भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ०३

विकिस्रोतः तः

।। सूत उवाच ।। ।।
शुक्लवंशं प्रवक्ष्यामि शृणु विप्रवरादितः ।।
यदा कृष्णः स्वयं ब्रह्म त्यक्त्वा भूमिं स्वकं पदम् ।। १ ।।
दिव्यं वृन्दावनं रम्यं प्रययौ भूतले तदा ।।
कलेरागमनं ज्ञात्वा म्लेच्छपा द्वीपमध्यगे ।। २ ।।
स्थिता द्वीपेषु वै नाना मनुजा वेदतत्पराः ।।
कलिना मित्रधर्मेण दूषितास्ते बभूविरे ।। ३ ।।
अष्टषष्टिसहस्राणां वर्षाणां मुनिसत्तम ।।
अद्यप्रभृति वै जातः कालः कलिसमागमे ।। ४ ।।
षष्टिवर्षसहस्राणि द्वीपराज्यमचीकरत् ।।
स कलिर्म्लेच्छया सार्धं सूर्यपूजनतत्परः ।। ५ ।।
तत्पश्चाद्भारते वर्षे म्लेच्छया कलिराययौ ।।
दृष्ट्वा तद्भारतं वर्षं लोकपालैश्च पालितम् ।। ६ ।।
भयभीतस्त्वराविष्टो गन्धर्वाणां यशस्करः ।।
स कलिः सूर्यमाराध्य समाधिस्थो बभूव ह ।।७।।
ततो वर्षशताब्दांते संतुष्टो रविरागतः ।।
सोंशुभिर्लोकमातप्य महावृष्टिमकारयत् ।। ८ ।।
चतुर्वर्षसहस्राणि चतुर्वर्षशतानि च ।।
व्यतीतानि मुनिश्रेष्ठ चाद्य प्रभृति संलपे ।।९।।
संपन्नं भारतं वर्षं तदा जातं समंततः ।।
न्यूहाख्यो यवनो नाम तेन वै पूरितं जगत् ।।। ।।। 3.4.3.१० ।।
सहस्राब्दकलौ प्राप्ते महेन्द्रो देवराट् स्वयम् ।।
काश्यपं प्रेषयामास ब्रह्मावर्ते महोत्तमे ।। ११ ।।
आर्यावती देवशक्तिस्तत्करं चाग्रहीन्मुदा ।।
दशपुत्रान्समुत्पाद्य स द्विजो मिश्रमागमत् ।। १२ ।।
मिश्रदेशोद्भवान्म्लेच्छान्वशीकृत्यायुतं मुदा ।।
स्वदेशं पुनरागत्य शिष्यांस्तान्स चकार ह ।। १३ ।।
नष्टायां सप्तपुर्यां च ब्रह्मावर्तं महोत्तमम्।।
सरस्वतीदृषद्वत्योर्मध्यगं तत्र चावसत् ।। १४ ।।
स्वपुत्रं शुक्लमाहूय द्विजश्रेष्ठं तपोधनम् ।।
आज्ञाय रैवतं शृंगं तपसे तु पुनः स्वयम् ।। १५ ।।
नवपुत्राँस्तथा शिष्यान्मनुधर्मं सनातनम् ।।
श्रावयामास धर्मात्मा स राजा मनुधर्मगः ।। १६ ।।
शुक्लोपि रैवतं प्राप्य सच्चिदानंदविग्रहम् ।।
वासुदेवं जगन्नाथं तपसा समतोषयत् ।। १७ ।।
तदा प्रसन्नो भगवान्द्वार कानायको बली ।।
करे गृहीत्वा तं विप्रं समुद्रांतमुपाययौ ।। १८ ।।
द्वारकां दर्शयामास दिव्यशोभासमन्विताम् ।।
व्यतीते द्विसहस्राब्दे किञ्चिज्जाते भृगूत्तम ।। १९ ।।
अग्निद्वारेण प्रययौ स शुक्लोऽर्बुदपर्वते ।।
जित्वा बौद्धान्द्विजैः सार्धं त्रिभिरन्यैश्च बंधुभिः ।। 3.4.3.२० ।।
