शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ३/ब्राह्मणं १

विकिस्रोतः तः

११.३.१

वाग्घ वा एतस्याग्निहोत्रस्याग्निहोत्री। मन एव वत्सस्तदिदं मनश्च वाक्च समानमेव सन्नानेव तस्मात्समान्या रज्ज्वा वत्सं च मातरं चाभिदधति तेज एव श्रद्धा सत्यमाज्यम् - ११.३.१.[१]

तद्धैतज्जनको वैदेहः याज्ञवल्क्यं पप्रच्छ। वेत्थाग्निहोत्रं याज्ञवल्क्या३ इति वेद सम्राडिति किमिति पय एवेति - ११.३.१.[२]

यत्पयो न स्यात्। केन जुहुया इति व्रीहियवाभ्यामिति यद्व्रीहियवौ न स्यातां केन
जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या ओषधय इति यदारण्या ओषधयो न स्युः केन जुहुया इति वानस्पत्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरिति यदापो न स्युः केन जुहुया इति - ११.३.१.[३]

स होवाच। न वा इह तर्हि किं चनासीदथैतदहूयतैव सत्यं श्रद्धायामिति वेत्थाग्निहोत्रं याज्ञवल्क्य धेनुशतं ददामीति होवाच - ११.३.१.[४]

तदप्येते श्लोकाः। किं स्विद्विद्वान्प्रवसत्यग्निहोत्री गृहेभ्यः कथं स्विदस्य काव्यं कथं संततो अग्निभिरिति कथं स्विदस्यानपप्रोषितं भवतीत्येवैतदाह - ११.३.१.[५]

यो जविष्ठो भुवनेषु। स विद्वान्प्रवसन्विदे तथा तदस्य काव्यं तथा संततो अग्निभिरिति मन एवैतदाह मनसैवास्यानपप्रोषितं भवतीति - ११.३.१.[६]

यत्स दूरं परेत्य। अथ तत्र प्रमाद्यति कस्मिन्त्सास्य हुताऽऽहुतिर्गृहे यामस्य जुह्वतीति यत्स दूरं परेत्याथ तत्र प्रमाद्यति कस्मिन्नस्य साऽऽहुतिर्हुता भवतीत्येवैतदाह - ११.३.१.[७]

यो जागार भुवनेषु। विश्वा जातानि योऽबिभः। तस्मिन्त्साऽस्य हुताऽऽहुतिर्गृहे यामस्य जुह्वतीति प्राणमेवैतदाह तस्मादाहुः प्राण एवाग्निहोत्रमिति - ११.३.१.[८]


[सम्पाद्यताम्]