भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १२
।। सूत उवाच ।।
पुनः शृणु कथां रम्यां प्रयागे जीवभाषिताम्।।
हिर्बुर्नाम पुरा चासीद्दानवो लोककंटकः।।१।।
निकुंभान्वयसंभूतः शक्रतुल्यपराक्रमः ।।
सहस्राब्दं तपः कृत्वा तापयामास वै सुरान् ।। २ ।।
तदा लोकपतिर्ब्रह्मा लोकरक्षार्थमुद्यतः ।।
वरं ब्रूहीति वचनमुवाच दनुजेश्वरम् ।। ३ ।।
नमस्कृत्य विधातारं वचनं प्राह नम्रधीः ।।
यदि देयो वरः स्वामिंस्त्वया विश्वकृता विभो ।।४।।
मरणं न च मेभूयात्त्वत्कृतैश्च चराचरैः ।।
इत्युक्तस्स तथेत्युक्त्वा ब्रह्म लोकमुपाययौ ।। ५ ।।
दानवस्स तु रौद्रात्मा जित्वा स्वर्गनिवासिनः ।।
आहूय दानवान्दैत्यान्विवरेभ्यः प्रसन्नधीः ।। ६ ।।
स्वर्गे निवासयामास ते देवा भूतलीकृताः ।।
लक्षाब्दं च सुरास्सर्वे बुभुजुः परमापदः ।। ७ ।।
एकदा नारदो धीमान्दृष्ट्वा देवांस्तथागतान् ।।
वचनं प्राह योगात्मा भजध्वं लोकशंकरम् ।। ८ ।।
स देवश्च महादेवो ब्रह्माण्डेशो विपत्तिहा ।।
इति श्रुत्वा तु वचनं ते देवा विस्मयान्विताः ।। ९ ।।
पार्थिवैः पूजया मासुर्देवदेवमुमापतिम् ।।
गतैकादशवर्षाश्च तेषां पूजनकारिणाम् ।। १० ।।
तदा प्रसन्नो भगवान्महेशो लोकशंकरः ।।
ज्योतिर्लिंगमयो भूत्वा लोकाँस्त्रीन्समदाहयत् ।। ११ ।।
ये तु वै देवभक्ताश्च शेषाश्चासन्महाभये ।।
अन्ये तु दानवैस्सार्द्धं भस्मीभूता बभूविरे ।। १२ ।।
एतस्मिन्नन्तरे ब्रह्मा विष्णुना सह हर्षितः ।।
तुष्टाव स महारुद्रं स्तोत्रैस्सामसमुद्भवैः ।। १३ ।।
मिथुनस्थे दिवानाथे शशिमण्डलभूपतिम् ।।
हिर्बुघ्नं च महारुद्रं चकार सुरहेतवे ।। १४ ।।
इति श्रुत्वा स हिर्बुघ्नो देवकार्यार्थमुद्यतः ।।
हिमालये गिरौ रम्ये पुत्रोऽभूत्साद्यकर्मणः ।।३५ ।।
पतिरूपः कलाभिज्ञो भारतीश इति श्रुतः ।।
स जित्वा विदुषां वृंदान्काशीनगरमागतः ।।
शंकराचार्यमागम्य शिष्योऽभूत्तेन निर्जितः ।। १६ ।।
।। बृहस्पति रुवाच ।। ।।
मयपुत्रः स्मृतो मायी तपो घोरं चकार ह ।। १७ ।।
पदैकेन स्थितः सूर्ये सहस्राब्दं प्रयत्नतः ।।
स लोकाँस्तापयामास तपसा लोकवासिनः ।। १८ ।।
तदा प्रसन्नो भगवान्परमेष्ठी पितामहः ।।
त्रयो ग्रामास्तत्प्रियार्थे क्रमाद्वै तेन निर्मिताः ।। १९ ।।
सौवर्णं स्वर्गसदृशं पुरं षोडशयोजनम् ।।
तदधो योजनान्ते च राजतं च भुवर्मयम्।।२०।।
तदधो योजनान्ते च भूर्लोकमिव चायसम् ।।
एवं पुरनिवासिन्यो दैत्यानां योषितो मुदा ।। २१ ।।
