स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०३
← अध्यायः ०२ | स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम् अध्यायः ३ [[लेखकः :|]] |
अध्यायः ०४ → |
।। ब्रह्मोवाच ।। ।।
पुंड्रं कतिविधं कार्यं प्रब्रूहि मम केशव ।।
पुंड्राणां श्रवणेऽतीव कौतुकं मम जायते ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
शृणु पुत्र प्रवक्ष्यामि पुंड्रं च त्रिविधं स्मृतम् ।।
तुलसीमृत्स्नया सार्धं श्रीगोपीचंदनेन च ।। २ ।।
हरिचंदनतः कार्यं पुंड्रं तत्र विचक्षणैः ।।
श्रीकृष्णतुलसीमूलमृदमादाय भक्तिमान् ।।
धारयेदूर्ध्वपुंड्राणि हरिस्तत्र प्रसीदति ।। ३ ।।
गोपीचंदन माहात्म्यं निबोध गदतो मम ।। ४ ।।
यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके ।।
करोति नित्यं नर ऊर्ध्वपुंड्रं क्रियाफलं कोटिगुणं तदा भवेत्।। ५।।
क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम्।।
कृत्वा ललाटे यदि गोपिचंदनं प्राप्नोति तत्कर्मफलं सदाऽव्ययम्।।६।।
गोपीचंदनसंभवं सुरुचिरं पुंड्रं ललाटे द्विजो नित्यं धारयते यदि प्रतिदिनं रात्रौ दिवा सर्वदा।।
यत्पुण्यं कुरुजांगले रविग्रहे माघ प्रयागे तथा तत्प्राप्नोति ततोऽधिकं मम गृहे संतिष्ठते देववत् ।। ७ ।।
यस्मिन्गृहे तिष्ठति गोपिचंदनं भक्त्या ललाटे मनुजो बिभर्ति चेत् ।।
तस्मिन्गृहेऽहं निवसामि सर्वदा श्रियान्वितः कंसनिहा चतुर्मुख ।। ८ ।।
यो धारयेद्द्द्वारवतीसमुद्भवां मृत्स्नां पवित्रां कलिकल्मषापहाम् ।।
नित्यं ललाटे मम मन्त्रसंयुतां यमं न पश्येदपि पापसंयुतः ।। ९ ।।
यस्यांऽतकाले सुत गोपिचंदनं बाह्वोर्ललाटे हृदि मस्तके च ।।
प्रयाति लोके कमलापतेर्मम गोबालघाती यदि ब्रह्महा स्यात् ।। 2.5.3.१० ।।
ग्रहा न पीड्यंति न रक्षसां गणा यक्षाः पिशाचोरगभूतनायकाः ।।
ललाटपट्टे सुत गोपिचंदनं संतिष्ठते यस्य मम प्रभावात् ।। ११ ।।
ऊर्ध्वपुंड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ।।
स चंडालोऽपि शुद्धात्मा पूज्य एव न संशयः ।।१२।।
अस्नातो यः क्रियाः कुर्यादशुचिः पापसंयुतः ।।
गोपीचंदनसंपर्कात्पूतो भवति तत्क्षणात् ।। १३ ।।
अशुचिर्वाप्यनाचारो महापापं समाचरेत् ।।
शुचिरेव भवेन्नित्यमूर्ध्वपुंड्रांऽकितो नरः ।।१४।।
मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ।।
मत्पूजाहोमके चैव सायं प्रातः समाहितः।।
मद्भक्तो धारयेन्नित्यमूर्ध्वपुंड्रं भवापहम्।। १५ ।।
ऊर्ध्वपुंड्रधरो मर्त्यो म्रियते यदि कुत्रचित् ।।
श्वपाकोऽपि विमानस्थो मम लोके महीयते ।। १६ ।।
ऊर्ध्वपुंड्रधरो मर्त्यो यदा यस्यान्नमश्नुते ।।
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहम् ।। १७ ।।
वीक्ष्याऽऽदर्शे जले वाऽपि यो विदध्यात्प्रयत्नतः ।।
ऊर्ध्वपुण्ड्रं महाभाग स याति परमां गतिम् ।। १८ ।।
अनामिका शांतिदोक्ता मध्यमाऽऽयुष्करी भवेत् ।।
अंगुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षदायिनी ।।।। १९ ।।
