देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०३

विकिस्रोतः तः

भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम्

श्रीनारायण उवाच
महीं देव: प्रतिष्ठाप्य यथास्थाने च नारद ।
वैकुण्ठलोकमगमद्‌ ब्रह्मोवाच स्वमात्मजम् ॥ १ ॥
स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर ।
स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम् ॥ २ ॥
देशकालविभागेन यज्ञेशं पुरुषं यज ।
उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो ॥ ३ ॥
धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् ।
एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ॥ ४ ॥
पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः ।
विद्याविनयसम्पन्नान् सदाचारवतां वरान् ॥ ५ ॥
कन्याश्च दत्त्वा गुणवद्यशोवद्‌भ्यः समाहितः ।
मन: सम्यक् समाधाय प्रधानपुरुषे परे ॥ ६ ॥
भक्तिसाधनयोगेन भगवत्परिचर्यया ।
गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान् ॥ ७ ॥
इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापति: ।
प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत ॥ ८ ॥
प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् ।
स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः ॥ ९ ॥
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे शृणु ॥ १०
आकूतिः प्रथमा कन्या द्वितीया देवहूतिका ।
तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ॥ ११
आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् ।
दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ॥ १२
रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः ।
आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ॥ १३
सांख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः ।
दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥ १४
यासां सन्तानसम्भूता देवतिर्यङ्नरादयः ।
प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ॥ १५
यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः ।
मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ॥ १६
कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः ।
देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥ १७
सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् ।
कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥ १८
उपदिश्य महायोगी स ययौ पुलहाश्रमम् ।
अद्यापि वर्तते देवः सांख्याचार्यो महाशयः ॥ १९
यन्नामस्मरणेनापि सांख्ययोगश्च सिद्ध्यति ।
तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ॥ २०
एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् ।
पठतां शृण्वतां चापि सर्वपापविनाशनम् ॥ २१
अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् ।
यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥ २२
द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता ।
व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये ॥ २३

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