्युतम्
- गोदुग्धैस्त्रिफलाक्वाथैर्भृङ्गद्रा वैश्च मर्दयेत्
- आतपे दिनमेकैकं तच्छुष्कं शुद्धतां व्रजेत् ९३
- द्वितीयो विधिः
- मुख्यां शिलाजतुशिलां सूक्ष्मखण्डप्रकल्पिताम्
- निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ९४
- मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्
- स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ९५
- उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
- धारयेदातपे धीमानुपरिस्थं घनं नयेत् ९६
- एवं पुनः पुनर्नीत्वा द्विमासाभ्यां शिलाजतु
- भूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् ९७
- निर्धूमं च ततः शुद्धं सर्वकर्मसु योजयेत्
- अधः स्थितं च यच्छेषं तस्मिन्नीरं विनिक्षिपेत् ९८
- विमर्द्य धारयेद्घर्मे पूर्ववच्चैव तन्नयेत् ९९
- मण्डूरस्य शोधनमारणविधिः
- अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः
- सेचयेत्तप्ततप्तं तत्सप्तवारं पुनः पुनः १००
- चूर्णयित्वा ततः क्वाथैर्द्विगुणैस्त्रिफलाभवैः
- आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् १०१
- क्षारकल्पना
- क्षीरवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत्
- नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे
- विमर्द्य धारयेद्रा त्रौ प्रातरच्छं जलं नयेत् १०२
- तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति
- ततः पात्रात्समुल्लिख्य क्षारो ग्राह्यः सितप्रभः १०३
- चूर्णाभः प्रतिसार्यः स्यात्पेयः स्यात्क्वाथवत्स्थितः
- इति क्षारद्वयं धीमानुक्तकार्येषु योजयेत् १०४
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे धातुशोधनमारणनामैकादशोऽध्यायः
रसादिशोधनमारणकल्पना
[सम्पाद्यताम्]- अथ रसादिशोधनमारणकल्पनानाम द्वादशोऽध्यायः
- तत्रादौ रसप्रशंसा
- पारदः सर्वरोगाणां जेता पुष्टिकरः स्मृतः
- सुज्ञेन साधितः कुर्यात्संसिद्धिं देहलोहयोः १
- रसनामानि
- रसेन्द्र ः! पारदः सूतो हरजः सूतको रसः
- मिश्रकश्चेति नामानि ज्ञेयानि रसकर्मसु २
- ताम्रादिधातूनां सूर्यादीनामधिष्ठाननिर्देशः
- ताम्रतारारनागाश्च हेमवङ्गौ च तीक्ष्णकम्
- कांस्यकं कान्तलोहं च धातवो नव ये स्मृताः
- सूर्यादीनां ग्रहाणां ते कथिता नामभिः क्रमात् ३
- पारदशोधनविधिः
- राजीरसोनमूषायां रसं क्षिप्त्वा विबन्धयेत्
- वस्त्रेण दोलिकायन्त्रे स्वेदयेत्काञ्जिकैस्त्र्! यहम् ४
- दिनैकं मर्दयेत्सूतं कुमारीसम्भवैर्द्र वैः
- तथा चित्रकजैः क्वाथैर्मर्दयेदेकवासरम् ५
- काकमाचीरसैस्तद्वद् दिनमेकं च मर्दयेत्
- त्रिफलायास्तथा क्वाथै रसो मर्द्यः प्रयत्नतः ६
- ततस्तेभ्यः पृथक्कुर्यात्सूतं प्रक्षाल्य काञ्जिकैः
- ततः क्षिप्त्वा रसं खल्वे रसादर्द्धं च सैन्धवम् ७
- मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम्
- ततो राजी रसोनश्च मुख्यश्च नवसादरः ८
- एतै रससमैस्तद्वत्सूतो मर्द्यस्तुषाम्बुना
- ततः संशोध्य चक्राभंकृत्वा लिप्त्वा च हिङ्गुना ९
- द्विस्थालीसम्पुटे धृत्वा पूरयेल्लवणेन च
- अधः स्थाल्यां ततो मुद्रा ं! दद्याद् दृढतरां बुधः १०
- विशोष्याग्निं विधायाधो निषिञ्चेदम्बुनोपरि
- ततस्तु कुर्यात्तीव्राग्निं तदधः प्रहरत्रयम् ११
- एवं निपातयेदूर्ध्वंरसो दोषविवर्जितः
- अथोर्ध्वपिठरीमध्ये लग्नो रसो रसोत्तमः १२
- गन्धकशोधनविधिः
- लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
- तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः १३
- विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिःक्षिपेत्
- एवं गंधकशुद्धिः स्यात्सर्वकार्येषु योजयेत् १४
- हिङ्गुलशोधनविधिः
- मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
- सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् १५
- हिङ्गुलात्पारदनिष्कासनविधिः
- निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम् १६
- पिष्ट्वा दरदमूर्ध्वं च पातयेत्सूतयुक्तिवत्
- ततः शुद्धरसं तस्मान्नीत्वा कार्येषु योजयेत् १७
- पारदस्य मुखकरणविधिः
- कालकूटो वत्सनाभः शृङ्गकश्च प्रदीपकः
- हालाहलो ब्रह्मपुत्रो हारिद्र ः! सक्तुकस्तथा १८
- सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव
- अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकम् १९
- गुञ्जाऽहिफेनावित्येताः सप्तोपविषजातयः
- एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते
- मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् २०
- द्वितीयो रसमुखकरणविधिः
- अथवा त्रिकटुक्षारौ राजी लवणपञ्चकम् २१
- रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः
- समांशैः पारदादेतैर्जम्बीरेण द्र वेण वा
- निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् २२
