सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३०

विकिस्रोतः तः

युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम्

व्यास उवाच
निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।
सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १ ॥
तमाजगाम शुम्भोऽपि स्वबलेन समावृतः ।
प्रेक्षकोऽभूद्‌रणे राजा संग्रामरसपण्डितः ॥ २ ॥
गगने संस्थिता देवास्तदाभ्रपटलावृताः ।
दिदृक्षवस्तु संग्रामे सेन्द्रा यक्षगणास्तथा ॥ ३ ॥
निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् ।
चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ ४ ॥
मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे ।
वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ ५ ॥
उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः ।
मरणायागतौ कालि मत्समीपमिहाधुना ॥ ६ ॥
दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा ।
जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ ७ ॥
आशा बलवती ह्येषा न जहाति नरं क्वचित् ।
भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ ८ ॥
आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ ।
निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ ९ ॥
आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ ।
पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ १० ॥
व्यास उवाच
इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः ।
छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ ११ ॥
दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ १२ ॥
केसरी केशजालानि धुन्वानः सैन्यसागरम् ।
गाहयामास बलवान्सरसीं वारणो यथा ॥ १३ ॥
नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् ।
चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ १४ ॥
एवं विमथ्यमाने तु सैन्ये केसरिणा तदा ।
अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ १५ ॥
अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः ।
सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ १६ ॥
तत्राजगाम तरसा शुम्भः सैन्यसमावृतः ।
निहत्य कालिकां कोपाद्‌ग्रहीतुं जगदम्बिकाम् ॥ १७ ॥
तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् ।
रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम् ॥ १८ ॥
तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् ।
सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ १९ ॥
विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा ।
मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ २० ॥
तं तथा दानवं देवी स्मितपूर्वमिदं वचः ।
बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके ॥ २१ ॥
गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् ।
जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ २२ ॥
अथवा मच्छराघातहतप्राणा रणाजिरे ।
प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ २३ ॥
कातरत्वं च शूरत्वं न भवत्येव सर्वथा ।
ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ २४ ॥

व्यास उवाच
इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः ।
निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ २५ ॥
धावमानस्तु तरसासिना सिंहं मदोत्कटम् ।
जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ २६ ॥
ततो देवी स्वगदया वञ्चयित्वासिपातनम् ।
ताडयामास तं बाहोर्मूले परशुना तदा ॥ २७ ॥
खड्गेन निहतः सोऽपि बाहुमूले महामदः ।
संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ २८ ॥
सापि घण्टास्वनं घोरं चकार भयदं नृणाम् ।
पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ २९ ॥
एवं परस्परं युद्धं बभूवातिभयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ ३० ॥
पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः ।
ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः ॥ ३१ ॥
रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः ।
रुधिरस्रावसंयुक्तैर्गजाश्वदेहसंकुला ॥ ३२ ॥
पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः ।
प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम् ॥ ३३ ॥
सिंहं जघान गदया मस्तके मदगर्वितः ।
प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥ ३४ ॥
सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् ।
प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥ ३५ ॥
देव्युवाच
तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव ।
ग्रीवायां प्रेरयाम्यस्माद्‌ गन्तासि यमसादनम् ॥ ३६ ॥
व्यास उवाच
इत्युक्त्वा तरसा देवी कृपाणेन समाहिता ।
चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका ॥ ३७ ॥
सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः ।
बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥ ३८ ॥
देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ ।
पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः ॥ ३९ ॥
तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे ।
हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते ॥ ४० ॥
त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः ।
जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥ ४१ ॥
तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः ।
पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ ४२
तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् ।
राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥ ४३ ॥
तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः ।
वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः ॥ ४४ ॥
निशुम्भो निहतस्तत्र तया चण्डिकयाधुना ।
न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे ॥ ४५ ॥
देवकार्यं समुद्दिश्य कापीयं परमाङ्गना ।
हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय ॥ ४६ ॥
नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा ।
अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि ॥ ४७ ॥
नानारूपधरातीव मायामूलविशारदा ।
विचित्रभूषणा देवी सर्वायुधधरा शुभा ॥ ४८ ॥
गहना गूढचरिता कालरात्रिरिवापरा ।
अपारपारगा पूर्णा सर्वलक्षणसंयुता ॥ ४९ ॥
अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः ।
देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्‌भुताम् ॥ ५० ॥
पलायनं परो धर्मः सर्वथा देहरक्षणम् ।
रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥ ५१ ॥
संग्रामे विजयो राजन् भविता ते न संशयः ।
कालः करोति बलिनं समये निर्बलं क्वचित् ॥ ५२ ॥
तं पुनः सबलं कृत्वा जयायोपदधाति हि ।
दातारं याचकं कालः करोति समये क्वचित् ॥ ५३ ॥
भिक्षुकं धनदातारं करोति समयान्तरे ।
विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥ ५४ ॥
इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् ।
तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥ ५५ ॥
सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः ।
एकैव च गतिर्नास्ति कालस्य किल भूपते ॥ ५६ ॥
नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् ।
कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा ॥ ५७ ॥
उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः ।
प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः ॥ ५८ ॥
करदास्ते कृताः पूर्वं कालेन सम्मुखेन च ।
तेनैव विमुखेनाद्य बलिनोऽबलयासुराः ॥ ५९ ॥
निहता नितरां कालः करोति च शुभाशुभम् ।
नैवात्र कारणं काली नैव देवाः सनातनाः ॥ ६० ॥
यथा ते रोचते राजंस्तथा कुरु विमृश्य च ।
कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥ ६१ ॥
त्वदग्रतो गतः शक्रो भग्नः संख्ये निरायुधः ।
तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥ ६२ ॥
तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् ।
पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥ ६३ ॥
मृते त्वयि महाराज शत्रवस्ते मुदान्विताः ।
मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः ॥ ६४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