शतकोटिमिता दैत्या धर्मात्मानो निवासिनः ।।
गृहीत्वा यज्ञभागं च देवतुल्या बभूविरे ।। २२ ।।
तदा निर्बलिनो देवाः क्षुधया पीडिताः प्रभुम् ।।
भगवन्तं महाविष्णुं तुष्टुवुः परया गिरा ।। २३ ।।
चतुर्युगसमूहानां वर्षाणां भगवन्प्रभो ।।
अधिकारविहीनाश्च वर्तंते स्वर्गमण्डले ।। २४ ।।
तामसांतरमेवापि षोडशैव चतुर्युगम् ।।
व्यतीतानि महाविष्णो मायिनां दुःखं भुंजताम् ।। २५ ।।
इति श्रुत्वा वचस्तेषां भगवान्मधुसूदनः ।।
दृष्ट्वा संस्कृतवार्तायां दैत्यान्धर्मपरायणान् ।।२६।।
वौद्धरूपस्त्वयं जातः कलौ प्राप्ते भयानके ।।
अजिनस्य द्विजस्यैव सुतो भूत्वा जनार्दनः ।। २७ ।।
वेदधर्मपरान्विप्रान्मोहयामास वीर्यवान् ।।
निर्वेदाः कर्मरहितास्त्रिवर्णास्तामसान्तरे ।। २८ ।।
षोडशे च कलौ प्राप्ते बभूबुर्यज्ञवर्जिताः ।।
तदा दैत्या रुषाविष्टास्सर्वे त्रिपुरवासिनः ।। २९ ।।
मनुजान्पीडयामासुर्निर्यज्ञान्वेदवर्जितान् ।।
क्षयं जग्मुर्नरास्सर्वे कल्पांते दैत्यभक्षिताः ।। ३० ।।
पुनस्सत्ययुगे प्राप्ते कैलासे गुह्यकालये ।।
देवैश्चाराधितः शंभुस्सर्वलोकशिवंकरः ।। ३१ ।।
ज्योतिर्लिगं वपुः कृत्वा तत्र तस्थौ भयंकरः ।।
एतस्मिन्नन्तरे देवाः प्रसन्नास्तामसान्तरे ।। ३२ ।।
भूमेस्सारं गृहीत्वा ते रथं कृत्वा विधानतः ।।
चंद्रभास्करयोस्साराच्चक्रे कृत्वा तथैव च ।।३३।।
सुमेरोश्च तथा सारात्केतुं कृत्वा रथस्य वै ।।
ददौ शिवाय महते यानं स्यन्दनरूपि तत् ।। ३४ ।।
तदा ब्रह्मा स्वयं प्राप्य बभूव रथसारथिः ।।
वेदाश्च वाजिनश्चासन्देवदेवस्य वै रथे ।। ३५ ।।
लोकालोकगिरेः सारो धनुश्चासीन्महात्मनः ।।
घोरं चाजगवं नाम प्रसिद्ध मभवद्धनुः ।। ३६ ।।
सज्यं चकार भगवांस्तद्धनुः कठिनं महत् ।।
भग्नीभूतमभूच्चापं देवदेवस्य वै रुषा ।। ३७ ।।
विस्मितो भगवान्विष्णुस्सारं स्वर्गस्य वै तदा ।।
गृहीत्वाशु धनुर्दिव्यं पिनाकं स चकार ह ।। ३८ ।।
सज्यं जातं च रुद्रेण पुष्टिभूतं महद्धनुः ।।
तदा ब्रह्मर्षयस्तुष्टास्तुष्टुवु र्मनसा हरम् ।। ३९ ।।
पिनाकीति च तन्नामा प्रसिद्धोभून्महेश्वरः ।।
गुणश्चापस्य वै शेषः शक्रो वाणस्तदाभवत् ।। ४० ।।
शरपक्षौ वह्निवायू शल्यं विष्णुः सनातनः ।।
तेन बाणेन दैत्यानां कोटिसंख्या मृता च खे ।। ४१ ।।
त्रिपुरं दाहयामास मायिना पालितं शिवः ।।
भस्मीभूते पुरे घोरे तदा लोकपतिर्विधिः ।। ४२ ।।
पिनाकिनं महारुद्रं मीनराशिस्थिते रवौ ।।