- अहोरात्रत्रयेण स्याद्र से धातुचरं मुखम्
- तृतीयो रसमुखकरणविधिः
- अथवा बिन्दुलीकीटै रसो मर्द्यस्त्रिवासरम्
- लवणाम्लैर्मुखं तस्य जायते धातुघस्मरम् २३
- कच्छपयन्त्रेण गन्धकजारणविधिः
- अथ कच्छपयन्त्रेण गन्धजारणमुच्यते
- मृत्कुण्डे निक्षिपेत्तोयं तन्मध्ये च शरावकम् २४
- महत्कुण्डपिधानाभं मध्ये मेखलया युतम्
- लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् २५
- रसस्योपरि गन्धस्य रजो दद्यात्समांशकम्
- दत्त्वोपरि शरावं च भस्ममुद्रा ं! प्रदापयेत् २६
- तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः
- एवं पुनः पुनर्गन्धं षड्गुणं जारयेद् बुधः २७
- गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकर्मकृत् २८
- पारदमारणविधिः
- धूमसारं रसं तोरीं गन्धकं नवसादरम् २९
- यामैकं मर्दयेदम्लैर्भागं कृत्वा समांशकम्
- काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्र या ३०
- विलिप्य परितो वक्त्रे मुद्रा ं! दत्त्वा च शोषयेत्
- अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत् ३१
- पिठरीं वालुकापूरैर्भृत्वा चाकूपिकागलम्
- निवेश्य चुल्ल्यां तदधः कुर्याद्वह्निं शनैः शनैः ३२
- तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात्
- एवं द्वादशभिर्यामैर्म्रियते सूतकोत्तमः ३३
- स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत्
- अधः स्थं मृतसूतं च सर्वकर्मसु योजयेत् ३४
- द्वितीयः पारदमारणविधिः
- अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
- तत्सम्पुटे न्यसेत्सूतं मलयूदुग्धमिश्रितम् ३५
- द्रो णपुष्पीप्रसूनानि विडङ्गमिरिमेदकः
- एतच्चूर्णमधोर्ध्वं च दत्त्वा मुद्रा प्रदीयते ३६
- तं गोलं सन्धयेत्सम्यङ्मृण्मूषासम्पुटे सुधीः
- मुद्रा ं! दत्त्वा शोधयित्वा ततो गजपुटे पचेत्
- एवमेकपुटेनैव जायते भस्म सूतकम् ३७
- तृतीयः पारदमारणविधिः
- काकोदुम्बरिकादुग्धरसं किञ्चिद्विमर्दयेत् ३८
- तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत्
- क्षिप्त्वा तत्सम्पुटे सूतं तत्र मुद्रा ं! प्रदापयेत् ३९
- धृत्वा तं गोलकं प्राज्ञो मृण्मूषासम्पुटेऽधिके
- पचेन्मृदुपुटेनैव सूतको याति भस्मताम् ४०
- चतुर्थः पारदमारणविधिः
- नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
- मृण्मूषासम्पुटे पक्त्वा सूतो यात्येव भस्मताम् ४१
- अथ ज्वरादौ रसाः प्रोच्यन्ते
- तत्र ज्वराङ्कुशरसः
- खण्डितं हरिणशृङ्गं ज्वालामुख्या रसैः समम्
- रुद्ध्वा भाण्डे पचेच्चुल्ल्यां यामयुग्मं ततो नयेत् ४२
- अष्टांशं त्रिकटुं दद्यान्निष्कमात्रं च भक्षयेत्
- नागवल्लीरसैः सार्द्धं वातपित्तज्वरापहम् ४३
- अयं ज्वराङ्कुशो नाम रसः सर्वज्वरापहः
- एकाहिकं द्व्याहिकं च त्र्! याहिकं वा न संशयः ४४
- ज्वरारिरसः
- पारदं रसकं तालं तुत्थं टङ्कणगन्धके
- सर्वमेतत्समं शुद्धं कारवेल्लीरसैर्दिनम् ४५
- मर्दयेल्लेपयेत्तेन ताम्रपात्रोदरं भिषक्
- अङ्गुल्यर्धप्रमाणेन ततो रुद्ध्वा च तन्मुखम् ४६
- पचेत्तं वालुकायन्त्रे क्षिप्त्वा धान्यानि तन्मुखे
- यदा स्फुटन्ति धान्यानि तदा सिद्धं विनिर्दिशेत् ४७
- ततो नयेत्स्वाङ्गशीतं ताम्रपात्रोदराद्भिषक्
- रसं ज्वरारिनामानं विचूर्ण्य मरिचैः समम् ४८
- माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम्
- त्रिदिनैर्विषमं तीव्रमेकद्वित्रिचतुर्थकम् ४९
- शीतज्वरारिरसः
- तालकं तुत्थकं ताम्रं रसं गन्धं मनःशिलाम्
- कर्षं कर्षं प्रयोक्तव्यं मर्दयेत् त्रिफलाऽम्बुभिः ५०
- गोलं न्यसेत्सम्पुटके पुटं दद्यात् प्रयत्नतः
- ततो नीत्वाऽकदुग्धेन वज्रीदुग्धेन सप्तधा ५१
- क्वाथेन दन्त्याः श्यामायाः भावयेत्सप्तधा पुनः
- माषमात्रं रसं दिव्यं पञ्चाशन्मरिचैर्युतम् ५२
- गुडं गद्याणकं चैव तुलसीदलयुग्मकम्
- भक्षयेत्त्रिदिनं भक्त्या शीतारिर्दुर्लभः परः ५३
- पथ्यं दुग्धौदनं देयं विषमं शीतपूर्वकम्
- दाहपूर्वं हरत्याशु तृतीयकचतुर्थकौ
- द्व्याहिकं सततं चैव वैवर्ण्यं च नियच्छति ५४
- ज्वरघ्नी गुटिका
- भागैकः स्याद्र साच्छुद्धादैलेयः पिप्पली शिवा
- आकारकरभो गन्धः कटुतैलेन शोधितः ५५
- फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
- एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः ५६
- माषोन्मितां गुटीं कृत्वा दद्यात्सद्योज्वरे बुधः
- छिन्नारसानुपानेन ज्वरघ्नी गुटिका मता ५७
- क्षयादौ लोकनाथरसः
- शुद्धो बुभुक्षितः सूतो भागद्वयमितो भवेत्
- तथा गन्धस्य भागौ द्वौ कुर्यात्कज्जलिकां तयोः ५८
- सूताच्चतुर्गुणेष्वेव कपर्देषु विनिक्षिपेत्
- भागैकं टङ्कणं दत्त्वा गोक्षीरेण विमर्दयेत् ५९
- तथा शङ्खस्य खण्डानां भागानष्टौ प्रकल्पयेत्
- क्षिपेत्सर्वं पुटस्यान्तश्चूर्णलिप्तशरावयोः ६०
- गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च
- स्वाङ्गशीतं समुद्धृत्य पिष्ट्वा तत्सर्वमेकतः
- षड्गुञ्जासम्मितं चूर्णमेकोनत्रिंशदूषणैः ६१
- तत्रानुपानानि
- घृतेन वातजे दद्यान्नवनीतेन पित्तजे
- क्षौद्रे ण श्लेष्मजे दद्यादतीसारे क्षये तथा ६२
- अरुचौ ग्रहणीरोगे कार्श्ये मन्दानले तथा
- कासश्वासेषु गुल्मेषु लोकनाथरसो हितः ६३
- तद्भक्षणविधिः
- तस्योपरि घृतान्नं च भुञ्जीत कवलत्रयम्
- मञ्चे क्षणैकमुत्तानः शयीतानुपधानके ६४
- पथ्यभोजनम्
- अनम्लमन्नं सघृतं भुञ्जीत मधुरं दधि
- प्रायेण जाङ्गलं मांसं प्रदेयं घृतपाचितम् ६५
- सुदुग्धभक्तंदद्याच्च जातेऽग्नौ सान्ध्यभोजने
- सघृतान्मुद्गवटकान्व्यञ्जनेष्ववचारयेत् ६६
- तत्र स्नानव्यवस्था
- तिलामलककल्केन स्नापयेत्सर्पिषाऽथवा
- अभ्यञ्जयेत्सर्पिषा च स्नानं कोष्णोदकेन च ६७
- सेवनसमये त्याज्यपदार्थाः
- क्वचित्तैलं न गृह्णीयान्न बिल्वं कारवेल्लकम्
- वार्ताकं शफरीं चिञ्चां त्यजेद्व्यायाममैथुने ६८
- मद्यं सन्धानकं हिङ्गु शुण्ठीं माषान्मसूरकान्
- कूष्माण्डं राजिकां कोपं काञ्जिकं चैव वर्जयेत् ६९
- त्यजेदयुक्तनिद्रा ं! च कांस्यपात्रे च भोजनम्
- ककारादियुतं सर्वं त्यजेच्छाकफलादिकम् ७०
- पथ्योऽय लोकनाथेऽस्तुऐ! शुभनक्षत्रवासरे
- सेवनविधिः
- पूर्णातिथौ सिते पक्षे जाते चन्द्र बले तथा ७१
- पूजयित्वा लोकनाथं कुमारीं भोजयेत्ततः
- दानं दत्त्वा द्विघटिकामध्ये ग्राह्यो रसोत्तमः ७२
- रसजदाहशान्त्युपायः
- रसाच्चेज्जायते तापस्तदा शर्करया युतम् ७३
- सत्त्वं गुडूच्या गृह्णीयाद्वंशरोचनया युतम्
- खर्जूरं दाडिमं द्रा क्षामिक्षुखण्डानि दापयेत् ७४
- रोगानुसारेणानुपानानि
- अरुचौ निस्तुषं धान्यं घृतभृष्टं सशर्करम्
- दद्यात्तथा ज्वरे धान्यगुडूचीक्वाथमाहरेत् ७५
- उशीरवासकक्वाथं दद्यात्समधुशर्करम्
- रक्तपित्ते कफे श्वासे कासे च स्वरसंक्षये ७६
- अग्निभृष्टजयाचूर्णं मधुना निशि दीयते
- निद्रा नाशेऽतिसारे च ग्रहण्यां मन्दपावके ७७
- सौवर्चलाभयाकृष्णाचूर्णमुष्णोदकैः पिबेत्
- शूलेऽजीर्णे तथा कृष्णा मधुयुक्ता ज्वरे हिता ७८
- प्लीहोदरे वातरक्ते छर्द्यां चैव गुदाङ्कुरे
- नासिकादिषु रक्तेषु रसं दाडिमपुष्पजम् ७९
- दूर्वायाः स्वरसं नस्ये प्रदद्याच्छर्करायुतम्
- कोलमज्जा कणा बर्हिपक्षभस्म सशर्करम् ८०
- मधुना लेहयेच्छर्दिहिक्काकोपस्य शान्तये
- विधिरेष प्रयोज्यस्तु सर्वस्मिन्पोट्टलीरसे ८१
- मृगाङ्के हेमगर्भे च मौक्तिकाख्ये रसेषु च
- इत्ययं लोकनाथाख्यो रसः सर्वरुजो जयेत् ८२
- लघुलोकनाथरसः
- वराटभस्म मण्डूरं चूर्णयित्वा घृते पचेत्
- तत्समं मारिचं चूर्णं नागवल्ल्यां विभावितम् ८३
- तच्चूर्णं मधुना लेह्यमथवा नवनीतकैः
- माषमात्रं क्षयं हन्ति यामे यामे च भक्षितम् ८४
- लोकनाथरसो ह्येष मण्डलाद्रा जयक्ष्मनुत् ८५
- क्षयादौ मृगाङ्कपोट्टलीरसः
- भूर्जवत्तनुपत्राणि हेम्नः सूक्ष्माणि कारयेत्
- तुल्यानि तानि सूतेन खल्वे क्षिप्त्वा विमर्दयेत् ८६
- काञ्चनाररसेनैव ज्वालामुख्या रसेन वा
- लाङ्गल्या वा रसैस्तावद्यावद्भवति पिष्टिका ८७
- ततो हेम्नश्चतुर्थांशं टङ्कणं तत्र निक्षिपेत्
- पिष्टमौक्तिकचूर्णं च हेमद्विगुणमावपेत् ८८
- तेषु सर्वसमं गन्धं क्षिप्त्वा चैकत्र मर्दयेत्
- तेषां कृत्वा ततो गोलवासोभिः परिवेष्टयेत् ८९
- पश्चान्मृदा वेष्टयित्वा शोषयित्वा च धारयेत्
- शरावसम्पुटस्यान्तस्तत्र मुद्रा ं! प्रदापयेत् ९०
- लवणापूरिते भाण्डे धारयेत्तं च सम्पुटम्
- मुद्रा ं! दत्त्वा शोषयित्वा बहुभिर्गोमयैः पुटेत् ९१
- ततः शीते समाहृत्य गन्धं सूतसमं क्षिपेत्
- घृष्ट्वा च पूर्ववत्खल्वे पुटेद् गजपुटेन च ९२
- स्वाङ्गशीतं ततो नीत्वा गुञ्जायुग्मं प्रयोजयेत्
- अष्टभिर्मरिचैर्युक्तः कृष्णात्रययुतोऽथवा ९३
- विलोक्य देयो दोषादीनेकैका रसरक्तिका
- सर्पिषा मधुना वाऽपि दद्याद्दोषाद्यपेक्षया ९४
- लोकनाथसमं पथ्यं कुर्यात्स्वस्थमनाः शुचिः
- श्लेष्माणं ग्रहणीं कासं श्वासं क्षयमरोचकम्
- मृगाङ्कोऽय रसो हन्यात्कृशत्वं बलहीनताम् ९५
- क्षयश्वासादौ हेमगर्भपोट्टलीरसः
- सूतात्पादप्रमाणेन हेम्नः पिष्टं प्रकल्पयेत्
- तयोः स्याद् द्विगुणो गन्धो मर्दयेत्काञ्चनारिणा ९६
- कृत्वा गोलं क्षिपेन्मूषासम्पुटे मुद्र येत्ततः
- पचेद् भूधरयन्त्रेण वासरत्रितयं बुधः ९७
- तत उद्धृत्य तत्सर्वं दद्याद् गन्धं च तत्समम्
- मर्दयेदार्द्र करसैश्चित्रकस्वरसेन च ९८
- स्थूलपीतवराटांश्च पूरयेत्तेन युक्तितः
- एतस्मादौषधात्कुर्यादष्टमांशेन टङ्कणम् ९९
- टङ्कणार्धं विषं दत्त्वा पिष्ट्वा सेहुण्डदुग्धकैः
- मुद्र येत्तेन कल्केन वराटानांमुखानि च १००
- भाण्डे चूर्णप्रलिप्तेऽथ धृत्वा मुद्रा ं! प्रदापयेत्
- गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च १०१