द्वारकां कारयामास हरेश्च कृपया हि सः ।।
तत्रोष्य मुदितो राजा कृष्णध्यानपरोभवत् ।। २१ ।।
पश्चिमे भारते वर्षे दशाब्दं कृतवान्पदम् ।।
नारायणस्य कृपया विष्वक्सेनः सुतोऽभवत् ।। २२ ।।
विंशदब्दं कृतं राज्यं जयसेनस्ततोऽभवत् ।।
त्रिंशदब्दं कृतं राज्यं विसेनस्तस्य चात्मजः ।।। ।। २३ ।।
शतार्धाब्दं कृतं राज्यं मिथुनं तस्य चाभवत् ।।
प्रमोदो मोदसिंहश्च विक्रमाय निजां सुताम् ।। २४ ।।
विसेनश्च ददौ प्रीत्या राष्ट्रं पुत्राय चोत्तमम् ।।
पितुस्तुल्यं कृतं राज्यं सिंधुवर्मा सुतोऽभवत् ।। २५ ।।
सिंधुकूले कृतं राज्यं त्यक्त्वा तत्पैतृकं पदम् ।।
सिंधुदेशस्ततो नाम्ना प्रसिद्धोभून्महीतले ।। २६ ।।
पितुस्तुल्यं कृतं राज्यं राज्ञा वै सिंधुवर्मणा ।।
सिंधुद्वीपस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। २७ ।।
श्रीपतिस्तस्य तनयो गौतमान्वयसंभवाम् ।।
काच्छपीं महिषीं प्राप्य कच्छदेशमुपाययौ ।। २८ ।।
पुलिन्दान्यवनाञ्जित्वा तत्र देशमकारयत् ।।
देशो वै श्रीपतिर्नाम्ना सिंधुकूले बभूव ह ।। २९ ।।
पितुस्तुल्यं कृतं राज्यं भुजवर्मा ततोऽभवत् ।।
जित्वा स शबरान्भिल्लांस्तत्र राष्ट्रमकारयत् ।। ।। 3.4.3.३० ।।
भुजदेशस्ततो जातः प्रसिद्धोऽभून्महीतले ।।
पितुस्तुल्यं कृतं राज्यं रणवर्मा सुतोऽभवत् ।। ३१ ।।
पितुस्तुल्यं कृतं राज्यं चित्रवर्मा सुतोऽभवत् ।।
कृत्वा स चित्रनगरीं वनमध्ये नृपोत्तमः ।। ३२ ।।
पितुस्तुल्यं कृतं राज्यं धर्मवर्मा सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं कृष्ण वर्मा सुतोऽभवत् ।। ३३ ।।
पितुस्तुल्यं कृतं राज्यमुदयस्तत्सुतोऽभवत् ।।
कृत्वोदयपुरं रम्यं वनमध्ये नृपोत्तमः ।। ३४ ।।
पितुस्तुल्यं कृतं राज्यं वाप्यकर्मा सुतोऽभवत् ।।
वापीकूपतडागानि नानाहर्म्याणि तेन वै ।। ३५ ।।
धर्मार्थे कारयामास धर्मात्मा स च वै पुरम् ।।
एतस्मिन्नन्तरे प्राप्तो बलदो नाम भूपतिः ।। ३६ ।।
लक्षसैन्ययुतो वीरो महामदमते स्थितः ।।
तेन सार्धमभूयुद्धं राज्ञो वै वाप्यकर्मणः ।। ३७ ।।
जित्वा पैशाचकान्म्लेच्छान्कृष्णोत्सवमकारयत् ।।
पितुस्तुल्यं कृतं राज्यं गुहिलस्तत्सुतोऽभवत् ।। ३८ ।।
पितुस्तुल्यं कृतं राज्यं कालभोजः सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं राष्ट्रपालस्ततोऽभवत् ।। ३९ ।।
स त्यक्त्वा पैतृकं स्थानं वैष्णवीं शक्तिमागमत् ।।
