सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०६

विकिस्रोतः तः

।। ऋषिरुवाच ।। ।।
महीराजान्मुनिश्रेष्ठ के राजानो बभूविरे ।।
तान्नो वद महाभाग सर्वज्ञोऽस्ति भवान्सदा ।।१।।
।। सूत उवाच ।। ।।
पैशाचः कुतुकोद्दीनो देहलीराज्यमास्थितः ।।
वलीगढं महारम्यं यादवै रक्षितं पुरम् ।।
ययौ तत्र स पैशाचः शूरायुतसमन्वितः ।।२।।
वीरसेनस्य वै पौत्रं भूपसेनं नृपोत्तमम् ।।
स जित्वा कुतुकोद्दीनो देहलीग्रामसंस्थितः ।। ३ ।।
एतस्मिन्नंतरे भूपा नानादेश्याः समागताः ।।
जित्वा स कुतुकोद्दीनः स्वदेशात्तैर्निराकृतः ।। ४ ।।
सहोद्दीनस्तु तच्छ्रुत्वा पुनरागत्य देहलीम् ।।
जित्वा भूपान्दैत्यवरो मूर्तिखंडमथाकरोत् ।। ५ ।।
तत्पश्चाद्बहुधा म्लेच्छा इहागत्य समन्ततः ।।
पंचषट्सप्तवर्षाणि कृत्वा राज्यं लयं गताः ।। ६ ।।
अद्यप्रभृति देशेऽस्मिञ्छतवर्षान्तरे हि ते ।।
भूत्वा चाल्पायुषो मन्दा देवतीर्थविनाशकाः ।। ७ ।।
म्लेच्छभूपा मुनिश्रेष्ठास्तस्माद्यूयं मया सह ।।
गंतुमर्हथ वै शीघ्रं विशालां नगरीं शुभाम् ।। ८ ।।
इति श्रुत्वा तु वचनं दुःखात्संत्यज्य नैमिषम् ।।
ययुः सर्वे विशालायां हिमाद्रौ गिरिसत्तमे ।। ९ ।।
तत्र सर्वे समाधिस्था ध्यात्वा सर्वमयं हरिम् ।।
शतवर्षान्तरे सर्वे ध्यानाद्ब्रह्मगृहं ययुः ।।3.4.6.१ ०।।
व्यास उवाच ।।
इत्येवं सकलं भाव्यं योगाभ्यासवशाद्द्रुतम् ।।
वर्णितं च मया तुभ्यं किमन्यच्छ्रोतुमिच्छसि । ।। ११ ।।
।। मनुरुवाच ।। ।।
भगवन्वेदतत्त्वज्ञ सर्वलोकशिवंकरः ।।
अहं मायाभवो जातो भवान्वेदभवो भुवि ।। १२ ।।
अविद्यया च सकलं मम ज्ञानं समाहृतम् ।।
अतोऽहं विविधा योनीर्गृहीत्वा लोकमागतः ।।१३।।
परं ब्रह्मैव कृपया दृष्ट्वा मां मंदभागिनम् ।।
व्यासरूपं स्वयं कृत्वा समुद्धर्तुमुपागतः ।। १४ ।।
नमस्तस्मै मुनींद्राय वेदव्यासाय साक्षिणे ।।
अविद्यामोहभावेभ्यो रक्षणाय नमोनमः ।। १५ ।।
पुनरन्यच्च मे ब्रूहि सूताद्यैः किं कृतं मुने ।।
तत्सर्वं कृपया स्वामिन्वक्तुमर्हसि सांप्रतम् ।। १६ ।।
।। व्यास उवाच ।। ।।
ब्रह्मांडे ये स्थिता लोकास्ते सर्वेस्मिन्कलेवरे ।।
अहंकारो हि जीवात्मा सर्वः स्यात्कोटिहीनकः ।। १७ ।।
पुराणोऽणोरणीयांश्च षोडशात्मा सनातनः ।।
इन्द्रियाणि मनश्चैव पञ्च चेन्द्रियगोचराः ।। १८ ।।
ज्ञेयो जीवः शरीरेऽस्मिन्स ईशगुणबंधितः ।।
ईशो ह्यष्टादशात्मा वै शंकरो जीवशंकरः ।। १९ ।।
बुद्धिर्मनश्च विषया इंद्रियाणि तथैव च ।।
अहंकारस्य चेशो वै महादेवः सनातनः ।। 3.4.6.२० ।।
जीवो नारायणस्साक्षाच्छंकरेण विमोहितः ।।
स बद्धस्त्रिगुणैः पाशैरेकश्च बहुधाभवत् ।। ।। २१ ।।
कालात्मा भगवानीशो महाकल्पस्वरूपकः ।।
शिवकल्पो ब्रह्मकल्पो विष्णुकल्पस्तृतीयकः ।।