शशिनो मण्डलस्यैव राजानं स चकार तम् ।।
स्वाधिकाराँस्तदा देवा अवापुस्तामसान्तरे ।। ४३ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा पिनाकी च स्वमुखात्स्वांशमुत्तमम् ।। ४४ ।।
समुत्पाद्य हरद्वारे हिम सानौ चकार ह ।।
मच्छन्दो नाम तत्रैव योगी शंभुपरायणः ।। ४५ ।।
गोरखस्य गुरुर्यो वै तन्मुखे तेज आविशत् ।।
रंभा नाम्नैव तत्रैव स्वर्वेश्या कामरूपिणी ।। ४६ ।।
मच्छन्दं च वशीकृत्य बुभुजे स्मरविह्वला ।।
तयोस्सकाशाद्वै जातस्स पुत्रो रुचिराननः ।। ४७ ।।
नाथशर्मेति विख्यातो विद्वाञ्च्छ्रेष्ठतरोऽभवत् ।।
स जित्वा पंडितान्भूमौ पुरीं काशीं समागतः ।।
शंकराचार्यविजितस्तस्य शिष्यो बभूव ह ।। ४८ ।।
।। बृहस्पतिरुवाच ।। ।।
चाक्षुषांतरसंप्राप्ते द्वादशे द्वापरे युगे ।। ४९ ।।
क्षत्रियैस्तालजंघीयैर्ब्राह्मणा भृगुवंशजाः ।।
विनाशिताः कुरुक्षेत्रे गृहीत्वा तद्धनं बहु ।। ५० ।।
बभुजुर्बलवंतस्ते दैत्यपक्षा महाधमाः ।।
कस्यचित्तु मुनेः पत्नी गुर्विणी च भयान्विता ।। ५१ ।।
हिमतुंगे समागम्य तद्गर्भं मुनिसंभवम् ।।
शतवर्षं ददौ देवी तपसा ज्ञानरूपिणी ।। ५२ ।।
मातुरूरू सुतो भित्त्वा ततो जातो महीतले ।।
तेजसा तस्य पुत्रस्य भस्मीभूतमभूज्जगत् ।। ५३ ।।
तदा तु सकला देवाः पुरस्कृत्य प्रजापतिम् ।।
वज्रस्थितश्च वै तालास्समाजग्मु र्भयातुराः ।। ५४ ।।
पितृभिदैवतैर्बालस्समाज्ञातो हिमाचले ।।
लोकनाशकरं तेजो जलमध्ये स चाक्षिपत् ।। ५५ ।।
जलदेवी च वडवा भूत्वा तत्तेज उत्तमम् ।।
पीत्वा ववाम तत्रैव पीडिता रौद्रतेजसा ।। ५६ ।।
तदागत्य स्वयं ब्रह्मा त्रिकुटो यत्र वै गिरिः ।।
तदधः सागरे घोरे स्थापयामास लोकपः ।। ५७ ।।
मेषगे द्युमणौ प्राप्ते शशिमण्डलगं प्रभुम् ।।
तं रुद्रं स चकाराशु परमेष्ठी पितामहः ।। ५८ ।।
ऊरुजातात्स्मृतो वोर्वो दहनो लोकदाहतः ।।
वडवामुखतो जातो वाडवो नाम स प्रभुः ।। ५९ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा तु दहनो गुरुवाक्यं मनोहरम् ।।
स्वमुखात्तेज उत्पाद्य कुरुक्षेत्रं चकार ह ।। ६० ।।
सारस्वतस्य विप्रस्य गृहे जातस्स वै शिवः ।।
क्षेत्रशर्मेति विख्यातो विद्वच्छ्रेष्ठो बभूव ह ।। ६१ ।।
शंकराचार्यमागम्य शिष्यो भूत्वा पराजितः ।।
ब्रह्मचर्यव्रती काश्यां तस्थौ शंभुपरायणः ।। ६२
।। बृहस्पतिरुवाच ।।
एकार्णवे पुरा जाते नष्टे स्थावर जंगमे ।।
शताब्दे ब्रह्मणः प्राप्तेऽव्यक्तजन्मनि लोकगे ।। ६३ ।।