- स्वाङ्गशीतं रसं ज्ञात्वा प्रदद्याल्लोकनाथवत्
- पथ्यं मृगाङ्कवज्ज्ञेयं त्रिदिनं लवणं त्यजेत् १०२
- यदा छर्दिर्भवेत्तस्य दद्याच्छिन्नाशृतं तदा
- मधुयुक्तं तथा श्लेष्मकोपे दद्याद्गुडार्द्र कम् १०३
- विरेके भर्जिता भङ्गा प्रदेया दधिसंयुता
- जयेत्कासं क्षयं श्वासं ग्रहणीमरुचिं तथा १०४
- अग्निं च कुरुते दीप्तं कफवातं नियच्छति
- हेमगर्भ परो ज्ञेयो रसः पोट्टलिकाऽभिधः १०५
- द्वितीयो हेमगर्भपोट्टलीरसः
- रसस्य भागाश्चत्वारस्तावन्तः कनकस्य च
- तयोश्च पिष्टिकां कृत्वा गन्धो द्वादशभागकः १०६
- कुर्यात्कज्जलिकां तेषां मुक्ताभागाश्च षोडशः
- चतुर्विंशच्च शङ्खस्य भागैकं टङ्कणस्य च १०७
- एकत्र मर्दयेत्सर्वं पक्वनिम्बूकजैः रसैः
- कृत्वा तेषां ततो गोलं मूषासम्पुटके न्यसेत् १०८
- मुद्रा ं! दत्त्वा ततो हस्तमात्रे गर्त्ते च गोमयैः
- पुटेद् गजपुटेनैव स्वाङ्गशीतं समुद्धरेत् १०९
- पिष्ट्वा गुञ्जाचतुर्मानं दद्याद्गव्याज्यसंयुतम्
- एकोनत्रिंशदुन्मानमरिचैः सह दीयते ११०
- राजते मृण्मये पात्रे काचजे वाऽवलेहयेत्
- लोकनाथसमं पथ्यं कुर्याच्च स्वस्थमानसः १११
- कासे श्वासे क्षये वाते कफे ग्रहणिकागदे
- अतिसारे प्रयोक्तव्या पोट्टली हेमगर्भिका ११२
- विषमज्वरादौ महाज्वराङ्कुशरसः
- शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मिताः
- धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् ११३
- हेमाह्वा कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
- देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् ११४
- आर्द्र कस्वरसैर्वाऽपि ज्वरं हन्ति त्रिदोषजम्
- एकाहिकं द्व्याहिकं वा त्र्! याहिकं वा चतुर्थकम् ११५
- विषमं च ज्वरं हन्याद्विख्यातोऽय ज्वराङ्कुशः ११६
- अतिसारादौ आनन्द भैरवरसः
- दरदं वत्सनाभं च मरिचं टङ्कणं कणाम्
- चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः ११७
- गुञ्जैकं वा द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत्
- मधुना लेहयेच्चानु कुटजस्य फलं त्वचम् ११८
- चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित्
- दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव च
- पिपासायां जलं शीतं विजया च हिता निशि ११९
- त्रिदोषे लघुसूचिकाभरणरसः
- विषं पलमितं सूतः शाणिकश्चूर्णयेद् द्वयम्
- तच्चूर्णं सम्पुटे क्षिप्त्वा कावलिप्तशरावयोः १२०
- मुद्रा ं! दत्त्वा च संशोष्य ततश्चुल्यां निवेशयेत्
- वह्निं शनैः शनैः कुर्यात्प्रहरद्वयसंख्यया १२१
- तत उद्घाटयेन्मुद्रा मुपरिस्थां शरावकात्
- संलग्नो यो भवेत्सूतस्तं गृह्णीयाच्छनैः शनैः १२२
- वायुस्पर्शो यथा न स्यात्तथा कुप्यां निवेशयेत्
- यावत्सूच्या मुखे लग्नं कुप्या निर्याति भेषजम् १२३
- तावन्मात्रो रसो देयो मूर्च्छिते सन्निपातिनि
- क्षुरेण प्रच्छिते मूर्ध्निं तत्राङ्गुल्या च घर्षयेत् १२४
- रक्तभेषजसम्पर्कान्मूर्च्छितोऽपि हि जीवति
- तथैव सर्पदष्टस्तु मृतावस्थोऽपि जीवति १२५
- यदा तापो भवेत्तस्य मधुरं तत्र दीयते १२६
- सन्निपाते जलबन्धुरसः
- सूतभस्मसमं गन्धं गन्धात्पादं मनः शिला
- माक्षिकं पिप्पली व्योषं प्रत्येकं शिलया समम् १२७
- चूर्णयेद्भावयेत्पित्तैर्मत्स्यमायूरसम्भवैः
- सप्तधा भावयेच्छुष्कं देयं गुञ्जाद्वयं हितम् १२८
- तालपर्णीरसश्चानु पञ्चकोलशृतोऽथवा
- जलबन्धुरसो नाम सन्निपातं नियच्छति
- जलयोगश्च कर्त्तव्यस्तेन वीर्यं भवेद्र से १२९
- सन्निपाते पञ्चवक्त्ररसः
- शुद्धसूतं विषं गन्धं मरिचं टङ्कणं कणाम्
- मर्दयेद् धूर्त्तजद्रा वैर्दिनमेकं च शोषयेत् १३०
- पञ्चवक्त्रो रसो नाम द्विगुञ्जः सन्निपातजित्
- अर्कमूलकषायं तु सत्र्! यूषमनुपाययेत् १३१
- युक्तं दध्योदनं पथ्यं जलयोगं च कारयेत्
- रसेनानेन शाम्यन्ति सक्षौद्रे ण कफादयः १३२
- मध्वार्द्र करसं चानुपिबेदग्निविवृद्धये
- यथेष्टं घृतमांसाशी शक्तो भवति पावकः १३३
- सन्निपाते उन्मत्तरसः
- रसं गन्धकतुल्यांशं धत्तूरफलजद्र वैः
- मर्दयेद्दिनमेकं तु तत्तुल्यं त्रिकटुं क्षिपेत् १३४
- उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्सन्निपातजित् १३५
- सन्निपातादौ अञ्जनरसः
- निस्त्वग्जैपालबीजं च दशनिष्कं विचूर्णयेत्
- मरिचं पिप्पलद्यं सूतं प्रतिनिष्कं विमिश्रयेत् १३६
- भाव्यो जम्बीरजैद्रा र्वैः! सप्ताहं सम्प्रयत्नतः
- रसोऽयमञ्जने दत्तः सन्निपातं विनाशयेत् १३७
- शूलादौ नाराचरसः
- सूतं टङ्कणकं तुल्यं मरिचं सूततुल्यकम्
- गन्धकं पिप्पलद्यं शुण्ठीं द्वौ द्वौ भागौ विचूर्णयेत् १३८
- सर्वतुल्यं क्षिपेद्दन्तीबीजं निस्तुषितं भिषक्
- द्विगुञ्जं रेचनं सिद्धं नाराचोऽय महारसः
- आध्मानं मलविष्टम्भानुदावर्त्तं च नाशयेत् १३९
- शूलादौ इच्छाभेदीरसः
- दरदं टङ्कणं शुण्ठी पिप्पली चेति कार्षिकाः
