स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १८

विकिस्रोतः तः


    वाल्मिके:पूर्व जन्मस्य कथा
       "व्याध उवाच।।
भवताऽनुगृहीतोऽस्मि मुने पापोऽतिदुष्टधीः।।
दयालवो महांतो हि स्वभावादेव साधवः।।१।।
क्व व्याधश्चाऽकुलीनोऽहं क्व च वा मतिरीदृशी।।
केवलं भवतामेव मन्येऽनुग्रहमुत्तमम्।।२।।
अथ साधो च शिष्योस्मि कृपापात्रोस्मि मानद।।
अनुग्राह्योऽस्मि पुत्रोऽस्मि कृपां कुरु दयानिधे।।३।।
यथा मे न पुनर्भूयादसन्मतिरनर्थदा।।
सद्भिस्तु संगतेः क्वापि नभूयो दुःखमश्नुते।।४।।
तस्माद्बोधय मां विप्र सूक्तैस्तैर्वृजिनापहैः ।।
येन चाद्धा तरिष्यंति संसाराब्धिं मुमुक्षवः।।५।।
साधूनां समचित्तानां तथा भूतदयावताम् ।।
न च हीनोत्तमः क्वापि नात्मीयो हि परस्तथा।।६।।
ऐकाग्र्येण विचिंत्याथ चित्तशुद्धिं च पृच्छति।।
सर्वदोषयुतो वापि सर्वधर्मोज्झितोऽपि वा।।७।।
कृतानुतापश्च यदा यदा पृच्छति वै गुरून्।।
तदैवोपदिशंत्यद्धा ज्ञानं संसारमोचकम्।।८।।
यथा गंगा मनुष्याणां पापनाशस्य भाविनी।।
तथा मन्दसमुद्धारस्वभावाः साधवः स्मृताः।।९।।
मा विचारय मां बोद्धुं दयालो भक्तवत्सल ।।
शुश्रूषुत्वान्नतत्वाच्च शुद्धत्वात्तव संगतेः।। 2.7.18.१०।।
इति व्याधवचः श्रुत्वा पुनर्विस्मितमानसः।।
साधुसाध्विति संभाष्य धर्मानेतानुवाच ह।।११।।
        ।।शंख-उवाच।।
विष्णुप्रीतिकरान्दिव्यान्संसाराब्धिविमोचकान् ।।
कुरु धर्मांश्च वैशाखे यदि व्याध शमिच्छसि।।१२।।
आतपो बाधते घोरो न च्छाया नांबु चात्र च।।
तस्मात्स्थलांतरं यावो यत्र च्छाया तु वर्तते।।१३।।
तत्र गत्वा जलं पीत्वा सुच्छायां च समाश्रितः।।
तत्र ते वर्णयिष्यामि माहात्म्यं पापनाशनम्।।१४।।
विष्णोर्माधवमासस्य यथादृष्टं यथाश्रुतम्।।
इत्युक्तो मुनिना तेन व्याधः प्राह कृताञ्जलिः।। १५।।
इतो विदूरे सलिलं वर्तते च सरोवरे ।।
कपित्थास्तत्र वै सन्तिफलभारेण पीडिताः।।१६।।
गच्छावस्तत्र संतुष्टिर्भविता नात्र संशयः।।
व्याधेनैवं समादिष्टस्तेन साकं ययौ मुनिः।।१७।।
कियद्दूरं ततो गत्वा ददर्शाग्रे सरोवरम् ।।
बक कारण्डवाकीर्णं चक्रवाकोपशोभितम् ।।१८।।
हंससारसक्रौंचाद्यैः समंतात्परिशोभितम् ।।
कीचकैश्च सुघोषैश्च कूजितं भ्रमरैरपि ।।१९।।
नक्रकच्छपमीनाद्यैर्वगाह्यं सुमनोहरम् ।।
कुमुदोत्पलकह्लार पुंडरीकादिभिर्महत्।। 2.7.18.२०।।
