शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ३/ब्राह्मणं २

विकिस्रोतः तः
जुहू - स्रुवा

११.३.२
यो ह वा अग्निहोत्रे। षण्मिथुनानि वेद मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिर्यजमानश्च पत्नी च तदेकं मिथुनं तस्मादस्य पत्नीवदग्निहोत्रं स्यादेतन्मिथुनमुपाप्नवानीति वत्सश्चाग्निहोत्री च तदेकं मिथुनं तस्मादस्य पुम्वत्साग्निहोत्री स्यादेतन्मिथुनमुपाप्नवानीति स्थाली चाङ्गाराश्च तदेकम्मिथुनं स्रुक्च स्रुवश्च तदेकं मिथुनमाहवनीयश्च समिच्च तदेकम्मिथुनमाहुतिश्च स्वाहाकारश्च तदेकं मिथुनमेतानि ह वा अग्निहोत्रे षण्मिथुनानि तानि य एवं वेद मिथुनेन मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः - ११.३.२.[१]