ईशनेत्राणि तान्येव बन्धकल्पश्चतुर्थकः ।। २२ ।।
वायुकल्पो वह्निकल्पो ब्रह्मांडो लिंगकल्पकः ।।
ईशवक्त्राणि पञ्चैव तत्त्वज्ञैः कथितानि वै ।। २३ ।।
भविष्यकल्पश्च तथा तथा गरुडक ल्पकः ।।
कल्पो भागवतश्चैव मार्कण्डेयश्च कल्पकः ।।२४।।
वामनश्च नृसिंहश्च वराहो मत्स्यकूर्मकौ ।।
ज्ञानात्मनो महेशस्य ज्ञेया दश भुजा बुधैः ।। २५ ।।
अष्टादशदिनेष्वेव ब्रह्मणोऽव्यक्तजन्मनः ।।
कल्पाश्चाष्टादशास्सर्वे बुधैर्ज्ञेया विलोमतः ।। २६ ।।
कूर्मकल्पश्च तत्राद्यो मत्स्यकल्पो द्वितीयकः ।।
तृतीयः श्वेतवाराहः कल्पो ज्ञेयः पुरातनैः ।। २७ ।।
द्विधा च भगवान्ब्रह्मा सूक्ष्मः स्थूलोऽगुणो गुणी ।।
सगुणः स विराण्नाम्ना विष्णु नाभिसमुद्भवः ।। २८ ।।
निर्गुणोव्ययरूपश्चाव्यक्तजन्मा स्वभूः स्वयम् ।।
ब्रह्मणः सगुणस्यैव शतायुः कालनिर्मितम् ।। २९ ।।
ऊनविंशसहस्राणि लक्षैको मानुषाब्दकैः ।।
एभिर्वर्षैर्दिनं ज्ञेयं विराजो ब्रह्मणः स्वयम् ।। 3.4.6.३० ।।
निर्गुणोऽव्यक्तजन्मा च कालात्सर्वेश्वरः परः ।।
अव्यक्तं प्रकृतिर्ज्ञेया द्वादशांगानि वै ततः ।। ३१ ।।
इन्द्रियाणि मनो बुद्धिरव्यक्तस्य स्मृतानि वै ।।
अव्यक्ताच्च परं ब्रह्म सूक्ष्मज्योतिस्तदव्ययम् ।। ३२ ।।
यदा व्यक्ते स्वयं प्राप्तोऽव्यक्तजन्मा हि संस्मृतः ।।
शतवर्षसमाधिस्थो यस्तिष्ठेच्च निरंतरम् ।। ३३ ।।
सूक्ष्मो मनोनिलो भूत्वा गच्छेद्वै ब्रह्मणः पदम् ।।
सत्य लोकमिति ज्ञेयं योगगम्यं सनातनम् ।।३४।।
तत्र स्थाने तु मुनयो गताः सर्वे समाधिना ।।
तत्रोषित्वा च लक्षाब्दं भूर्लोकात्क्षणमात्रकम् ।।३५।।
सच्चिदानंदघनकं ततः प्राप्ताः कलेवरे ।।
नेत्राणि च समुन्मील्य संप्राप्ते द्वितयाह्निके ।। ३६ ।।
ददृशुर्मनुजान्सर्वान्पशुतुल्यान्हि सूक्ष्मकान्।।
षष्ट्यब्दायुर्युतान्घोरान्सार्द्धकिष्कुद्वयोन्नतान् ।।३७।।
क्वचित्क्वचित्स्थिता वर्णा वर्णसंकरसन्निभाः ।।
सर्वे म्लेच्छाश्च पाषंडा बहुरूपमतो स्थिताः ।।३८।।
तीर्थानि सकला वेदास्त्यक्त्वा भूमंडलं तदा ।।
गोप्यो भूत्वा च हरिणा सार्द्धं चक्रुर्महोत्सवम् ३९ ।।
पाषंडा बहुजातीया नानामार्गप्रदर्शकाः ।।
कलिना निर्मितान्वर्णान्वंचयित्वा स्थिता भुवि ।। 3.4.6.४० ।।
इति दृष्ट्वा तु मुनयो रोमहर्षणमंतिके ।।
गत्वा तत्र भविष्यंति ततः प्रांजलयो हि ते ।। ४१ ।।
तैश्च तत्र स्तुतः सूतो योगनिद्रां सनातनीम् ।।
कथयिष्यति संत्यज्य कल्पाख्यानं मुनीन्प्रति ।।
तच्छृणुष्व नृपश्रेष्ठ यथा सूतेन वर्णितम् ।। ४२ ।।
।। सूत उवाच ।। ।।
कल्पाख्यानं प्रवक्ष्यामि यद्दृष्टं योगनिद्रया ।।
तच्छृणुध्वं मुनिश्रेष्ठा लक्षाब्दांते यथाभवत् ।।४३।।
मुकुलान्वयसंभूतो म्लेच्छभूपः पिशाचकः ।।