तपसाराधयामास शारदां सर्वमंगलाम् ।। ।। 3.4.3.४० ।।
प्रसन्ना सा तदा देवी कारयामास वै पुरीम् ।।
महावतीं महारम्यां मणिदेवेन रक्षिताम् ।। ४१ ।।
तत्रोष्य नृपतिर्धीमान्दशाब्दं राज्यमाप्तवान् ।।
तस्योभौ तनयौ जातौ विजयः प्रजयस्तथा ।। ४२ ।।
प्रजयः पितरौ त्यक्त्वा गंगाकूलमुपाययौ ।।
द्वादशाब्दं च तपसा पूजयामास शारदाम् ।। ४३ ।।
कन्या मूर्तिमयी देवी वेणुवादनतत्परा ।।
हयमारुह्य संप्राप्ता विहस्याह महीपतिम् ।। ४४।।
किन्निमित्तं भूपसुत त्वया चाराधिता शिवा ।।
तत्फलं त्वं हि तपसा मत्तः शीघ्रमवाप्स्यसि ।। ४५ ।।
इति श्रुत्वा स होवाच कुमारि मधुरस्वरे ।।
नवीनं नगरं मह्यं कुरु देवि नमोस्तु ते ।। ४६ ।।
इति श्रुत्वा तु सा देवी ददौ तस्मै हयं शुभम् ।।
पुरो भूत्वा वाद्यकरी दक्षिणां दिशमागता ।। ४७ ।।
स भूपो हयमारुह्य नेत्र आच्छाद्य चाययौ ।।
पुनः स भूपतिः पश्चात्पश्चिमां दिशमागता ।। ४८ ।।
ततोनुप्रययौ पूर्वमर्कणो यत्र पक्षिराट् ।।
भयभीतो नृपस्तेन समुन्मील्य स चक्षुषी ।। ४९ ।।
ददर्श नगरं रम्यं कन्याया रचितं शुभम् ।।
उत्तरे तस्य वै गंगा दक्षिणेनास पाण्डुरा ।। 3.4.3.५० ।।
पश्चिमे ईशसरिता पूर्वे पक्षी स मर्कणः ।।
कुब्जभूतमभूद्ग्रामं कान्यकुब्ज इति स्मृतः ।। ५१ ।।
दशवर्षं च तेनैव जयपालेन वै पदम् ।।
कृतं तस्य सुतो जातो वेणुवाद्याच्च वेणुकः ।। ५२ ।।
स वेणुश्च महीपालो देवीदत्तां मनोहराम् ।।
पत्नीं कन्यावतीं नाम्ना समुद्वाह्य रराज ह ।। ५३ ।।
तस्यां सप्त सुता जाता मातॄणां मंगलाः कलाः ।।
शीतला पार्वती कन्या तथा पुष्पवती स्मृता ।। ५४ ।।
गोवर्धनी च सिंदूरा काली नाम्ना प्रकीर्तिता ।।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।। ५५ ।।
वाराही च तथेन्द्राणी चामुण्डाः क्रमतोऽभवन्।।
एकदा भूपतेः पत्नी तंतुना मृत्तिकाघटम् ।। ।। ५६ ।।
कूपे कृतवती प्रेम्णा यथा पूर्वं तथाद्य सा ।।
ददर्श बहुला नारीर्नानाभूषणभूषिताः ।। ५७ ।।
स्वयमेकैव वसना मनोग्लानिमुपाययौ ।।
तदैव स घटो भूमौ न प्राप्तः सप्रवृत्तिकाम् ।। ५८ ।।
दृष्ट्वा कन्यावती देवी घटहीना गृहं ययौ ।।
तदा तु सप्तकन्याश्च शिलाभूता गृहे स्थिताः ।। ५९ ।।
श्रुत्वा वेणुस्तदागत्य भर्त्सयित्वा स्वकां प्रियाम् ।।
ब्रह्मचर्यव्रतं त्यक्त्वा रमयामास योषितम् ।। 3.4.3.६० ।।
