शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ४/ब्राह्मणं ४

विकिस्रोतः तः

११.४.४

अथातो हविषः समृद्धिः। षड्ढ वै ब्रह्मणो द्वारोऽग्निर्वायुरापश्चन्द्रमा विद्युदादित्यः - ११.४.४.१

स य उपदग्धेन हविषा यजते अग्निना ह स ब्रह्मणो द्वारेण प्रतिपद्यते सोऽग्निना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति - ११.४.४.२

अथ यो विपतितेन हविषा यजते। वायुना ह स ब्रह्मणो द्वारेण प्रतिपद्यते स वायुना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति - ११.४.४.३

अथ योऽशृतेन हविषा यजते। अद्भिर्ह स ब्रह्मणो द्वारेण प्रतिपद्यते सोऽद्भिर्ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति - ११.४.४.४

अथ य उपरक्तेन हविषा यजते। चन्द्रमसा ह स ब्रह्मणो द्वारेण प्रतिपद्यते स चन्द्रमसा ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति - ११.४.४.५

अथ यो लोहितेन हविषा यजते। विद्युता ह स ब्रह्मणो द्वारेण प्रतिपद्यते सविद्युता ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति - ११.४.४.६

अथ यः सुशृतेन हविषा यजते। आदित्येन ह स ब्रह्मणो द्वारेण प्रतिपद्यते स आदित्येन ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति सैषा हविषः समृद्धिः स यो हैवमेतां हविषः समृद्धिं वेद सर्वसमृद्धेन हैवास्य हविषेष्टं भवति - ११.४.४.७

अथातो यज्ञस्य समृद्धिः। यद्वै यज्ञस्य न्यूनं प्रजननमस्य तदथ यदतिरिक्तं पशव्यमस्य तदथ यत्संकसुकं श्रिया अस्य तदथ यत्सम्पन्नं स्वर्ग्यमस्य तत् - ११.४.४.८

स यदि मन्येत। न्यूनं मे यज्ञेऽभूदिति प्रजननं म एतत्प्रजनिष्य इत्येव तदुपासीत - ११.४.४.९

अथ यदि मन्येत अतिरिक्तं मे यज्ञेऽभूदिति पशव्यं म एतत्पशुमान्भविष्यामीत्येव तदुपासीत - ११.४.४.१०

अथ यदि मन्येत। संकसुकं मे यज्ञेऽभूदिति श्रियै म एतदा मा श्रीस्तेजसा यशसा
ब्रह्मवर्चसेन परिवृता गमिष्यतीत्येव तदुपासीत - ११.४.४.११

अथ यदि मन्येत। सम्पन्नं मे यज्ञेऽभूदिति स्वर्ग्यं म एतत्स्वर्गलोको भविष्यामीत्येव तदुपासीत सैषा यज्ञस्य समृद्धिः स यो हैवमेतां यज्ञस्य समृद्धिं वेद सर्वसमृद्धेन हैवास्य यज्ञेनेष्टं भवति - ११.४.४.१२