- हेमाह्वा पलमात्रा स्याद्दन्तीबीजं च तत्समम् १४०
- विचूर्ण्यैकत्र सर्वाणि गोदुग्धेनैव पाययेत्
- त्रिगुञ्जं रेचनं दद्याद्विष्टम्भाध्मानरोगिषु १४१
- सर्वमेहे वसन्तकुसुमाकररसः
- द्वौ भागौ हेमभूतेश्च गगनं चापि तत्समम्
- लोहभस्म त्रयो भागाश्चत्वारो रसभस्मनः १४२
- वङ्गभस्म त्रिभागं स्यात्सर्वमेकत्र मर्दयेत्
- प्रवालं मौक्तिकं चैव रससाम्येन दापयेत् १४३
- भावना गव्यदुग्धेन रसैर्घृष्ट्वाऽटरुषकैः
- हरिद्रा वारिणा चैव मोचकन्दरसेन च १४४
- शतपत्ररसेनापि मालत्याः स्वरसेन च
- पश्चान्मृगमदश्चन्द्र तुलसीरसभावितः १४५
- कुसुमाकर इत्येष वसन्तपदपूर्वकः
- गुञ्जाद्वयं ददीतास्य मधुना सर्वमेहनुत् १४६
- सिताचन्दनसंयुक्तश्चाम्लपित्तादिरोगजित् १४७
- क्षयादौ राजमृगाङ्करसः
- सूतभस्म त्रयो भागा भागैकं हेमभस्मकम्
- मृताभ्रस्य च भागैकं शिलागन्धकतालकम् १४८
- प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत्
- वराटान्पूरयेत्तेन छागीक्षीरेण टङ्कणम् १४९
- पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे सन्निरोधयेत्
- शुष्कं गजपुटे पक्त्वा चूर्णयेत्स्वाङ्गशीतलम् १५०
- रसो राजमृगाङ्कोऽय चतुर्गुञ्जः क्षयापहः
- दशपिप्पलिकाक्षौद्रै रेकोनत्रिंशदूषणैः १५१
- सघृतं दापयेत्पथ्यं स्त्रीकोपाग्निश्रमांस्त्यजेत्
- पथ्यं वा लघुमांसानि राजरोगप्रशान्तये १५२
- क्षयश्वासादौ स्वयमग्निरसः
- शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
- तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र वैः १५३
- द्वियामान्ते कृतं गोलं ताम्रपात्रे विनिक्षिपेत्
- आच्छाद्यैरण्डपत्रेण यामार्धेऽत्युष्णता भवेद् १५४
- धान्यराशौ न्यसेत्पश्चादहोरात्रात्समुद्धरेत्
- संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् १५५
- भावयेत्कन्यकाद्रा वैः सप्तधा भृङ्गजैस्तथा
- काकमाचीकुरण्टोत्थद्र वैर्मुण्ड्याः पुनर्नवैः १५६
- सहदेव्यमृतानीलीनिर्गुण्डीचित्रजैस्तथा
- सप्तधा तु पृथग्द्रा वैर्भाव्यं शोष्यं तथातपे १५७
- सिद्धयोगो ह्ययं ख्यातः सिद्धानां च मुखागतः
- अनुभूतो मया सत्यं सर्वरोगगणापहः १५८
- स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत्
- त्रिफलामधुसंयुक्तः सर्वरोगेषु योजयेत् १५९
- त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
- समभागोन्मितैरेतैः समः पूर्वरसो भवेत् १६०
- संचूर्ण्य लेहयेत्क्षौद्रै र्भक्ष्यं निष्कद्वयं द्वयम्
- स्वयमग्निरसो नाम्ना क्षयकासनिकृन्तनः १६१
- सर्वकासेष्वमृतार्णवरसः
- पारदं गन्धकं शुद्धं मृतलोहं च टङ्कणम्
- रास्ना विडङ्गत्रिफला देवदारु कटुत्रयम् १६२
- अमृता पद्मकं क्षौद्रं विश्वं तुल्यांशचूर्णितम्
- त्रिगुञ्जं सर्वकासार्त्तः सेवयेदमृतार्णवम् १६३
- श्वासे सूर्यावर्त्तो रसः
- सूतार्धो गन्धको मर्द्यो यामैकं कन्यकाद्र वैः
- द्वयोस्तुल्यं ताम्रपत्रं पूर्वकल्केन लेपयेत् १६४
- दिनैकंस्थालिकायन्त्रे पक्वमादाय चूर्णयेत्
- सूर्यावर्त्तो रसो ह्येष द्विगुञ्जः श्वासजिद्भवेत् १६५
- वातरोगे स्वच्छन्दभैरवरसः
- शुद्धं सूतं मृतं लोहं ताप्यं गन्धकतालके
- पथ्याऽग्निमन्थं निर्गुडी त्र्! यूषणं टङ्कणं विषम् १६६
- तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्र वैः
- मुण्डीद्रा वैर्दिनैकं तु द्विगुञ्जं वटकीकृतम् १६७
- भक्षयेद्वातरोगार्त्तोनाम्ना स्वच्छन्दभैरवम्
- रास्नाऽमृतादेवदारुशुण्ठीवातारिजं शृतम्
- सगुग्गुलुं पिबेत्कोष्णमनुपानं सुखावहम् १६८
- ग्रहणीरोगे हंसपोट्टलीरसः
- दग्धान्कपर्दिकान्पिष्ट्वा त्र्! यूषणं टङ्कणं विषम्
- गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर्द्र वैः १६९
- मर्दयेद्भक्षेयन्माषं मरिचाज्यं लिहेदनु
- निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् १७०
- अश्मर्यां त्रिविक्रमो रसः
- मृतं ताम्रमजाक्षीरैः पाच्यं तुल्यैर्गतद्र वम्
- तत्ताम्रं शुद्धसूतं च गन्धकं च समं समम् १७१
- निर्गुण्डीस्वरसैर्मर्द्यं तद्गोलं सन्धयेद्दिनम्
- यामैकं बालुकायन्त्रे पाच्यं योज्यं द्विगुञ्जकम् १७२
- बीजपूरकमूलं तु सजलं चानुपाययेत्
- रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् १७३
- कुष्ठादौ महातालेश्वररसः
- तालं ताप्यं शिलां सूतं शुद्धं सैन्धवटङ्कणे
- समांशं चूर्णयेत्खल्वे सूताद् द्विगुणगन्धकम् १७४
- गन्धतुल्यं मृतं ताम्रं जम्बीरैर्दिनपञ्चकम्
- मर्द्यं षड्भिः पुटैः पाच्यं भूधरे संपुटोदरे १७५
- पुटे पुटे द्र वैर्मर्द्यं सर्वमेतत्तु षट्पलम्
- द्विपलं मारितं ताम्रं लोहभस्म चतुष्पलम् १७६
- जम्बीराम्लेन तत्सर्वं दिनं मर्द्यं पुटेल्लघु
- त्रिंशदंशं विषं चास्य क्षिप्त्वा सर्वं विचूर्णयेत् १७७
- माहिषाज्येन संमिश्रं निष्कार्धं भक्षयेत्सदा