शतपत्रैः कोकनदैः समन्तात्परिशोभितम् ।।
पक्षिणां च कलारावैर्मुखर नयनोत्सवम् ।।२१।।
तटे कीचकगुल्मैश्च तथा वृक्षैश्च शोभितम् ।।
वटैः करंजैर्नीपैश्च चिंचिणीभिस्तथैव च ।।२२।।
निम्बप्लक्षप्रियालैश्च चम्पकैर्बकुलैः शुभैः।।
पुन्नागैस्तुम्बरैश्चैव कपित्थामलकैरपि ।।२३।।
निष्पेषणैश्च जम्बूभिः समंतात्परिशोभितम्।।
वन्यमातंगसारंग वराहमहिषादिभिः।।२४।।
शशैश्च शल्लकैश्चैव गवयैरुपशोभितम्।।
खङ्गनाभिमृगाद्यैश्च व्याघ्रैः सिंहैर्वृकैरपि ।।२५।।
खरान्तकैश्च शरभैश्च मरीभिः सुमण्डितम् ।।
शाखाशाखान्तरं शीघ्रं प्लवमानैः प्लवंगमैः।।२६।।
मार्जारैश्चैव भल्लूकैर्भीषणं रुरुभिस्तथा।।
झिल्लीशब्दैश्च क्रेंकारैः कीचकानां रवैस्तथा।।२७।।
घोरवायुविनिर्घातदारुभारैः समन्वितम् ।।
एतादृशं सरो दिव्यं व्याधेनैव प्रदर्शितम् ।।२८।।
ददर्श मुनिशार्दूलस्तृषया बाधितो भृशम् ।।
स्नात्वा मध्याह्नवेलायां सरस्यस्मिन्मनोरमे।।२९।।
वाससी परिधायाऽथ कृत्वा माध्याह्निकीःक्रियाः।।
देवपूजां ततः कृत्वा भुक्त्वा फलमतन्द्रितः ।। 2.7.18.३०।।
व्याधोपनीतं सुस्वादु कपित्थं श्रमहारि च ।।
सुखोपविष्टः पप्रच्छ व्याधं धर्मरतं पुनः ।।३१।।
किं वक्तव्यं मया ह्यद्य तवादौ धर्मतत्पर ।।
धर्माश्च बहवः संति नानामार्गाः पृथग्विधाः।।३२।।
तत्र वैशाखमासोक्ताः सूक्ष्मा अपि महार्थदाः।।
सर्वेषामेव जन्तूनामिहाऽमुत्र फलप्रदाः।।३३।।
यत्प्रष्टव्यं मनसि ते यच्चादौ तच्च पृच्छताम्।।
इत्युक्तो मुनिना तेन व्याधः प्रांजलिरब्रवीत्।।३४।
      ।।व्याध उवाच।।
केन वा कर्मणा चाऽऽसीद्व्याधजन्म तमोमयम्।।
केन वा चेदृशी बुद्धिः संगतिर्वा महात्मनः।।३५।।
एतच्चान्यत्समाचक्ष्व यदि मां मन्यसे प्रभो।।
इत्युक्तः पुनरप्याह शंखो नाम महामुनिः।।३६।।
मेघगंभीरया वाचा स्मयमानमुखांबुजः।।
      ।।शंख उवाच।।
शाकले नगरे पूर्वं द्विजस्त्वं वेदपारगः ।।३७।।
स्तम्बो नाम महातेजास्तथा श्रीवत्सगोत्रजः।।
तवेष्टा गणिका काचिदासीत्तत्संगदोषतः।।३७।।
त्यक्त्वा नित्यक्रिया नित्यं शूद्रवद्गृहमागतः ।।
शून्याचारस्य दुष्टस्य परित्यक्तक्रियस्य च।।३९।।
ब्राह्मणी च तदा चाऽऽसीद्भार्या कांतिमती तव।।
सा त्वां पर्यचरत्सुभ्रूः सवेश्यं ब्राह्मणाधमम्।। 2.7.18.४०।।
उभयोः क्षालयंती च पादांस्त्वत्प्रियकारिणी।।
उभयोरप्यधः शेते उभयोर्वचने रता ।।४१।।