गोपीचंदनखंडं तु यो ददाति च वैष्णवे ।।
कुलमष्टोत्तरं तेन तारितं वै भवेच्छतम् ।। 2.5.3.२० ।।
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रविनाकृतम् ।। २१ ।।
यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविनाकृतम् ।।
तन्मुखं नैव पश्यामि श्मशानसदृशं हि तत्।। २२ ।।
ऊर्ध्वपुण्ड्रं प्रकुर्वीत मत्स्यकूर्मादिधारणम् ।।
कुर्याद्विष्णुप्रसादार्थं महाविष्णोरतिप्रियम् ।। २३ ।।
यत्पुनः कलिकाले तु मत्पुरीसंभवां मृदम् ।।
मत्स्यकूर्मांऽकितं चिह्नं गृहीत्वा कुरुते नरः ।। २४ ।।
देहे तस्य प्रविष्टं मां जानीहि त्रिदशोत्तम ।।
तस्य मे नांतरं किंचित्कर्तव्यं श्रेय इच्छता ।। २५ ।।
ममावतारचिह्नानि दृश्यंते यस्य विग्रहे ।।
मर्त्यो मर्त्यो न विज्ञेयः स नूनं मामकी तनुः ।। २६ ।।
पापं सुकृतरूपं तु जायते तस्य देहिनः ।।
ममाऽऽयुधानि दृश्यंते लिखितानि कलौ युगे ।। २७ ।।
उभाभ्यामपि चिह्नाभ्यां योंऽकितो मत्स्यमुद्रया ।।
कूर्मया मामकं तेजो विक्षिप्तं तस्य विग्रहे ।। २८ ।।
शंख च पद्मं च गदां रथांगं मत्स्यं च कूर्मं रचितं स्वदेहे ।।
करोति नित्यं सुकृतस्य वृद्धिं पापक्षयं जन्मशतार्जितस्य ।। २९ ।।
नारायणायुधैर्नित्यं चिह्नितो यस्य विग्रहः ।।
पापकोटिप्रयुक्तस्य तस्य किं कुरुते यमः ।। 2.5.3.३० ।।
शंखोद्धारे च यत्प्रोक्तं वसता कोटिजन्मभिः ।।
तत्फलं लभते शंखे प्रत्यहं दक्षिणे भुजे ।। ३१ ।।
यत्फलं पुष्करे प्रोक्तं पुण्डरीकाक्षदर्शनात् ।।
शंखोपरि कृते पद्मे तत्फलं कोटिसंमितम् ।।३२ ।।
वामे भुजे गदा यस्य लिखिता दृश्यते कलौ।।
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति।। ३३।।
यच्चानंदपुरे प्रोक्तं चक्रस्वामिसमीपतः ।।
गदाचक्रे च लिखिते तत्फलं लिंगदर्शने ।। ३४ ।।
ममायुधांऽकितं देहं गोपीचन्दनमृत्स्नया ।।
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ।। ३५ ।।
यदायदा प्रपश्येत देहं शंखादिचिह्नितम् ।।
तदातदा प्रसन्नोहं पापं तस्य दहामि वै ।। ३६ ।।
तिष्ठते यस्य देहे तु अहोरात्रं दिने दिने ।।
शंखचक्रगदापद्मलिखितं स मदात्मकः ।।३७।।
नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ।।
यत्पुण्यं कर्म कुरुते मेरुतुल्यं न संशयः।।३८।।
शंखायुधांऽकितो भक्त्या यः श्राद्धं कुरुते सुत ।।
विधिहीनं तु संपूर्णं पितॄणां दत्तमक्षयम् ।।३९।।
यथाऽग्निर्दहते काष्ठं वायुना प्रेषितो भृशम् ।।
तथा दह्यंति पापानि दृष्ट्वा म आयुधानि वै ।। 2.5.3.४० ।।
मम नामांकितां मुद्रामष्टाक्षरसमन्विताम् ।।
शंखादिस्वायुधैर्युक्तां स्वर्णरौप्यमयीमपि ।।४१।।
धत्ते भगवतो यस्तु कलिकाले विशेषतः ।।
प्रह्रादस्य समो ज्ञेयो नान्यथा मम वल्लभः ।।४२।।
यस्य नारायणी मुद्रा देहं शंखादिचिह्नितम् ।।
धात्रीफलैः कृता माला तुलसीकाष्ठसंभवा ।।४३।।
द्वादशाक्षरमंत्रस्तु नियुक्तानि कलेवरे ।।
आयुधानि च विप्रस्य मत्समः स च वैष्णवः ।।४४।।
शंखांकिततनुर्विप्रो भुंक्ते वै यस्य वेश्मनि ।।