- मध्वाज्यैर्वाकुचीचूर्णं कर्षमात्रं लिहेदनु १७८
- सर्वकुष्ठानि हन्त्याशु महातालेश्वरो रसः १७९
- कुष्ठकुठाररसः
- भस्मसूतसमो गन्धो मृतायस्ताम्रगुग्गुलुः
- त्रिफला च महानिम्बश्चित्रकश्चशिलाजतु
- इत्येतच्चूर्णितं कुर्यात्प्रत्येकं शाणषोडशम् १८०
- चतुःषष्टिः करञ्जस्य बीजचूर्णं प्रकल्पयेत्
- चतुःषष्टिमृतं चाभ्रं मध्वाज्याभ्यां विलोडयेत् १८१
- स्निग्धे भाण्डे धृतं खादेद् द्विनिष्कं सर्वकुष्ठनुत्
- रसः कुष्ठकुठारोऽय गलत्कुष्ठनिवारणः १८२
- श्वेतकुष्ठादौ उदयादित्यो रसः
- शुद्धं सूतं द्विधा गन्धं मर्द्यं कन्याद्र वैर्दिनम्
- तद्गोलं पिठरीमध्ये ताम्रपात्रेण रोधयेत् १८३
- सूतकाद् द्विगुणेनैव शुद्धेनाधोमुखेन च
- पार्श्वे भस्म निधायाथ पात्रोर्ध्वं गोमयं जलम् १८४
- किञ्चित् किञ्चित्प्रदातव्यं चुल्ल्यां यामद्वयं पचेत्
- चण्डाग्निना तदुद्धृत्य स्वाङ्गशीतं विचूर्णयेत् १८५
- काष्ठोदुम्बरिकावह्नित्रिफलाराजवृक्षकम्
- विडङ्गं वाकुचीबीजं क्वाथयेत्तेन भावयेत् १८६
- दिनैकमुदयादित्योरसो देयो द्विगुञ्जकः
- विचर्चिकां दद्रुकुष्ठं वातरक्तं च नाशयेत् १८७
- अनुपानं च कर्तव्यं वाकुचीफलचूर्णकम्
- खदिरस्य कषायेण समेन परिपाचितम् १८८
- त्रिशाणं तद् गवां क्षीरैः क्वाथैर्वा त्रैफलैः पिबेत्
- त्रिदिनान्ते भवेत्स्फोटः सप्ताहाद्वा किलासके १८९
- नीलद्यं गुञ्जां च कासीसं धत्तूरं हंसपादिकाम्
- सूर्यभक्तां च चाङ्गेरीं पिष्ट्वा मूलानिलेपयेत् १९०
- स्फोटस्थानप्रशान्त्यर्थं सप्तरात्रं पुनः पुनः
- श्वेतकुष्ठं निहन्त्याशु साध्यासाध्यं न संशयः १९१
- अपरः श्वित्रलेपोऽपि कथ्यतेऽत्र भिषग्वरैः
- गुञ्जाफलाग्निचूर्णं च लेपितं श्वेतकुष्ठनुत् १९२
- शिलाऽपामार्गभस्मापि लिप्तं श्वित्रं विनाशयेत् १९३
- कुष्ठादौ सर्वेश्वररसः
- शुद्धं सूतं चतुर्गन्धं पलं यामं विचूर्णयेत्
- मृतताम्राभ्रलोहानां दरदस्य पलं पलम्
- सुवर्णं रजतं चैव प्रत्येकं दशनिष्ककम् १९४
- माषैकं मृतवज्रं च तालं शुद्धं पलद्वयम्
- जम्बीरोन्मत्तवासाभिः स्नुह्यर्क विषमुष्टिभिः १९५
- मर्द्यं हयारिजैद्रा र्वैः! प्रत्येकेन दिनं दिनम्
- एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् १९६
- वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्निना
- आदाय चूर्णयेच्छ्लक्ष्णं पलैकं योजयेद्विषम् १९७
- द्विपलं पिप्पलीचूर्णं मिश्रं सर्वेश्वरो रसः
- द्विगुञ्जो लिह्यते क्षौद्रै ः! सुप्तिमण्डलकुष्ठनुत् १९८
- वाकुचीदेवकाष्ठं च कर्षमात्रं सुचूर्णयेत्
- लिहेदैरण्डतैलाक्तमनुपानं सुखावहम् १९९
- सुप्त्यादौ स्वर्णक्षीरीरसः
- हेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत्
- तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् २००
- क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत्
- तच्चूर्णं पञ्चपलिकं मरिचानां पलद्वयम् २०१
- पलैकं मूर्च्छितं सूतमेकीकृत्य तु भक्षयेत्
- निष्कैकं सुप्तिकुष्ठार्त्तः स्वर्णक्षीरीरसो ह्ययम् २०२
- प्रमेहे मेहबद्धरसः
- भस्मसूतं मृतं कान्तं मुण्डभस्म शिलाजतु
- शुद्धं ताप्यं शिलां व्योषं त्रिफलां कोलबीजकम् २०३
- कपित्थं रजनीचूर्णं भृङ्गराजेन भावयेत्
- विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा २०४
- निष्कमात्रो हरेन्मेहान्मेहबद्धो रसो महान्
- महानिम्बस्य बीजानि पिष्ट्वा षट्सम्मितानि च २०५
- पलतण्डुलतोयेन घृतनिष्कद्वयेन च
- एकीकृत्य पिबेच्चानु हन्ति मेहं चिरन्तनम् २०६
- जलोदरादौ महावह्निरसः
- चतुःसूतस्य गन्धाष्टौ रजनी त्रिफला शिवा
- प्रत्येकं च द्विभागं स्यात्त्रिवृज्जैपालचित्रकम् २०७
- प्रत्येकं च त्रिभागं स्यात् त्र्! यूषणं दन्तिजीरके
- प्रत्येकमष्टभागं स्यादेकीकृत्य विचूर्णयेत् २०८
- जयन्तीस्नुक्पयोभृङ्गवह्निवातारितैलकैः
- प्रत्येकेन क्रमाद्भाव्यं सप्तवारं पृथक्पृथक् २०९
- महावह्निरसो नाम निष्कमुष्णजलैः पिबेत्
- विरेचनं भवेत्तेन तक्रभक्तं ससैन्धवम् २१०
- दिनान्ते दापयेत्पथ्यं वर्जयेच्छीतलं जलम्
- सर्वोदरहरः प्रोक्तो मूढवातहरः परः २११
- गुल्मप्लीहादौ विद्याधररसः
- गन्धकं तालकं ताप्यं मृतताम्रं मनः शिलाम्
- शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद् दिनम् २१२
- पिप्पल्यास्तु कषायेण वज्रीक्षीरेण भावयेत्
- निष्कार्धं भक्षयेत्क्षौद्रै र्गुल्मप्लीहादिकं जयेत् २१३
- रसो विद्याधरो नाम गोमूत्रं च पिबेदनु २१४
- पक्तिशूले त्रिनेरसः
- टङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम्
- दिनैकमार्द्र कद्रा वैर्मर्द्यं रुद्ध्वा पुटे पचेत्
- त्रिनेत्राख्यरसस्यैकं माषं मध्वाज्यकैर्लिहेत् २१५
- सैन्धवं जीरकं हिंगु मध्वाज्याभ्यां लिहेदनु
- पक्तिशूलहरः ख्यातो मासमात्रान्न संशयः २१६
- शूले शूलगजकेसरी रसः