अव्यक्तं प्रकृतिर्माया पीत्वा सर्वजलं मुदा ।।
महाकाली स्वयं मूर्तिरंधकारस्वरू पिणी ।। ६४ ।।
एका बभूव तत्रैव प्राकृते कल्पदारुणे ।।
चतुर्युगानां कोटीनां त्रयाणां दारुणे लये ।। ६५ ।।
षष्टिलक्षयुतानां च कालस्तत्र व्यती तवान्।।
तदा सा प्रकृतिर्देवी नित्यशुद्धा सनातनी ।।६६।।
स्वेच्छया च स्वरूपं स्वं महागौरमनुत्तमम् ।।
पंचवक्त्रं दशभुजं त्रिनेत्रं च दधौ शिवा।। ।। ६७ ।।
भालनेत्रेण सा माता सूक्ष्मतेजो ददर्श ह ।।
शून्यभूतं परं नित्यमविकारि निरंजनम् ।। ६८ ।।
तदा दिक्षु गतं ब्रह्म स्वभुजैः प्रकृतिः पुरा ।।
ग्रहीतुमिच्छती तत्र न समर्था बभूव वै ।। ६९ ।।
विस्मिता प्रकृतिर्माता पंचवक्त्रैः सनातनम् ।।
तुष्टाव परया भक्त्या चिरकालात्परात्परम् ।। ।। ७० ।।
धातुशब्दैः प्राङ्मुखजैः प्रत्ययैर्याम्यवक्त्रजैः ।।
सुविभक्तिमयैः शब्दैर्मुखपश्चिमजैः स्थिरा ।। ७१ ।।
तिङ्विभक्तिमयैर्नित्या मुखोत्तरमयै र्मुदा ।।
नभोवक्त्रमयैः शब्दैर्वर्णमात्रैर्निरंजनम् ।। ७२ ।।
सच्चिदानंदघनकं पूर्णब्रह्म सनातनम् ।।
तुतोष तत्तु सर्वज्ञं पचवक्त्रेषु चागमत् ।। ७३ ।।
पुरुषत्वमभूद्ब्रह्म स्वयंभूर्नाम चाभवत्।।
अव्यक्तात्प्रकृतेर्जातोऽव्यक्तजन्मा हि स स्मृतः ।। ७४ ।।
तस्य हेतोः स्वयं देवी वरदा लोकरूपिणी ।।
महालक्ष्मीश्च पूर्वार्द्धाज्जाता षोडशलोकिनी ।। ७५ ।।
अष्टादशभुजास्तस्या लोकरक्षणतत्पराः ।।
दृष्ट्वा तदद्भुतं रूपं स्वयंभूर्विस्मयान्वितः ।। ।। ७६ ।।
प्रविश्य बहुधा भूत्वा नान्तं तस्या जगाम ह ।।
बृहत्वाद्बहुरूपत्वाद्ब्रह्मा नामेति विश्रुतः ।। ७७ ।।
श्रमितो भगवान्ब्रह्मा सत्यलोकमुप स्थितः ।।
मुखेभ्य उद्भवैर्देवो वेदैस्तुष्टाव शंकरम् ।। ७८ ।।
चिरं कालं तदंगाद्वै नदीनदसमुद्भवः ।।
एकार्णवं तदा जातं शेते तत्र स्वयं प्रभुः ।। ।। ७९ ।।
सहस्रयुगपर्यंतमुषित्वाऽव्यक्तभूः स्वयम् ।।
सत्यलोकमुपागम्य पुनः सृष्टिं चकार ह ।। ८० ।।
अनन्ताः सृष्टयश्चासन्गणरूपाः पृथक्पृथक् ।।
ताभिर्व्यक्तमभूत्सर्वं महालक्ष्मीमयं जगत्।। ८१ ।।
दृष्ट्वा बहुत्वं सृष्टीनां महालक्ष्मीः सनातनी।।
विस्मिताभूच्च सर्वेशं भगवन्तमुपाययौ ।। ।। ८२ ।।
नत्वोवाच वचो रम्यं कृष्णमव्यक्तमंगलम् ।।
भगवन्नित्यशुद्धात्मन्नराश्चासन्महत्तराः ।। ८३ ।।
कथं तेषां च गणना कर्तव्या च मया सदा ।।
इति श्रुत्वा वचस्तस्या द्विधाभूतश्च सोऽव्ययः ।। ८४ ।।
