देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १३

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १२ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १३
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १४ →



त्रिपुण्ड‍धारणमाहात्म्यवर्णनम्

<poem> श्रीनारायण उवाच
महापातकसङ्‌घाश्च पातकान्यपराण्यपि ।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १ ॥
एकं भस्म धृतं येन तस्य पुण्यफलं शृणु ।
यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ २ ॥
गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा ।
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ ३ ॥
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ४ ॥
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ५ ॥
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ६ ॥
सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ७ ॥
माहेश्वराणां लिङ्‌गार्थं विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ८ ॥
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ।
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ ९ ॥
हिरण्यगर्भेण तदवतारैर्वरुणादिभिः ।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ १० ॥
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः ।
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ ११ ॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।
मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्‌करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १३ ॥
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा ।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्‌गव ॥ १४ ॥
शिवलिङ्‌गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा ।
विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ १५ ॥
भुनक्ति यत्र भस्माङ्‌गो मूर्खो वा पण्डितोऽपि वा ।
तत्र भुङ्‌क्ते महादेवः सपत्‍नीको वृषध्वजः ॥ १६ ॥
भस्मसञ्छन्नसर्वाङ्‌गमनुगच्छति यः पुमान् ।
सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ १७ ॥
भस्मसञ्छन्नसर्वाङ्‌गं यः स्तौति श्रद्धया सह ।
सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ १८ ॥
त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ १९ ॥
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ।
कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ २० ॥
मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् ।
दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ २१ ॥
भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् ।
छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ २२ ॥
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।
सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ २३ ॥
विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् ।
शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ २४ ॥
पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् ।
न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ २५ ॥
न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते ।
दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ २६ ॥
ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् ।
यथा राजा स्वचिह्नाङ्‌कं स्वजनं मन्यते सदा ॥ २७ ॥
तथा शिवस्त्रिपुण्ड्राङ्‌कं स्वकीयमिव मन्यते ।
द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ २८ ॥
धारयेद्यस्त्रिपुण्ड्राङ्‌कं रुद्रस्तेन वशीकृतः ।
त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ २९ ॥
सकृत्तिर्यक्त्रिपुण्ड्राङ्‌कं धारयेत्सोऽपि मुच्यते ।
नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ ३० ॥
त्रिपुण्ड्राङ्‌कितभालेन पूज्य एव हि नारद ।
शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम् ॥ ३१ ॥
शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना ।
रुद्राग्नेर्यत्परं तीर्थं तद्‍भस्म परिकीर्तितम् ॥ ३२ ॥
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् ।
अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ ३३ ॥
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।
तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः ।
सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा ॥ ३४ ॥
एतानि पञ्चशिवमन्त्रपवित्रितानि
     भस्मानि कामदहनाङ्‌गविभूषितानि ।
त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे
     लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ३५ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे त्रिपुण्ड‍धारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

</poem>