- शुद्धं सूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम्
- द्वयोस्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् २१७
- ऊर्ध्वाधो लवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक्
- ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् २१८
- सम्पुटं चूर्णयेत्सूक्ष्मं पर्णखण्डे द्विगुञ्जकम्
- भक्षयेत्सर्वशूलार्त्तो हिङ्गु शुण्ठी च जीरकम् २१९
- वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत्
- असाध्यं नाशयेच्छूलं रसोऽय गजकेसरी २२०
- अग्निमान्द्यादौ अग्नितुण्डीवटीरसः
- शुद्धं सूतं विषं गन्धमजमोदां फलत्रयम्
- स्वर्जिक्षारं यवक्षारं वह्निसैन्धवजीरकम् २२१
- सौवर्चलं विडङ्गानि सामुद्रं त्र्! यूषणं समम्
- विषमुष्टिं सर्वतुल्यां जम्बीराम्लेन मर्दयेत् २२२
- मरिचाभां वटीं खादेद्वह्निमान्द्यप्रशान्तये २२३
- विषूचिकायाम् अजीर्णकण्टकरसः
- शुद्धसूतं विषं गन्धं समं सर्वं विचूर्णयेत्
- मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्र वैः २२४
- मर्दयेद्भावयेत्सर्वमेकविंशतिवारकम्
- वटीं गुञ्जात्रयं खादेत्सर्वाजीर्णप्रशान्तये
- अजीर्णकण्टकः सोऽय रसो हन्ति विषूचिकाम् २२५
- कफरोगे मन्थानभैरवरसः
- मृतं सूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम्
- सैन्धवं गन्धकं तालं कटुकीं चूर्णयेत्समम् २२६
- पुनर्नवादेवदालीनिर्गुण्डीतण्डुलीयकैः
- तिक्तकोशातकीद्रा वैर्दिनैकं मर्दयेद् दृढम् २२७
- माषमात्रं लिहेत्क्षौद्रै रसं मन्थानभैरवम्
- कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु २२८
- वातरोगे वातनाशनरसः
- सूतहाटकवज्राणि ताम्रं लोहं च माक्षिकम्
- तालं नीलाञ्जनं तुत्थमहिफेनं समांशकम् २२९
- पञ्चानां लवणानां च भागमेकं विमर्दयेत्
- वज्रीक्षीरैर्दिनैकं तु रुद्ध्वाऽधो भूधरे पचेत् २३०
- माषैकमार्द्र कद्रा वैर्लेहयेद्वातनाशनम्
- पिप्पलीमूलजक्वाथं सकृष्णमनुपाययेत् २३१
- सर्वान्वातविकारांस्तु निहन्त्याक्षेपकादिकान् २३२
- सन्निपातादौ कनकसुन्दरो रसः
- कनकस्याष्टशाणाः स्युः सूतो द्वादशभिर्मतः
- गन्धोऽपि द्वादश प्रोक्तस्ताम्रंशाणद्वयोन्मितम्
- अभ्रकं स्याच्चतुः शाणं माक्षिकं च द्विशाणिकम् २३३
- वङ्गो द्विशाणः सौबीरं त्रिशाणं लोहमष्टकम्
- विषं त्रिशाणिकं कृत्वा लाङ्गली पलसंमिता २३४
- मर्दयेद्दिनमेकं च रसैरम्लफलोद्भवैः
- दद्यान्मृदुपुटं वह्नौ ततः सूक्ष्मं विचूर्णयेत् २३५
- माषमात्रो रसो देयः सन्निपाते सुदारुणे
- आर्द्र कस्वरसेनैव रसोनस्य रसेन वा २३६
- किलासं सर्वकुष्ठानि विसर्पं च भगन्दरम्
- ज्वरं गरमजीर्णं च जयेद्रो गहरो रसः २३७
- सन्निपातभैरवरसः
- रसो गन्धस्त्रिकर्षः स्यात्कुर्यात्कज्जलिकां तयोः
- ताराभ्रताम्रवङ्गाहिसाराश्चैकैककार्षिकाः २३८
- शिग्रुज्वालामुखीशुण्ठी बिल्वेभ्यस्तण्डुलीयकात्
- प्रत्येकं स्वरसैः कुर्याद्यामैकैकं विमर्दनम् २३९
- कृत्वा गोलं वृतं वस्त्रे लवणापूरिते न्यसेत्
- काचभाण्डे ततः स्थाल्यां काचकूपीं निवेशयेत् २४०
- बालुकाभिः प्रपूर्याथ वह्निर्यामद्वयं भवेत्
- तत उद्धृत्य तं गोलं चूर्णयित्वा विमिश्रयेत् २४१
- प्रवालचूर्णकर्षेण शाणमात्रविषेण च
- कृष्णसर्पस्य गरलैर्द्विवेलं भावयेत्तथा २४२
- तगरं मुशली मांसी हेमाह्वा वेतसः कणा
- नीलिनी पद्मकं चैला चित्रकश्च कुठेरकः २४३
- शतपुष्पा देवदाली धत्तूरागस्त्यमुण्डिकाः
- मधूकजातीमदनरसैरेषां विमर्दयेत् २४४
- प्रत्येकमेकवेलं च ततः संशोष्य धारयेत्
- बीजपूरार्द्र कद्रा वैर्मरिचैः षोडशोन्मितैः २४५
- रसो द्विगुञ्जाप्रमितः सन्निपातेषु दीयते
- प्रसिद्धोऽय रसो नाम्ना सन्निपातस्य भैरवः २४६
- अतीसारादौ ग्रहणीकपाटरसः
- तारमौक्तिकहेमानि सारश्चैकैकभागकाः
- द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेदिमान् २४७
- कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत्
- पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् २४८
- बलारसैः सप्तवेलमपामार्गरसैस्त्रिधा
- लोध्रप्रतिविषामुस्तधातकीन्द्र यवामृताः २४९
- प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा
- माषमात्रोरसोदेयोमधुना मरिचैस्तथा २५०
- हन्यात्सर्वानतीसारान्ग्रहणीं सर्वजामपि
- कपाटो ग्रहणीरोगे रसोऽय वह्निदीपनः २५१
- ग्रहणीवज्रकपाटरसः
- मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम्
- अग्निमन्थं वचां कुर्यात्सूततुल्यानिमान्सुधीः २५२
- ततो जयन्तीजम्बीरभृङ्गद्रा वैर्विमर्दयेत्
- त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् २५३
- लोहपात्रे शरावं च दत्त्वोपरि विमुद्र येत्
- अधो वह्निं शनैः कुर्याद्यामार्धं तत उद्धरेत् २५४
- रसतुल्यां प्रतिविषां दद्यान्मोचरसं तथा
- कपित्थविजयाद्रा वैर्भावयेत्सप्तधा पृथक् २५५