वेश्यया वार्यमाणाऽपि पातिव्रत्यव्रतस्थिता ।।
एवं शुश्रूषयंत्या हि भर्तारं वेश्यया सह ।।४२।।
जगाम सुमहान्कालो दुःखिताया महीतले।।
अपरस्मिन्दिने भर्ता माषं च मूलकान्वितम्।।४३।।
अभक्षयच्छूद्रधर्मान्निपावांस्तिलमिश्रितान् ।।
तदपथ्यमशित्वा तु वमंश्चैव विरेचयन्।।४४।।
अपथ्याद्दारुणो रोगो व्यजायत भगंदरः।।
स दह्यमानो रोगेण दिवारात्रं तु भूरिशः।।४५।।
यावदास्ते गृहे वित्तं तावद्वेश्या च संस्थिता।।
गृहीत्वा तस्य सा वित्तं पश्चान्नोवास मंदिरे।।४६।।
अन्यस्य पार्श्वमासाद्य गता घोरा सुनिर्घृणा ।।
ततः स दीनवचनो व्याधिबाधासुपीडितः ।।४७ ।।
उक्तवान्स रुदन्भार्यां रुजा व्याकुलमानसः।।
परिपालय मां देवि वेश्याऽऽसक्तं सुनिष्ठुरम्।।४८।
न मयोपकृतं किंचित्त्वयि सुंदरि पावनि ।।
को भार्यां प्रणतां पापो नानुमन्येत गर्हितः।।४९।।
स षंढो भविता भद्रे दश जन्मसु पंचसु ।।
दिवारात्रं महाभागे निमदितः साधुभिर्जनैः ।। 2.7.18.५०।।
पापयोनिमवाप्स्यामि त्वां साध्वीमवमन्य वै।।
अहं क्रोधेन दग्धोऽस्मि तवापमानजेन वै ।।५१।।
एवं ब्रुवाणं भर्तारं कृताञ्जलिपुटाऽब्रवीत्।।
न दैन्यं भवता कार्यं न व्रीडा कांत मां प्रति।। ५२।।
न चाऽपि त्वयि मे क्रोधो येन दग्धो वदस्यथ।।
पुरा कृतानि पापानि दुःखानीह भवंति हि।।५३।।
तानि या क्षमते साध्वी पुरुषो वा स उत्तमः।।
यन्मया पापया पापं कृतं वै पूर्वजन्मनि।।५४।।
तद्भुंजत्या न मे दुःखं न विषादः कथंचन ।।
इत्येवमुक्त्वा भर्तारं सा सुभ्रूस्तमपालयत् ।।५५।।
आनीय जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी ।।
क्षीरोदवासिनं देवं भर्त्तारं सा त्वचिंतयत् ।।५६।।
शोधयन्ती दिवारात्रौ पुरीषं मूत्रमेव च ।।
नखेन कर्षती भर्त्तुः कृमीन्कष्टाच्छनैःशनैः।।५७।।
न सा स्वपिति रात्रौ तु न दिवा वरवर्णिनी ।।
भर्त्तुर्दुःखेन संतप्ता दुःखितेदमवोचत ।।५८।।
देवाश्च पातु भर्तारं पितरो ये च विश्रुताः ।।
कुर्वंतु रोगहीनं मे भर्त्तारं गतकल्मषम् ।।५९।।
चण्डिकायै प्रदास्यामि रक्तमांससमुद्भवम् ।।
सुष्ठवन्नं माहिषोपेतं भर्त्तुरारोग्यहेतवे।। 2.7.18.६०।।
मोदकान्कारयिष्यामि विघ्नेशाय महात्मने।।
मन्दवारे करिष्यामि चोपवासान्दशैव तु ।।६१।।
नोपभुंजामि मधुरं नोपभुंजामि वै घृतम् ।।
तैलाभ्यंगविहीनाहं स्थास्ये नैवात्र संशयः ।।६२।।
जीवताद्रोगहीनोऽयं भर्त्ता मे शरदां शतम्।।