पूर्वार्द्धात्स तु रक्ताङ्गः परार्द्धाद्गौररूपवान् ।।
चतुर्भुजस्स रक्तांगो गौरवर्णश्चतु र्भुजः ।।८५।।
सर्वसृष्टिगणानां च स ईशो भगवान्भवः ।।
गणेशो नाम विख्यातश्चेश्वरस्स तु विश्रुतः ।।८६।।
परश्चतुर्भुजो यो वै योगिध्येयो निरं जनः ।।
एकदा विधितो जातः शिवः पार्वतिवल्लभः ।। ८७ ।।
गणेशं पूजयामास सहस्राब्दं प्रयत्नतः ।।
तदा प्रसन्नो भगवान्गणेशः शर्वपूजकः ।। ।। ८८ ।।
वरं वरय तं प्राह पार्वतीसहितं हरम् ।।
प्रसन्नात्मा भवः साक्षात्तुष्टाव च विनम्रधीः ।। ८९ ।।
।। शिव उवाच ।। ।।
नमो विष्णुस्वरूपाय गणेशाय परात्मने ।।
चतुर्भुजाय रक्ताय यज्ञपूर्णकराय च ।। ९० ।।
विघ्नहंत्रे जगद्भर्त्रे सर्वानन्दप्रदायिने ।।
सिद्धीनां पतये तुभ्यं निधीनां पतये नमः ।। ९१ ।।
प्रसन्नो भव देवेश पुत्रो भव मम प्रियः ।।
इति श्रुत्वादिपूज्यस्तु गणेशो भक्तवत्सलः ।।९२।।
पार्वत्याः सर्वदेहात्तु तेजोभूतात्समु द्भवः ।।
तदा कैलासशिखरे सर्वे देवास्सवासवाः ।। ९३ ।।
मंगलार्थमुपाजग्मुर्देवदेवस्य मन्दिरे।।
महोत्सवश्च तत्रासीत्सर्वलोकसुखावहः ।। ९४ ।।
एतस्मिन्नंतरे तत्र सूर्यपुत्रः शनिः स्वयम् ।।
क्रूरदृष्टिः समायातः कालात्मा देवमण्डपे ।। ९५ ।।
तस्य दर्शनमात्रेण स बालो विशिरा ह्यभूत् ।।
हाहाकारो महाँश्चासीत्कैलासे गुह्यकालये ।। ९६ ।।
तच्छिरश्चंद्रलोके वै तुलासंस्थे दिवाकरे ।।
सप्तविंशद्दिनान्येव प्रकाशयति भूतले ।। ९७ ।।
निंदितो दैवतैस्तत्र शनिर्जनभयंकरः ।।
गजस्य मस्तकं छित्त्वा दन्तैकं रागरूपि यत् ।। ९८ ।।
तच्छिशोः कंधरे रक्तेऽरोपयत्सूर्यसंभवः ।।
गज योन्या स्तुतो ब्रह्मा कर्कटस्य तदा शिरः ।। ९९ ।।
समारोप्य तु तद्योनिः कर्कटो विशिरीकृतः ।।
एवं गजाननो जातो गणेशश्चेश्वरः स्वयम् ।। ।। १००
।। सूत उवाच ।।
इति श्रुत्वा गणेशस्तु गुरोर्वचनमुत्तमम् ।।
स्वमुखात्स्कंधमुत्पाद्य काश्यां जातः स चेश्वरः ।। १०१ ।।
दैवज्ञस्य द्विजस्यैव पुत्रो भूत्वा शुभाननः ।।
ढुंढिराजस्ततो नाम्ना प्रसिद्धोऽभून्महीतले ।। १०२ ।।
जातकाभरणं नाम ज्योतिःशास्त्रं फलात्मकम् ।।
कृत्वा स वेदरक्षार्थे शंकराचार्यमागमत् ।। १०३ ।।
शिष्यो भूत्वा प्रसन्नात्मा गुरुसेवापरोऽभवत् ।।
इति ते कथितं विप्र ढुंढिराजो यथाभवत् ।। १०४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये भारतीशगोरखनाथक्षेत्रशर्मढुंढिराजसमुत्पत्ति वर्णनो नाम द्वादशोऽध्यायः ।। १२ ।। छ ।।