देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २६

विकिस्रोतः तः

सावित्रीपूजाविधिकथनम्

नारद उवाच
तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् ।
ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
पुरा केन समुद्‌भूता सा श्रुता च श्रुतेः प्रसूः ।
केन वा पूजिता लोके प्रथमे कैश्च वा परे ॥ २ ॥
श्रीनारायण उवाच
ब्रह्मणा वेदजननी प्रथमे पूजिता मुने ।
द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३ ॥
तदा चाश्वपतिर्भूपः पूजयामास भारते ।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४ ॥
नारद उवाच
को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता ।
सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥ ५ ॥
श्रीनारायण उवाच
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।
वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ ६ ॥
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।
मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७ ॥
सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः ।
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८ ॥
प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् ।
गृहं जगाम दुःखार्ता हृदयेन विदूयता ॥ ९ ॥
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ १० ॥
तपश्चकार तत्रैव संयतः शतवत्सरम् ।
न ददर्श च सावित्र्या प्रत्यादेशो बभूव च ॥ ११ ॥
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।
गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥ १२ ॥
एतस्मिन्नन्तरे तत्र आजगाम पराशरः ।
प्रणनाम ततस्तं च मुनिर्नृपमुवाच च ॥ १३ ॥
मुनिरुवाच
सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् ।
दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥ १४ ॥
शतवारं जपश्चैव पापं मासार्जितं हरेत् ।
सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम् ॥ १५ ॥
लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् ।
सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ॥ १६ ॥
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।
करं सर्पफणाकारं कृत्वा तद्‌रन्धमुद्रितम् ॥ १७ ॥
आनम्रमूर्धमचलं प्रजपेत्प्राङ्‌मुखो द्विजः ।
अनामिकामध्यदेशादधोऽवामक्रमेण च ॥ १८ ॥
तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे ।
श्वेतपङ्‌कजबीजानां स्फटिकानां च संस्कृताम् ॥ १९ ॥
कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये ।
संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥ २० ॥
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१ ॥
अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् ।
अथ गङ्‌गोदकेनैव स्नात्वा वातिसुसंस्कृताम् ॥ २२ ॥
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।
साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ २३ ॥
नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने ।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४ ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५ ॥
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्‌बहिष्कार्यः सर्वस्माद्‌ द्विजकर्मणः ॥ २६ ॥
यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च ।
स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ २७ ॥
तत्पादपद्मरजसा सद्यःपूता वसुन्धरा ।
जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥ २८ ॥
तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९ ॥
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च ॥ ३० ॥
मूलप्रकृत्यभक्तो यस्तन्मन्त्रस्याप्यनर्चकः ।
तदुत्सवविहीनश्च विषहीनो यथोरगः ॥ ३१ ॥
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यारहितो द्विजः ।
एकादशीविहीनश्च विषहीनो यथोरगः ॥ ३२ ॥
हरेरनैवेद्यभोजी धावको वृषवाहकः ।
शूद्रान्नभोजी यो विप्रो विषहीनो यथोरगः ॥ ३३ ॥
शूद्राणां शवदाही यः स विप्रो वृषलीपतिः ।
शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ ३४ ॥
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।
मसिजीवी असिजीवी विषहीनो यथोरगः ॥ ३५ ॥
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ॥ ३६ ॥
भगजीवी बार्धुषिको विषहीनो यथोरगः ।
यो विद्याविकयी विप्रो विषहीनो यथोरगः ॥ ३७ ॥
सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः ।
शिवापूजादिरहितो विषहीनो यथोरगः ॥ ३८ ॥
इत्युक्त्वा च मुनिश्रेष्ठः सर्वपूजाविधिक्रमम् ।
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ ३९ ॥
दत्त्वा सर्वं नृपेन्द्राय ययौ च स्वाश्रमे मुने ।
राजा संपूज्य सावित्रीं ददर्श वरमाप च ॥ ४० ॥
नारद उवाच
किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम् ।
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥ ४१ ॥
नृपः केन विधानेन संपूज्य श्रुतिमातरम् ।
वरं च कं वा सम्प्राप सम्पूज्य तु विधानतः ॥ ४२ ॥
तत्सर्वं श्रोतुमिच्छामि सावित्र्याः परमं महत् ।
रहस्यातिरहस्यं च श्रुतिसिद्धं समासतः ॥ ४३ ॥
श्रीनारायण उवाच
ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्‍नतः ।
व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥ ४४ ॥
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम् ।
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत् ॥ ४५ ॥
वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् ।
संस्थाप्य मङ्‌गलघटं फलशाखासमन्वितम् ॥ ४६ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः ॥ ४७ ॥
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् ।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ ४८ ॥
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।
ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम् ॥ ४९ ॥
ईषद्धास्यप्रसन्नास्यां रत्‍नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम् ॥ ५० ॥
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः ।
सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ॥ ५१ ॥
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।
वेदबीजस्वरूपां च भजे तां वेदमातरम् ॥ ५२ ॥
ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि ।
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्‌ व्रती ॥ ५३ ॥
दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् ।
सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः ॥ ५४ ॥
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ ५५ ॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ ५६ ॥
दारुसारविकारं च हेमादिनिर्मितं च वा ।
देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ॥ ५७ ॥
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।
पूजाङ्‌गभूतं शुद्धं च मया तुभ्यं निवेदितम् ॥ ५८ ॥
पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् ।
पुण्यदं शङ्‌खतोयाक्तं मया तुभ्यं निवेदितम् ॥ ५९ ॥
सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् ।
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ ६० ॥
गन्धद्रव्योद्‍भवं पुण्यं प्रीतिदं दिव्यगन्धदम् ।
मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके ॥ ६१ ॥
सर्वमङ्‌गलरूपं च सर्वं च मङ्‌गलप्रदम् ।
पुण्यदं च सुधूपं तं गृहाण परमेश्वरि ॥ ६२ ॥
सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् ।
जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम् ॥ ६३ ॥
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ॥ ६४ ॥
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।
ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम् ॥ ६५ ॥
तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् ।
सुशीतलं वारि शीतं पिपासानाशकारणम् ॥ ६६ ॥
जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् ।
देहशोभास्वरूपं च सभाशोभाविवर्धनम् ॥ ६७ ॥
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।
काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा ॥ ६८ ॥
सुखदं पुण्यदं रत्‍नभूषणं प्रतिगृह्यताम् ।
नानावृक्षसमुद्‌भूतं नानारूपसमन्वितम् ॥ ६९ ॥
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।
सर्वमङ्‌गलरूपं च सर्वमङ्‌गलमङ्‌गलम् ॥ ७० ॥
नानापुष्पविनिर्माणं बहुशोभासमन्वितम् ।
प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम् ॥ ७१ ॥
पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् ।
सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम् ॥ ७२ ॥
भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् ।
विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ॥ ७३ ॥
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ॥ ७४ ॥
ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् ।
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ७५ ॥
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।
माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम् ॥ ७६ ॥
विप्रजीवनरूपं च निबोध कथयामि ते ।
कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा ॥ ७७ ॥
नायाति सा तेन सार्धं ब्रह्मलोके च नारद ।
ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम् ॥ ७८ ॥
तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् ।
ब्रह्मोवाव
सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि ॥ ७९ ॥
हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि ।
तेजःस्वरूपे परमे परमानन्दरूपिणि ॥ ८० ॥
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि ।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि ॥ ८१ ॥
सर्वमङ्‌गलरूपे च प्रसन्ना भव सुन्दरि ।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ॥ ८२ ॥
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ।
विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ॥ ८३ ॥
बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।
कायेन मनसा वाचा यत्पापं कुरुते नरः ॥ ८४ ॥
तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति ।
इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि ॥ ८५ ॥
सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा ।
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ॥ ८६ ॥
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।
स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् ।
पाठे चतुर्णां वेदानां यत्फलं लभते च तत् ॥ ८७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां नवमस्कन्धे सावित्रीपूजाविधिकथनं नाम षड्‌विंशोऽध्यायः ॥ २६ ॥