तदन्नं स्वयमश्नामि पितृभिः सह पुत्रक ।।४५।।
कृष्णायुधांऽकितं दृष्ट्वा सन्मानं न करोति यः ।।
द्वादशाब्दार्जितं पुण्यं बाष्कलेयाय गच्छति ।। ४६ ।।
कृष्णायुधांऽकितो यस्तु श्मशाने म्रियते यदि ।।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य मानद ।।४७।।
ममाऽऽयुधैः कलौ नित्यं मंडितो यस्य विग्रहः ।।
तत्राऽऽश्रमं प्रकुर्वंति विबुधा वासवादयः ।। ४८ ।।
यः करोति च मे पूजां मम शस्त्रांकितो नरः ।।
अपराधसहस्राणि नित्यं तस्य हराम्यहम् ।। ४९ ।।
कृत्वा काष्ठमयं बिंबं मम शस्त्रैः सुचिह्नितम् ।।
यो वा अंकयते देहं तत्समो नास्ति वैष्णवः ।। 2.5.3.५० ।।
अष्टाक्षरांऽकिता मुद्रा यस्य धातुमयी करे ।।
शंखपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः ।।५१।।
धृता नारायणी मुद्रा प्रह्रादेन पुरा करे ।।
विभीषणेन बलिना ध्रुवेण च शुकेन च ।।
मांधात्रा ह्यंबरीषेण मार्कंडेयमुखैर्द्विजैः ।। ५२ ।।
शंखादिचिह्नितैः शस्त्रैर्देहं कृत्वा च मानद ।।
एवमाराध्य मां प्राप्तं समीहितफलं महत् ।। ५३ ।।
गोपीचंदनमृत्स्नया लिखितो यस्य विग्रहः ।।
शंखचक्रादिपद्मांऽको देहे तस्य वसाम्यहम् ।। ५४ ।।
सौवर्णं राजतं ताम्रं कांस्यमायसमेव च ।।
चक्रं कृत्वा तु मेधावी धारयीत विचक्षणः ।।
द्वादशारं तु षट्कोणं वलित्रयविभूषितम् ।। ५५ ।।
एवं सुदर्शनं चक्रं कारयीत विचक्षणः ।।
उपवीतादिवद्धार्याः शंखचक्रगदाः सदा ।। ५६ ।।
ब्राह्मणैश्च विशेषेण वैष्णवैश्च विशेषतः ।।
उपवीतं शिखा यद्वच्चक्रं लांछन संयुतम् ।। ५७ ।।
चक्रलांछनहीनस्य विप्रस्य विफलं भवेत् ।।
मम चक्रांऽकितो देहः पवित्र इति वै श्रुतिः ।। ५८ ।।
चक्रांऽकिताय दातव्यं हव्यं कव्यं विचक्षणैः ।।
मम चक्रांऽककवचमभेद्यं देवदानवैः ।।
अजेयः सर्वभूतानां शत्रूणां रक्षसामपि ।। ५९ ।।
मम चक्रांऽककवचं शरीरे यस्य तिष्ठति ।।
नाऽशुभं विद्यते तस्य गृहपुत्रादिकस्य हि ।। 2.5.3.६० ।।
दक्षिणे च भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।।
सव्ये च शंखं बिभृयादिति वेदविदो विदुः ।। ६१ ।।
तत्तन्मंत्रेण मंत्रज्ञः प्रतिष्ठाप्य पृथक्पृथक् ।। ६२ ।।
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ।।
नंदकं चैव हृन्मध्ये शंखचक्रे भुजद्वये ।। ६३ ।।
तस्मात्सर्वप्रयत्नेन चक्रादीन्धारयेत्सदा ।।
धारणानन्तरं ब्रूयात्तत्र चैवं द्विजोत्तमः ।। ६४ ।।
पुत्रमित्रकलत्रादिर्यः कश्चिन्मत्परिग्रहः ।।
सह देहेन सर्वोऽसौ विष्णुप्रीत्यै मयाऽर्पितः ।। ६५ ।।
पश्चात्स्वधर्ममास्थाय तिष्ठेदाजीवनं मम ।।
भक्त्या चाव्यभिचारिण्या सर्वदाऽऽप्तमनोरथः ।। ६६ ।।
शंखचक्रांकितं दृष्ट्वा ये निंदंति नराधमाः ।।
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ।।
श्रीकृष्णनाम चोच्चार्य शुद्धो भवति नान्यथा ।। ६७ ।।
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे गोपीचन्दनादिशंख चक्राद्यायुधधारणतत्तन्मुद्राधारणप्रकारकथनंनाम तृतीयोऽध्यायः ।। ३ ।।