देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः १७

विकिस्रोतः तः

ध्रुवमण्डलसंस्थानवर्णनम्

श्रीनारायण उवाच
अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः ।
लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम् ॥ १ ॥
महाभागवतः श्रीमान् वर्तते लोकवन्दितः ।
औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च ॥ २ ॥
धर्मेण सह चैवास्ते समकालयुजा ध्रुवः ।
बहुमानं दक्षिणतः कुर्वद्‌भिः प्रेक्षकैः सदा ॥ ३ ॥
आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् ।
ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ॥ ४ ॥
कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा ।
अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः ॥ ५ ॥
भासते भासयन्भासा स्वीयया देवपूजितः ।
मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः ॥ ६ ॥
मण्डलानि चरन्तीमे सवनत्रितयेन च ।
एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥ ७ ॥
अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः ।
ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते ॥ ८ ॥
आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव ।
कर्मसारथयो वायुवशगाः सर्व एव ते ॥ ९ ॥
एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च ।
संयोगानुगृहीतास्ते भूमौ न निपतन्ति च ॥ १० ॥
ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् ।
सोपयोगं भगवतो योगधारणकर्मणि ॥ ११ ॥
यस्यार्वाक्‌शिरसः कुण्डलीभूतवपुषो मुने ।
पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥ १२ ॥
लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः ।
अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः ॥ १३ ॥
धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः ।
दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः ॥ १४ ॥
उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च ।
दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च ॥ १५ ॥
कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि ।
समसंख्याश्चावयवा भवन्ति कजनन्दन ॥ १६ ॥
अजवीथी पृष्ठभागे आकाशसरिदौदरे ।
पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥ १७ ॥
आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः ।
अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥ १८ ॥
यथासंख्यं च देवर्षे श्रुतिश्च जलभं तथा ।
कल्पिते कल्पनाविद्‌‍भिर्नेत्रयोर्दक्षवामयोः ॥ १९ ॥
धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः ।
मघादीन्यष्टभानीह दक्षिणायनगानि च ॥ २० ॥
युञ्जीत वामपार्श्वीयवंक्रिषु क्रमतो मुने ।
तथैव मृगशीर्षादीन्युदग्भानि च यानि हि ॥ २१ ॥
दक्षपार्श्वे वंक्रिकेषु प्रातिलोम्येन योजयेत् ।
शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः ॥ २२ ॥
अगस्तिश्चोत्तरहनावधरायां हनौ यमः ।
मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके ॥ २३ ॥
बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः ।
नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥ २४ ॥
स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः ।
बुधः प्राणापानयोश्च गले राहुश्च केतवः ॥ २५ ॥
सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः ।
एतद्‍भगवतो विष्णोः सर्वदेवमयं वपुः ॥ २६ ॥
सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः ।
निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः ॥ २७ ॥
नमो ज्योतिर्लोकाय कालायानिमिषां
पतये महापुरुषायाभिधीमहीति ॥ २८ ॥
ग्रहर्क्षतारामयमाधिदैविकं
     पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
     नश्येत तत्कालजमाशु पापम् ॥ २९ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