सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः

।। ।। नारद उवाच ।। ।।
वैशाखेऽध्वगतप्तानां तृषार्तानां महीपते ।।
जलदानमकुर्वाणस्तिर्शयोनिमवाप्नुयात् ।। १ ।।
अत्रैवोदाहर न्तीममितिहासं पुरातनम् ।।
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ।। २ ।।
पुरा चेक्ष्वाकुवंशेऽभूद्धेमांग इति भूमिपः ।।
ब्रह्मण्यश्च वदान्यश्च जितामित्रो जितेन्द्रियः ।। ३ ।।
यावत्यो भूमिकणिका यावन्तो जलबिंदवः ।।
यावन्त्युडूनि गगने तावतीरददात्स गाः ।। ४ ।।
येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती शुभा ।।
गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः ।। ५ ।।
तेनादत्तानि दानानि न विद्यन्त इति श्रुतम्।।
तेनादत्तं जलं चैकं सुखलभ्यधिया नृप ।। ६ ।।
बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ।।
अमौल्यं सर्वतो लभ्यं तद्दाता किं फलं लभेत् ।।७ ।।
दुर्बुद्ध्या हेतुवादैश्च न जलं दत्तवान्द्विजे ।।
अलभ्यदाने पुण्यं स्यादिति वाक्यं सुयुक्तिमत् ।। ८ ।।
स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ।।
नार्चयच्छ्रोत्रियान्विप्रांस्तत्त्वज्ञान्ब्रह्मवादिनः ।। ९ ।।
प्रख्यातान्पूजयिष्यंति सर्वे लोका महार्हणाः ।।
अनाथानामविद्यानां व्यंगानां च द्विजन्मनाम् ।।2.7.6.१०।।
दरिद्राणां गतिः का वा तस्मात्ते मे दयास्पदम् ।।
इति दुर्धीरपात्रेषु दत्तवान्किमपि स्वयम् ।। ११ ।।
तेन दोषेण महता चातकत्वं त्रिजन्मसु ।।
एकजन्मनि गृध्रत्वं श्वाऽभवत्सप्तजन्मसु ।।१२।।
पश्चान्नृपगृहे जातो भूपोऽयं गृहगोधिका ।।
श्रुतकीर्त्याख्यभूपस्य मिथिलाधिपतेर्नृप ।।१३।।
गृहद्वारप्रतोल्यां च वर्तते कीटकाशना ।।
सप्ताशीतिषु वर्षेषु स्थितं तेन दुरात्मना ।। १४ ।।
विदेहाधिपतेर्गेहे कदाचिदृषिसत्तमः ।।
श्रुतदेव इति ख्यातः श्रौतो मध्याह्न आगतः ।। १५ ।।
तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ।।
मधुपर्कादिभिः पूज्य तस्य पादावनेजनीः ।। १६ ।।
अपो मूर्ध्ना वहन्क्षिप्रं तदोत्सिक्तैश्च बिंदुभिः ।।
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ।। १७ ।।
सद्यो जातस्मृतिरभूत्स्मृतकर्मादिदुःखिता ।।
त्राहित्राहीति चुक्रोश ब्राह्मणं गृहमागतम् ।। १८ ।।
तिर्यग्जंतुरवं श्रुत्वा ब्राह्मणो विस्मितोऽवदत् ।।
कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा ।। १९ ।।
त्वं देवः पुरुषः कश्चिन्नृपो वाऽथ द्विजोऽथ वा ।।
कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे ।। 2.7.6.२० ।।
इत्युक्तः स नृपः प्राह श्रुतदेवं महामतिम् ।।
अहमिक्ष्वाकुकुलजो वेदशास्त्रविशारदः ।। २१ ।।
यावत्यो भूमिकणिका यावन्तस्तोयबिंदवः ।।
यावंत्युडूनि गगने तावतीरददं स्म गाः ।। २२ ।।
सर्वे यज्ञा मया चेष्टाः पूर्तान्याचरितानि मे ।।
दानन्यपि च दत्तानि धर्मराजस्त्वनुष्ठितः ।। २३ ।।
तथापि दुर्गतिर्जाता मम चोर्ध्वगतिं विना ।।
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि ।। २४ ।।
सप्तजन्मस्वलर्कत्वं प्राप्तं पूर्वं मया द्विज ।।
सिंचताऽनेन भूपेन त्वपः पादावनेजनीः ।। २५ ।।
बिंदवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथंचन ।।
तेन जन्मस्मृतिरभूत्सर्वपाप्मा हतश्च मे ।। २६ ।।
गोधा जन्मानि भाव्यानि ह्यष्टा विंशतिकानि मे ।