नृपाद्वै वीरवत्यां च यशोविग्रह आत्मजः ।।
बभूव बलवान्धर्मी चार्यदेशपतिः स्वयम् ।। ६१ ।।
विंशद्वर्षं कृतं राज्यं तेन राज्ञा महीतले ।।
महीचंद्रस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।। ६२ ।।
चंद्रदेवस्तस्य सुतो राज्यं तेन पितुः समम् ।।
कृतं तस्मात्सुतो जातो मंदपालो महीपतिः ।। ६३ ।।
तस्य भूपस्य समये सर्वे भूपाः समन्ततः ।।
त्यक्त्वा तं मंदपालं च तद्दत्ते संस्थिता गृहे ।। ६४ ।।
पितुरर्द्धं कृतं राज्यं कुम्भपालस्ततो ऽभवत् ।।
राजनीया च नगरी पिशाचविषये स्थिता ।। ६५ ।।
तत्पतिश्च महामोदो म्लेच्छपैशाचधर्मगः ।।
स जित्वा बहुधा देशाँल्लुंठयित्वा धनं बहु ।। ६६ ।।
म्लेच्छधर्मकरः प्राप्तः कुम्भपालो यतः स्थितः ।।
कुम्भपालस्तु तं दृष्ट्वा कलिना निर्मितं नृप ।। ६७ ।।
महामोदं समागम्य प्रणनाम स बुद्धिमान् ।।
तदा म्लेच्छपतिः शूरो दत्त्वा तस्मै धनं बहु ।। ६८ ।।
राजनीयां च नगरीं प्राप्तवान्मूर्तिखंडकम् ।।
विंशदब्दं कृतं राज्यं कुंभपालेन धीमता ।। ६९ ।।
तत्पुत्रो देवपालश्चानंगभूपस्य कन्यकाम् ।।
समुद्वाह्य विधानेन चंद्रकांतिं तया सह ।। 3.4.3.७० ।।।
कान्यकुब्जगृहं प्राप्य जित्वा भूपाननेकशः ।।
पितुस्तुल्यं कृतं राज्यं तस्योभौ तनयौ स्मृतौ ।। ७१।।
जयचंद्रो रत्नभानुर्दिशं पूर्वां तथोत्तराम् ।।
आर्यदेशस्य वै जित्वा वैष्णवो राज्यमाप्तवान्।।७२।।
रत्नभानोश्च तनयो लक्षणो नाम विश्रुतः ।।
कुरुक्षेत्रे रणं प्राप्य त्यक्त्वा प्राणान्दिवं गतः।।७३।।
समाप्तिमगमद्वंशो वैश्यपालस्य धीमतः ।।
कुंभपालस्य शौक्लस्य वैश्यानां रक्षकस्य च ।।७४।।
विष्वक्सेनान्वये जाता विष्वक्सेना(विश्वक्नेना?) नृपाः स्मृताः।।
विसेनस्य कुले जाता विसेनाः क्षत्रियाः स्मृताः ।। ७५ ।।
गुहिलस्य कुले जाता गौहिलाः क्षत्रिया हि ते ।।
राष्ट्रपालान्वये जाता राष्ट्रपाला नृपाः स्मृताः ।। ७६ ।।
वैश्यपालस्य वै वंशे कुंभपालस्य धीमतः ।।
वैश्यपालाश्च राजन्या बभूबुर्बहुधा हि ते ।। ७७ ।।
लक्षणे मरणं प्राप्ते शुक्ल वंशधुरंधुरे ।।
सर्वे ते क्षत्रिया मुख्याः कुरुक्षेत्रे लयं गताः ।। ७८ ।।
शेषास्तु क्षुद्रभूपाला वर्णसंकरसंभवाः ।।
म्लेच्छैश्च दूषिता जाता म्लेच्छराज्ये भयानके ।। ७९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रमरवंशवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।