नाम्ना तिमिरलिंगश्च मध्यदेशमुपाययौ ।। ४४ ।।
आर्यान्म्लेच्छांस्तदा भूपाञ्जित्वा कालस्वरूपकः ।।
देहलीनगरीमध्ये महावधमकारयत् ।। ४५ ।।
आहूय सकलान्विप्रानार्यदेशनिवासिनः ।।
उवाच वचनं धीमान्यूयं मूर्तिप्रपूजकाः ।। ४६ ।।
निर्मिता येन वा मूर्तिस्तस्य पुत्रीसमा स्मृता ।।
तस्याः किं पूजनं शुद्धं शालग्रामशिलामयम् ।।
विष्णुदेवश्च युष्माभिः प्रोक्तः स तु न वै हरिः ।। ४७ ।।
अतो वः सकला वेदाः शास्त्राणि विविधानि च ।।
वृथा कृतानि मुनिभिर्लोकवञ्चनहेतवे ।।
इत्युक्त्वा तान्बलाद्गृह्य ज्वलदग्नौ समाक्षिपत् ।।४८।।
शालग्रामशिलाः सर्वा बलात्तेषां सुपूज्यकाः ।।
गृहीत्वा चोष्ट्रपृष्ठेषु समारोप्य गृहं ययौ ।।४९।।
तैत्तिरं देशमागम्य दुर्गं तत्र चकार सः ।।
शालग्रामशिलानां च स्वासनारोहणं कृतम् ।। 3.4.6.५० ।।
तदा तु सकला देवा दुःखिता वासवं प्रभुम् ।।
समूचुर्बहुधालप्य देवदेवं शचीपतिम् ।।५१।।
वयं तु भगवन्सर्वे शालग्रामशिलास्थिताः ।।
त्यक्त्वा मूर्तीश्च सकलाः कृष्णांशेन प्रबोधिताः ।।
शालग्रामशिलामध्ये वसामो मुदिता वयम् ।।५२ ।।
शिलास्सर्वाश्च नो देव शालदेशसमुद्भवाः ।।
ताश्च वै म्लेच्छराजेन स्वपदारोहणीकृताः ।।५३।।
इति श्रुत्वा तु वचनं देवानां भगवान्स्वराट्।।
ज्ञात्वा बलिकृतं सर्वं देवपूजानिराकृतम् ।। ५४ ।।
चुकोप भगवानिन्द्रो दैत्यान्प्रत्यभ्रवाहनः ।।
गृहीत्वा वज्रमतुलं स्वायुधं दैत्यनाशनम् ।।
तैत्तिरे प्रेषयामास देशे म्लेच्छनिवासके ।। ५५ ।।
तस्य शब्देन सकला देशाश्च बहुभिन्नकाः ।।
स म्लेच्छो मरणं प्राप्तस्तदा सर्वसभाजनैः ।।५६।।
शालग्रामशिलाः सर्वा गृहीत्वा विबुधास्तदा ।।
गंडक्यां च समाक्षिप्य स्वर्गलोकमुपाययुः ।।५७।।
महेन्द्रस्तु सुरैः सार्द्धं देवपूज्यमुवाच ह ।।
महीतले कलौ प्राप्ते भगवन्दानवोत्तमाः ।।५८।।
वेदधर्मं समुल्लंघ्य मम नाशनतत्पराः ।।
अतो मां रक्ष भगवन्देवैः सार्द्धं कलौ युगे ।।५९।।
।।जीव उवाच ।। ।।
महेन्द्र तव या पत्नी शची नाम्ना महोत्तमा ।।
ददौ तस्यै वरं विष्णुर्भवितास्मि सुतः कलौ ।।3.4.6.६०।।
त्वदाज्ञया च सा देवी पुरीं शांतिमयीं शुभाम्।।
गौडदेशे च गंगायाः कूले लोकनिवासिनीम् ।।६१।।
प्रत्यागत्य द्विजो भूत्वा कार्यसिद्धिं करिष्यति ।।
भवान्वै ब्राह्मणो भूत्वा देवकार्यं प्रसाधय ।। ।। ६२ ।।
इति श्रुत्वा गुरोर्वाक्यं रुद्रैरेकादशैः सह ।।
अष्टभिर्वसुभिः सार्धमश्विभ्यां स च वासवः ।। ६३ ।।
तीर्थराजमुपागम्य प्रयागं च रविप्रियम्।।
माघे तु मकरे सूर्ये सूर्यदेवमतोषयत्।। ६४ ।।
बृहस्पतिस्तदागत्य सूर्यमाहात्म्यमुत्तमम्।।
इन्द्रादीन्कथयामास द्वादशाध्यायमापठन्।।६५।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनो नाम षष्ठोऽध्यायः ।। ६ ।।