स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५५

विकिस्रोतः तः

ईश्वर उवाच॥
ततो गच्छेन्महादेवि तत्पूर्वे विमलेश्वरम्॥
गौर्याः पूर्वं समीपस्थं नातिदूरे व्यवस्थितम्॥१॥
गुरोर्नैर्ऋत्यदिग्भागे स्थितं पापप्रणाशनम्॥
अपि कृत्वा महापापं नारी वा पुरुषोऽपि वा ॥ २ ॥
क्षयाभिभूतदेहो वा तं समभ्यर्च्य भक्तितः ॥
सर्वदुःखान्तगो भूत्वा निर्मलं पदमाप्नुयात् ॥ ३ ॥
गंधर्वसेना यत्रैव विमलाऽभूत्क्षया न्विता ॥
विमलेश्वरनाम्ना वै तल्लिंगं प्रथितं क्षितौ ॥ ४ ॥
इति ते कथितं सर्वं विमलेश्वरसूचकम् ॥
माहात्म्यं सर्वपापघ्नं तुरीयं भवसुन्दरि ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विमलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