दृश्यन्ते दैवसृष्टानि बिभ्ये तैर्जन्मभिर्भृशम् ।। २७ ।।
न कारणं प्रपश्याभि तन्मे विस्तरतो वद ।।
इत्युक्तः स ऋषिः प्राह ज्ञात्वा विज्ञानचक्षुषा ।।२८।।
शृणु भूप प्रवक्ष्यामि तव दुर्योनिकारणम् ।।
न जलं तु त्वया दत्तं वैशाखे माधवप्रिये ।।२९।।
तज्जलं सुलभं मत्वा ह्यमूल्यमिति निश्चितम् ।।
नाध्वगानां द्विजातीनां घर्मकालेऽप्यजानता ।। 2.7.6.३० ।।
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिदत्तवान् ।।
ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि हूयते ।। ३१ ।।
बहुधा वर्णितस्याऽपि सौगन्ध्यादियुतस्य च ।।
कण्टकान्वितवृक्षस्य न कुर्वंति समर्चनम् ।।३२।।
विशिष्टानां पादपानामश्वत्थः सेव्यतां गतः ।।
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम्।। ३३ ।।
अनाथत्वं पूज्यतायां न प्रयोजकतामियात् ।।
पंग्वाद्या येऽप्यनाथा हि दयापात्रं हि केवलम् ।। ३४ ।।
तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रविशारदाः ।।
विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन ।। ३५ ।।
तत्रापि ज्ञानिनोऽत्यर्थं विप्रा विष्णोः सदैव हि ।।
ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ।।
तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः।। ३६ ।।
अवज्ञा साधुवृत्तानामिहाऽमुत्र च दुःखदा ।।
सेवा वै महतां पुंसां पुमर्थानां हि कारणम् ।। ३७ ।।
कोटयोऽप्यन्धजातीनां न पश्यंति यथाऽयथम् ।।
एवं मन्दायुतानां तु संगतिर्नार्थदा भवेत् ।। ३८ ।।
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।।
ते पुनंत्युरुकालेन दर्शनादेव साधवः ।। ३९ ।।
न साधुसेवनात्क्वापि सीदन्ते तैः सुशिक्षिताः ।।
जन्ममृत्युजराद्यैर्वा सुधयाऽऽप्यायिता यथा ।। 2.7.6.४० ।।
न जलं तु त्वया दत्तं साधवो वा न सेविताः ।।
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनंदन ।। ४१ ।।
वैशाखे मत्कृतं पुण्यं तुभ्यं दास्यामि शान्तये ।।
भूतं भव्यं भवद्येन कर्मजातं विजे ष्यसि ।। ४२ ।।
इत्युक्त्वाऽप उपस्पृश्य ददौ पुण्यमनुत्तमम् ।।४३ ।।
यदा दत्तं ब्राह्मणेन स्नानं चैकदिने कृतम् ।।
तेन ध्वस्ताऽखिलाघस्तु त्यक्त्वा तां गृहगोधिकाम् ।। ४४ ।।
दिव्यं विमानमारुह्य दिव्यस्रग्वस्त्रभूषणः ।।
पश्यतामेव भूतानां मैथिलस्य गृहांतरे ।। ४५ ।।
बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ।।
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ।। ४६ ।।
तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ।।
स एव चेक्ष्वाकुकुले काकुत्स्थोऽभून्महाप्रभुः ।। ४७ ।।
सप्तद्वीपवतीपालो ब्रह्मण्यः साधुसंमतः ।।
देवेन्द्रस्य सखा विष्णोरंश एव महाप्रभुः ।। ४८ ।।
बोधितस्तु वसिष्ठेन वैशाखोक्तान्मनोरमान् ।।
अनुष्ठायाखिलान्धर्मांस्तेन ध्वस्ताखिलाऽशुभः ।। ४९।।
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान्।।
वैशाखः शुभदस्तस्मात्पुंभिः सर्वैरनुष्ठितः ।।2.7.6.५०।।
आयुर्यशःपुष्टिदोऽयं महापापौघनाशनः ।।
पुमर्थानां निदानं च विष्णुः प्रीणात्यनेन तु ।। ५१ ।।
चातुर्वर्ण्यनरैः सर्वैश्चतुराश्रमवर्तिभिः ।।
अनुष्ठेयो महाधर्मो वैशाखे माधवागमे ।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे गृहगोधिकाख्यानं नाम षष्ठोऽध्यायः ।। ६ ।।