- धातकीन्द्र यवा मुस्ता लोध्रं बिल्वं गुडूचिका
- एतद्र सैर्भावयित्वा वेलैकैकं च शोषयेत् २५६
- रसं वज्रकपाटाख्यं शाणैकं मधुना लिहेत्
- वह्निं शुण्ठीं विडं बिल्वं लवणं चूर्णयेत्समम् २५७
- पिबेदुष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् २५८
- वाजीकरणे मदनकामदेवो रसः
- तारं वज्रं सुवर्णं च ताम्रं सूतकगन्धकम्
- लोहं क्रमविवृद्धानि कुर्यादेतानि मात्रया २५९
- विमर्द्य कन्यकाद्रा वैर्न्यसेत्काचमये घटे
- विमुच्य पिठरीमध्ये धारयेत्सैन्धवामृते २६०
- पिठरीं मुद्र येत्सम्यक् ततश्चुल्ल्यां निवेशयेत्
- वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् २६१
- स्वाङ्गशीतं च सञ्चूर्ण्य भावयेदर्कदुग्धकैः
- अश्वगन्धा च काकोली वानरी मुसली क्षुरा २६२
- त्रित्रिवेलं रसैरासां शतावर्याश्च भावयेत्
- पद्मकन्दकसेरूणां रसैः काशस्य भावयेत् २६३
- कस्तूरीव्योषकर्पूरकङ्कोलैलालवङ्गकम्
- पूर्वचूर्णादष्टमांशमेतच्चूर्णं विमिश्रयेत् २६४
- सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं पिबेत्
- गोदुग्धद्विपलेनैव मधुराहारसेवकः २६५
- अस्य प्रभावात्सौन्दर्यं बलं तेजोऽभिवर्धते
- तरुणी रमयेद्बह्वीः शुक्रहानिर्न जायते २६६
- वाजीकरणे कन्दर्पसुन्दर रसः
- सूतो वज्रमहिर्मुक्ता तारं हेमासिताभ्रकम्
- रसैः कर्षांशकानेतान्मर्दयेदिरिमेदजैः २६७
- प्रवालचूर्णं गन्धश्च द्विद्विकर्षं विमिश्रयेत्
- ततोऽश्वगन्धास्वरसैर्विमर्द्य मृगशृङ्गके २६८
- क्षिप्त्वा मृदुपुटे पक्त्वा भावयेद्धातकीरसैः
- काकोली मधुकं मांसी बलात्रयबिसेङ्गुदम् २६९
- द्रा क्षापिप्पलिवन्दाकं वरी पर्णीचतुष्टयम्
- परूषकं कसेरुश्च मधूकं वानरी तथा २७०
- भावयित्वा रसैरेषां शोषयित्वा विचूर्णयेत्
- एला त्वक्पत्रकं मांसी लवङ्गागुरुकेशरम् २७१
- मुस्तं मृगमदः कृष्णा जलं चन्द्र श्च मिश्रयेत्
- एतच्चूर्णैः शाणमितै रसं कन्दर्पसुन्दरम् २७२
- खादेच्छाणमितं रात्रौ सिता धात्री विदारिका
- एतासां कर्षचूर्णेन सर्पिष्कर्षेण संयुतम् २७३
- तस्यानु द्विपलं क्षीरं पिबेत्सुस्थितमानसः
- रमणी रमयेद्बह्वीः शुक्रहानिर्न जायते २७४
- लोहरसायनम्
- शुद्धं रसेन्द्रं भागैकं द्विभागं शुद्धगन्धकम्
- क्षिपेत्कज्जलिकां कुर्यात्तत्र तीक्ष्णभवं रजः २७५
- क्षिप्त्वा कज्जलिकातुल्यं प्रहरैकं विमर्दयेत्
- ततः कन्याद्र वैर्घर्मे त्रिदिनं परिमर्दयेत् २७६
- ततः सञ्जायते तस्य सोष्णो धूमोद्गमो महान्
- अत्यन्तं पिण्डितं कृत्वा ताम्रपात्रे निधापयेत् २७७
- मध्ये धान्यैकशूकस्य त्रिदिनं धारयेद् बुधः
- उद्धृत्य तस्मात्खल्वे च क्षिप्त्वा घर्मे निधाय च २७८
- रसैः कुठारच्छिन्नायास्त्रिवेलं परिभावयेत्
- संशोष्य घर्मे क्वाथैश्च भावयेत्त्रिकटोस्त्रिधा २७९
- वासाऽमृताचित्रकाणां रसैर्भाव्यं क्रमात्त्रिधा
- लोहपात्रे ततः क्षिप्त्वा भावयेत्त्रिफलाजलैः २८०
- निर्गुण्डीदाडिमत्वग्भिर्बिसभृङ्गकुरण्टकैः
- पलाशकदलीद्रा वैर्बीजकस्य शृतेन च २८१
- नीलिकाऽलम्बुषाद्रा वैर्बब्बूलफलिकारसैः
- भावयेत्त्रित्रिवेलं च ततो नागबलारसैः २८२
- ततः प्रातर्लिहेत्क्षौद्र घृताभ्यां कोलमात्रकम्
- पलमात्रं वराक्वाथं पिबेदस्यानुपानकम् २८३
- मासत्रयं शीलितं स्याद्वलीपलितनाशनम्
- मन्दाग्निं श्वासकासौ च पाण्डुतां कफमारुतौ २८४
- पिप्पलीमधुसंयुक्तं हन्यादेतन्न संशयः
- वातास्रं मूत्रदोषांश्च ग्रहणीं गुदजां रुजम् २८५
- अण्डवृद्धिं जयेदेतच्छिन्नासत्त्वमधुप्लुतम्
- बलवर्णकरं वृष्यमायुष्यं परमं स्मृतम् २८६
- जयेत्सर्वामयान्कालादिदं लोहरसायनम्
- कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा २८७
- मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः २८८
- अनुक्तसंग्रहश्लोकाः
- तत्र जयपाल शोधनम्
- जैपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे
- निक्षिप्तं त्र्! यहमुष्णतोयविमलं खल्वे सवासोऽदितम्
- लिप्तं नूतनखर्प रेषु विगतस्नेहं रजःसन्निभं
- निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् २८९
- विषशोधनम्
- विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत्
- गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्! यहम् २९०
- गोमूत्रं च प्रदातव्यं नूतनं प्रत्यहं बुधैः
- त्र्! यहेऽतीते समुद्धृत्य शोषयेन्मृदु पेषयेत्
- शुद्ध्य्त्येवं विषं तच्च योग्यं भवति चार्त्तिजित् २९१
- अथवा
- खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया २९२
- अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात्
- अजादुग्धाभावतस्तु गव्यक्षीरेण शोधयेत् २९३
- इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे रसादिशोधन मारणकल्पना नाम द्वादशोऽध्यायः
- इति मध्यखण्डं समाप्तम्