देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ३०
यमेन कर्मविपाककथनम्
सावित्र्युवाच
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
धर्मराज उवाच
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २ ॥
अन्नदानं महादानमन्येभ्योऽपि करोति यः ।
अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३ ॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४ ॥
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।
महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५ ॥
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६ ॥
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७ ॥
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८ ॥
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९ ॥
यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १० ॥
विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११ ॥
यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२ ॥
यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३ ॥
यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४ ॥
करोति गजदानं च यदि विप्राय भारते ।
यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५ ॥
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६ ॥
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७ ॥
प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।
महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८ ॥
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९ ॥
धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २० ॥
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१ ॥
यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२ ॥
इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३ ॥
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ २४ ॥
तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५ ॥
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।
ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६ ॥
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७ ॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८ ॥
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९ ॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३० ॥
प्रददाति फलं चारु ब्राह्मणाय च यो नरः ।
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१ ॥
पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् ।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२ ॥
केवलं फलदानं वा ब्राह्मणाय ददाति च ।
सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ ३३ ॥
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४ ॥
सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ ३५ ॥
यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति ।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ ३६ ॥
महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।
पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ ३७ ॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८ ॥
यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च ।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९ ॥
पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् ।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४० ॥
सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् ।
नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ ४१ ॥
नगरं यश्च विप्राय ददाति भारते भुवि ।
महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ ४२ ॥
पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् ।
नगराणां च नियुतं स लभेन्नात्र संशयः ॥ ४३ ॥
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् ।
परमैश्वर्यनियुतो भवेदेव महीतले ॥ ४४ ॥
नगराणां च शतकं देशं यो हि द्विजातये ।
सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ ४५ ॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६ ॥
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् ।
परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७ ॥
मही तं न जहात्येव जन्मनां कोटिमेव च ।
कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ॥ ४८ ॥
स्वाधिकारं समग्रं च यो ददाति द्विजातये ।
चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ ४९ ॥
जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने ।
फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ ५० ॥
जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः ।
सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ ५१ ॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।
अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ ५२ ॥
असंख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः ।
निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ ५३ ॥
देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् ।
विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ ५४ ॥
लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते ।
पश्यन्ति ते मणिद्वीपे सखण्डं लोकसंक्षयम् ॥ ५५ ॥
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।
देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६ ॥
कार्तिके तुलसीदानं करोति हरये च यः ।
युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ ५७ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।
जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ॥ ५८ ॥
मध्ये यः स्नाति गङ्गायामरुणोदयकालतः ।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ५९ ॥
पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् ।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६० ॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।
करोति हरिदास्यं च तथा सारूप्यमेव च ॥ ६१ ॥
नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६२ ॥
तस्यैव पादरजसा सद्यःपूता वसुन्धरा ।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६३ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।
जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ ६४ ॥
स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः ।
मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ ६५ ॥
भारते यो ददात्येव जलमेव सुवासितम् ।
स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ ६६ ॥
पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ।
शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः ॥ ६७ ॥
वैशाखे सक्तुदानं च यः करोति द्विजातये ।
सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ ६८ ॥
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम् ॥ ७० ॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१ ॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२ ॥
पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३ ॥
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४ ॥
मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।
दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५ ॥
श्रीरामनवमीं यो हि करोति भारते पुमान् ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६ ॥
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७ ॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम् ॥ ७९ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८० ॥
अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८१ ॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।
ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८२ ॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८३ ॥
गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८४ ॥
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८५ ॥
शिलायां प्रतिमायां च श्रीकृष्णं राधया सह ।
भारते पूजयेद्भक्त्या चोपचाराणि षोडश ॥ ८६ ॥
गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम् ॥ ८७ ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो ।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ८८ ॥
ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ ८९ ॥
शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः ।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९० ॥
भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् ।
क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ ९१ ॥
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।
ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ ९२ ॥
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।
भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ ९३ ॥
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।
रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ ९४ ॥
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।
महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ ९५ ॥
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।
ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ ९६ ॥
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ ९७ ॥
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ ९८ ॥
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ।
महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ ९९ ॥
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ १०० ॥
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ १०१ ॥
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः ।
तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ १०२ ॥
श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।
भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ १०३ ॥
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।
ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ १०४ ॥
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।
यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ १०५ ॥
युगं नाम प्रमाणं च विष्णुलोके महीयते ।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ १०६ ॥
यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।
नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ १०७ ॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।
न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ १०८ ॥
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।
विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ १०९ ॥
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११० ॥
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते ।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ १११ ॥
शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति ।
महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११२ ॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् ।
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११३ ॥
तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।
कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११४ ॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११५ ॥
यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।
स तु निर्वाणतां याति न च जन्म भवेद्भुवि ॥ ११६ ॥
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।
अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ ११७ ॥
चतुर्गुणं राजसूये फलमाप्नोति मानवः ।
सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ ११८ ॥
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने ।
शङ्करेण महेशेन त्रिपुरासुरनाशने ॥ ११९ ॥
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि ।
नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ १२० ॥
दक्षेण च कृतः पूर्वं महान्संवादसंयुतः ।
बभूव कलहो यत्र दक्षशङ्करयोः सति ॥ १२१ ॥
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।
यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ १२२ ॥
चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः ।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ १२३ ॥
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ १२४ ॥
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।
देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १२५ ॥
वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १२६ ॥
देवानां च यथा विष्णुर्वैष्णवानां च नारद ।
शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७ ॥
तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८ ॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९ ॥
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।
प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३० ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२ ॥
अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् ।
सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३ ॥
स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् ।
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३४ ॥
पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।
फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ १३५ ॥
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।
निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ १३६ ॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।
तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ १३७ ॥
तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च ।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १३८ ॥
भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् ।
गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ १३९ ॥
अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् ।
सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ १४० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां नवमस्कन्धे यमेन कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ३० ॥