स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०४
← अध्यायः ०३ | स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम् अध्यायः ४ [[लेखकः :|]] |
अध्यायः ०५ → |
।। ब्रह्मोवाच ।। ।।
तप्तचकांकितं कृत्वा ह्यात्मानमथ दीक्षितम् ।।
पद्माक्षतुलसीमालं किं फलं ब्रूहि केशव ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
तुलसीकाष्ठसंभूतां यो मालां वहते द्विजः ।।
अप्यऽशौचोऽप्यनाचारो मामेवैति न संशयः ।। २ ।।
धात्रीफलकृता माला तुलसीकाष्ठसंभवा ।।
दृश्यते यस्य देहे तु स वै भागवतो नरः ।। ३ ।।
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।।
ममोत्तीर्णां विशेषेण स नमस्यो दिवौकसाम् ।। ४ ।।
तुलसीदलजां मालां धात्रीफलकृतामपि ।।
ददाति पापिनां मुक्तिं किं पुनर्मम सेविनाम् ।। ५ ।।
तुलसीदलजां मालां ममोत्तीर्णां वहेत्तु यः ।।
पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम् ।। ६ ।।
तुलसीकाष्ठसंभूतां यो मालां वहते नरः।।
फलं यच्छाम्यहं वत्स प्रत्यहं द्वारकोद्भवम् ।। ७ ।।
निवेद्य भक्त्या मां मालां तुलसीकाष्ठसंभवाम् ।।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ।। ८ ।।
सदा प्रीतमनास्तस्य अहं प्राणवरो हि सः ।।
तुलसीकाष्ठसंभूतां यो मालां वहते नरः ।।
प्रायश्चित्तं न तस्याऽस्ति नाऽशौचं तस्य विग्रहे ।।९।।
तुलसीकाष्ठसंभूतं शिरसः काष्ठभूषणम् ।।
बाहौ करे च मर्त्यस्य देहे यस्य स मे प्रियः ।। 2.5.4.१० ।।
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ।।
पितॄणां देवतानां च पुण्यं कोटिगुणं भवेत् ।। ११ ।।
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।।
दृष्ट्वा नश्यंति दूरेण वातोद्धूतं यथा दलम् ।। १२ ।।
यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथाऽऽर्द्रकम् ।।
भवंति तद्गृहे नैव पापं संक्रमते कलौ ।। १३ ।।
तुलसी काष्ठमालाभिर्भूषितो र्भ्रमते भुवि ।।
दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित् ।।१४।।
धारयंति न ये मालां हैतुकाः पापबुद्धयः ।।
नरकान्न निवर्तंते दग्धाः कोपाग्निना मम ।। १५ ।।
तस्माद्धार्या प्रयत्नेन माला तुलसिसंभवा ।।
पद्माक्षनिर्मिता भक्त्या फलैर्धात्र्या सुपुण्यदा ।। १६ ।।
तदूर्ध्वपुंड्रशंखाद्यैर्युक्तस्तुलसिमूलके ।।
सन्ध्योपास्त्यादिकं कुर्यात्कुशपाणिर्हिं मां स्मरन् ।। १७ ।।
कृतसन्ध्यादिको भक्तस्ततः संपूजयेच्च माम् ।।
गुरुश्चेत्तत्र वर्तेत आदौ गत्वा नमेद्गुरुम् ।। १८ ।।
किंचिद्दत्त्वोपायनं च दण्डवत्प्रणमेन्मुदा ।।
आचम्यैकाग्रमनसा पूजामण्डपमाविशेत् ।। १९ ।।
उपविश्याऽऽसने रम्ये कृष्णाजिनकुशोत्तरे ।।
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ।। 2.5.4.२० ।।
प्राणायामत्रयं कृत्वा मन्त्रेण च जितेंद्रियः ।।
उदङ्मुखस्ततः कृत्वा हृत्पंकजमनुत्तमम्।।
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि ।। २१ ।।
कर्णिकायां न्यसेच्चार्कं शशिनं चाग्निमेव च ।।
त्रयं त्रयात्मके तस्मिश्चिंतयेद्वैष्णवो नरः ।।
नानारत्नमयं पीठं तेषामुपरि विन्यसेत् ।। २२ ।।
तस्मिन्मृदुश्लक्ष्णतरं बालार्कसदृशद्युति ।।
अष्टैश्वर्यदलं पद्मं मन्त्राक्षरमयं न्यसेत् ।। २३ ।।
तस्मिन्देवं समासीनं कोटिशीतांशुसन्निभम् ।।
चतुर्भुजं महापद्मशंखचक्रगदाधरम् ।। २४ ।।
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ।।
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रान्वितं च माम् ।। २५ ।।
विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम् ।।
दिव्यचन्दनलिप्तांगं दिव्यपुष्पोपशोभितम् ।। २६ ।।
तुलसीकोमलदलवनमालाविभूषितम् ।।
कोटिबालार्कसदृशं कान्तं दिव्यश्रिया सह ।। २७ ।।
सर्वलक्षणलक्षिण्या समाश्लिष्टतनुं शिवम् ।।
एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ।। २८ ।।
सहस्रं शतवारं वा यथाशक्ति जपेन्मनुम् ।।
मनसैवाऽर्चनं कृत्वा ततो विधिवदाचरेत् ।। २९ ।।
संप्रदायाऽनुरोधेन शंखं स्थाप्य ममाग्रतः ।।
दूर्वांकुरैश्च पुष्पैश्च गंधोदेन च पूरितम् ।। 2.5.4.३० ।।
दक्षिणे गंधपुष्पाणां पात्रं स्थाप्य च देशिकैः ।।
वामभागे न्यसेत्कुंभं वस्त्रपूतं सुवासितम् ।। ३१ ।।
पुरतो मम घंटां च दिक्षु दीपान्नियोजयेत् ।।
अन्यत्सर्वं साधनं च यथास्थानेषु विन्यसेत् ।।३२।।
अर्घ्यपाद्याऽऽचमनीयमधुपर्कस्य कारणात् ।।
विन्यसेत्पुरतो मह्यं चत्वार्यमत्रकाणि वै ।। ३३ ।।
सिद्धार्थाऽक्षतपुष्पाणि कुशाग्रं तिलचंदनम् ।।
फलं यवाश्चतुर्वक्त्र अर्घ्यपात्रे विनिःक्षिपेत् ।।३४।।
दूर्वा विष्णुपदी श्यामा पद्मं चैव चतुर्थकम् ।।
पाद्यपात्रे न्यसेत्पुत्र देशिको मम तुष्टये ।। ३५ ।।
कंकोलं च लवंगं च फलं मालतिसंभवम् ।।
कुर्याद्वै श्रद्धया पुत्र पात्र आचमनीयके ।। ३६ ।।
गव्यं पयो दधि मधु घृतं खंड समन्वितम् ।।
मधुपर्कस्य पात्रे वै दद्याद्वै श्रद्धयाऽर्चकः ।। ३७ ।।
उक्तानां द्रव्यजातीनामलाभे पत्रपुष्पयोः ।।
तत्तद्भावनया कुर्यात्सर्वदा विधिकोविदः ।। ३८ ।।
करन्यासं ततः कुर्यादंगन्यासं तथैव च ।।
पंचांगं वा षडंगं वा विन्यसेत्संप्रदायतः ।। ३९ ।।
ममाऽनुस्मरणं कार्यमात्मानं मत्समं स्मरेत् ।।
पूजारंभे चतुर्वक्त्रं मंगलं तु पठेन्नरः ।। 2.5.4.४० ।।
अथ संपूजयेच्छंखं पांचजन्यं मम प्रियम् ।।
यस्य संपूजनाद्वत्स आनंदः परमो मम ।।
शंखस्य पूजने वत्स मंत्रानेतानुदीरयेत् ।। ४१ ।।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।।
निर्मितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ।। ४२ ।।
तव नादेन जीमूता वित्रसंति सुराऽसुराः ।।
शशांकाऽयुतदीप्ताभ पांचजन्य नमोऽस्तु ते ।।४३।।
गर्भा देवारिनारीणां विलीयंते सहस्रधा ।।
तव नादेन पाताले पांचजन्य नमोऽस्तु ते ।। ४४ ।।
दर्शनेनैव शंखस्य किं पुनः स्पर्शने कृते ।।
विलयं यांति पापानि हिमवद्भास्करोदये ।। ४५ ।।
नत्वा शंखं करे धृत्वा मंत्रैरेभिस्तु वैष्णवः ।।
यः स्नापयति मां भक्त्या तस्य पुण्यमनंतकम् ।। ४६ ।।
सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ।।
कस्तूर्या चंदनेनैव कुर्यादुद्वर्तनादिकम्।। ४७।।
सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ।।
अर्घ्यं दत्त्वा ततो वत्स पाद्यमाचमनीयकम् ।।
मधुपर्कं ततो दद्यादथ सर्वोपचारकान् ।। ४८ ।।
वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि ।।
पुष्पैः संपूजयेत्पीठं तत्र देवं निधाय च ।।४९।।
वस्त्राऽलंकारगंधादीनर्पयेच्छ्रद्धया मम ।।
नैवेद्यं विविधं दद्यात्पायसाऽपूपमिश्रितम् ।।
सकर्पूरं च तांबूलं भक्त्या चैव निवेदयेत् ।। 2.5.4.५० ।।
सुरभीणि च पुष्पाणि भक्त्या सम्यङ्निवेदयेत्।।
धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ।। ५१ ।।
परिणीय प्रणम्याथ स्तुत्वा स्तुतिभिरादरात् ।।
शाययित्वा तु पर्यंके मगलार्घ्यं निवेदयेत्।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजाविधिकथनंनाम चतुर्थोऽध्यायः ।। ४ ।।