एवं सा व्याहरद्देवी वासरे वासरे गते ।।६३।।
तदा चाऽऽगान्मुनिः कश्चिन्महात्मा देवलाह्वयः।।
वैशाखे मासि घर्मार्तः सायाह्ने तस्य वै गृहम्।। ६४।।
तदा वै भार्यया चोक्तं भिषग्वै गृहमागतः।।
तेन वै रोगहानिः स्यात्तस्याऽऽतिथ्य करोम्यहम्।। ६५।।
ज्ञात्वा त्वां धर्मविमुखं भिषग्व्याजेन वंचितः।।
पादावनेजनं कृत्वा तज्जलं मूर्ध्नि साक्षिपत्।। ६६।।
पानकं च ददौ तस्मै घर्मार्ताय महात्मने ।।
त्वयाऽनुमोदिता सायं घर्मतापनिवारकम् ।।६७।।
स प्रातरुदिते सूर्ये मुनिः प्रायाद्यथाऽऽगतः।।
अथ चाल्पेन कालेन सन्निपातोऽभवत्तव।।६८।।
त्रिकट्व्यां नीयमानायां भर्त्तांगुलिमखंडयत् ।।
उभयोर्दंतयोः श्लेषः सहसा समपद्यत ।।६९।।
तत्खंडमंगुलेर्वक्त्रे स्थितं भर्तुः सुकोमलम्।।
खण्डयित्वागुलिं भर्ता पञ्चत्वमगमत्तदा।। 2.7.18.७०।।
शय्यायां सुमनोज्ञायां स्मरंस्तां पुंश्चली शुभाम् ।।
मृतं विज्ञाय भर्त्तारं भार्या कांतिमती तव।।७१।।
विक्रीय चाऽपि वलयं गृहीत्वा चेन्धनं बहु ।।
चक्रे चितिं तेन साध्वी मध्ये कृत्वा पतिं तदा ।।७२।।
अवगुह्य भुजाभ्यां च पादौ चाश्लिष्य पादयोः।।
मुखे मुखं विनिक्षिप्य हृदयं हृदये तथा।।७३।।
जघने जघनं देवी ह्यात्मानं सन्निवेश्य च।।
दाहयामास कल्याणी भर्तृदेहं रुजान्वितम्।।
आत्मना सह कल्याणी ज्वलिते जातवेदसि।।७४।।
विमुच्य देहं सहसा जगाम पतिं समालिंग्य मुरारिलोकम्।।
पानीयदानेन च माधवेऽस्मिन्पादावनेजादपि योगिगम्यम्।।७५।।
त्वमंतकाले गणिकाविचिंतया देहं त्यक्त्वा मुक्तसमस्तकिल्बिषः।।
जन्म व्याध्यं प्राप्यसे घोररूपं हिंसासक्तः सर्वदोद्वेगकारी ।।७६।।
दत्ता त्वया पानकस्याऽपि दाने मासेऽनुज्ञा माधवे साधुजाने।।
व्याधो जातस्तेन जाता सुबुद्धिर्धर्मान्प्रष्टुं सर्वसौख्यैकहेतून् ।।७७।।
धृतं मूर्ध्ना पादशौचावशिष्टं जलं मुनेः सर्वपापापहारि।।
तेनेयं ते संगतिर्मे वनेऽस्मिन्यया भूयः संपदः सन्ततिश्च ।।७८।।
इत्येतत्सर्वमाख्यातं पूर्वजन्मनि यत्कृतम्।।
कर्म पुण्यं पापकं च दृष्टं दिव्येन चक्षुषा।।७९।।
गोप्यं वा ते प्रवक्ष्यामि यद्भवाञ्छ्रोतुमिच्छति।।
जाता ते चित्तशुद्धिर्वै स्वस्ति भूयान्महामते।। 2.7.18.८०।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीष संवादे व्याधोपाख्याने व्याधस्य पूर्वजन्मकथनंनामाष्टादशोऽध्यायः।।१८।।